रामायण (संशोधित पाठ) · अध्याय 2.24
एवम् उक्ता तु वैदेही प्रियार्हा प्रियवादिनी
प्रणयाद् एव संक्रुद्धा भर्तारम् इदम् अब्रवीत् ॥
आर्यपुत्र पिता माता भ्राता पुत्रस् तथा स्नुषा
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यम् उपासते ॥
भर्तुर् भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ
अतश् चैवाहम् आदिष्टा वने वस्तव्यम् इत्य् अपि ॥
न पिता नात्मजो नात्मा न माता न सखीजनः
इह प्रेत्य च नारीणां पतिर् एको गतिः सदा ॥
यदि त्वं प्रस्थितो दुर्गं वनम् अद्यैव राघव
अग्रतस् ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥
ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषम् इवोदकम्
नय मां वीर विश्रब्धः पापं मयि न विद्यते ॥
प्रासादाग्रैर् विमानैर् वा वैहायसगतेन वा
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्
नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया ॥
सुखं वने निवत्स्यामि यथैव भवने पितुः
अचिन्तयन्ती त्रींल् लोकांश् चिन्तयन्ती पतिव्रतम् ॥
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्
अन्यस्यापि जनस्येह किं पुनर् मम मानद ॥
फलमूलाशना नित्यं भविष्यामि न संशयः
न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥
इच्छामि सरितः शैलान् पल्वलानि वनानि च
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥
हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता ॥
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी
एवं वर्षसहस्राणां शतं वाहं त्वया सह ॥
स्वर्गे ऽपि च विना वासो भविता यदि राघव
त्वया मम नरव्याघ्र नाहं तम् अपि रोचये ॥
अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर् युतम्
वने निवत्स्यामि यथा पितुर् गृहे तवैव पादाव् उपगृह्य संमता ॥
अनन्यभावाम् अनुरक्तचेतसं त्वया वियुक्तां मरणाय निश्चिताम्
नयस्व मां साधु कुरुष्व याचनां न ते मयातो गुरुता भविष्यति ॥
तथा ब्रुवाणाम् अपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति
उवाच चैनां बहु संनिवर्तने वने निवासस्य च दुःखितां प्रति ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0