रामायण (संशोधित पाठ) · अध्याय 2.25
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः
निवर्तनार्थे धर्मात्मा वाक्यम् एतद् उवाच ह ॥
सीते महाकुलीनासि धर्मे च निरता सदा
इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम् ॥
सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले
वने दोषा हि बहवो वदतस् तान् निबोध मे ॥
सीते विमुच्यताम् एषा वनवासकृता मतिः
बहुदोषं हि कान्तारं वनम् इत्य् अभिधीयते ॥
हितबुद्ध्या खलु वचो मयैतद् अभिधीयते
सदा सुखं न जानामि दुःखम् एव सदा वनम् ॥
गिरिनिर्झरसम्भूता गिरिकन्दरवासिनाम्
सिंहानां निनदा दुःखाः श्रोतुं दुःखम् अतो वनम् ॥
सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले
रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम् ॥
उपवासश् च कर्तव्यो यथाप्राणेन मैथिलि
जटाभारश् च कर्तव्यो वल्कलाम्बरधारिणा ॥
अतीव वातस् तिमिरं बुभुक्षा चात्र नित्यशः
भयानि च महान्त्य् अत्र ततो दुःखतरं वनम् ॥
सरीसृपाश् च बहवो बहुरूपाश् च भामिनि
चरन्ति पृथिवीं दर्पाद् अतो दुःखतरं वनम् ॥
नदीनिलयनाः सर्पा नदीकुटिलगामिनः
तिष्ठन्त्य् आवृत्य पन्थानम् अतो दुःखतरं वनम् ॥
पतंगा वृश्चिकाः कीटा दंशाश् च मशकैः सह
बाधन्ते नित्यम् अबले सर्वं दुःखम् अतो वनम् ॥
द्रुमाः कण्टकिनश् चैव कुशकाशाश् च भामिनि
वने व्याकुलशाखाग्रास् तेन दुःखतरं वनम् ॥
तद् अलं ते वनं गत्वा क्षमं न हि वनं तव
विमृशन्न् इह पश्यामि बहुदोषतरं वनम् ॥
वनं तु नेतुं न कृता मतिस् तदा बभूव रामेण यदा महात्मना
न तस्य सीता वचनं चकार तत् ततो ऽब्रवीद् रामम् इदं सुदुःखिता ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0