रामायण (संशोधित पाठ) · अध्याय 2.23
अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥
विराजयन् राजसुतो राजमार्गं नरैर् वृतम्
हृदयान्य् आममन्थेव जनस्य गुणवत्तया ॥
वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी
तद् एव हृदि तस्याश् च यौवराज्याभिषेचनम् ॥
देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना
अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥
प्रविवेशाथ रामस् तु स्ववेश्म सुविभूषितम्
प्रहृष्टजनसम्पूर्णं ह्रिया किंचिद् अवाङ्मुखः ॥
अथ सीता समुत्पत्य वेपमाना च तं पतिम्
अपश्यच् छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नम् अमर्षणम्
आह दुःखाभिसंतप्ता किम् इदानीम् इदं प्रभो ॥
अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥
न ते शतशलाकेन जलफेननिभेन च
आवृतं वदनं वल्गु छत्त्रेणाभिविराजते ॥
व्यजनाभ्यां च मुख्याभ्यां शतपत्त्रनिभेक्षणम्
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥
वाग्मिनो बन्दिनश् चापि प्रहृष्टास् त्वां नरर्षभ
स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः ॥
न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः
मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः ॥
न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश् च भूषिताः
अनुव्रजितुम् इच्छन्ति पौरजानपदास् तथा ॥
चतुर्भिर् वेगसम्पन्नैर् हयैः काञ्चनभूषणैः
मुख्यः पुष्यरथो युक्तः किं न गच्छति ते ऽग्रतः ॥
न हस्ती चाग्रतः श्रीमांस् तव लक्षणपूजितः
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥
न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन
भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम् ॥
अभिषेको यदा सज्जः किम् इदानीम् इदं तव
अपूर्वो मुखवर्णश् च न प्रहर्षश् च लक्ष्यते ॥
इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः
सीते तत्रभवांस् तातः प्रव्राजयति मां वनम् ॥
कुले महति सम्भूते धर्मज्ञे धर्मचारिणि
शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥
राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे
कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ ॥
तयाद्य मम सज्जे ऽस्मिन्न् अभिषेके नृपोद्यते
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥
चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया
पित्रा मे भरतश् चापि यौवराज्ये नियोजितः
सो ऽहं त्वाम् आगतो द्रष्टुं प्रस्थितो विजनं वनम् ॥
भरतस्य समीपे ते नाहं कथ्यः कदाचन
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्
तस्मान् न ते गुणाः कथ्या भरतस्याग्रतो मम ॥
नापि त्वं तेन भर्तव्या विशेषेण कदाचन
अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥
अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्
वनम् अद्यैव यास्यामि स्थिरा भव मनस्विनि ॥
याते च मयि कल्याणि वनं मुनिनिषेवितम्
व्रतोपवासरतया भवितव्यं त्वयानघे ॥
काल्यम् उत्थाय देवानां कृत्वा पूजां यथाविधि
वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥
माता च मम कौसल्या वृद्धा संतापकर्शिता
धर्मम् एवाग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥
वन्दितव्याश् च ते नित्यं याः शेषा मम मातरः
स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥
भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः
त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥
विप्रियं न च कर्तव्यं भरतस्य कदाचन
स हि राजा प्रभुश् चैव देशस्य च कुलस्य च ॥
आराधिता हि शीलेन प्रयत्नैश् चोपसेविताः
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥
औरसान् अपि पुत्रान् हि त्यजन्त्य् अहितकारिणः
समर्थान् सम्प्रगृह्णन्ति जनान् अपि नराधिपाः ॥
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यम् इहैव भामिनि
यथा व्यलीकं कुरुषे न कस्यचित् तथा त्वया कार्यम् इदं वचो मम ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0