रामायण (संशोधित पाठ) · अध्याय 2.22
सापनीय तम् आयासम् उपस्पृश्य जलं शुचि
चकार माता रामस्य मङ्गलानि मनस्विनी ॥
स्वस्ति साध्याश् च विश्वे च मरुतश् च महर्षयः
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो ऽर्यमा ॥
ऋतवश् चैव पक्षाश् च मासाः संवत्सराः क्षपाः
दिनानि च मुहूर्ताश् च स्वस्ति कुर्वन्तु ते सदा ॥
स्मृतिर् धृतिश् च धर्मश् च पान्तु त्वां पुत्र सर्वतः
स्कन्दश् च भगवान् देवः सोमश् च सबृहस्पतिः ॥
सप्तर्षयो नारदश् च ते त्वां रक्षन्तु सर्वतः
नक्षत्राणि च सर्वाणि ग्रहाश् च सहदेवताः
महावनानि चरतो मुनिवेषस्य धीमतः ॥
प्लवगा वृश्चिका दंशा मशकाश् चैव कानने
सरीसृपाश् च कीटाश् च मा भूवन् गहने तव ॥
महाद्विपाश् च सिंहाश् च व्याघ्रा ऋक्षाश् च दंष्ट्रिणः
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥
नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः
मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास् त्व् इह ॥
आगमास् ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः
सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक ॥
स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः
सर्वेभ्यश् चैव देवेभ्यो ये च ते परिपन्थिनः ॥
सर्वलोकप्रभुर् ब्रह्मा भूतभर्ता तथर्षयः
ये च शेषाः सुरास् ते त्वां रक्षन्तु वनवासिनम् ॥
इति माल्यैः सुरगणान् गन्धैश् चापि यशस्विनी
स्तुतिभिश् चानुरूपाभिर् आनर्चायतलोचना ॥
यन् मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते
वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् ॥
यन् मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा
अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् ॥
ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्
चकार रक्षां कौसल्या मन्त्रैर् अभिजजाप च ॥
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी
अवदत् पुत्र सिद्धार्थो गच्छ राम यथासुखम् ॥
अरोगं सर्वसिद्धार्थम् अयोध्यां पुनर् आगतम्
पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि ॥
मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरोरगाः
अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश् च राघव ॥
इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि
प्रदक्षिणं चैव चकार राघवं पुनः पुनश् चापि निपीड्य सस्वजे ॥
तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश् चरणौ पुनः पुनः
जगाम सीतानिलयं महायशाः स राघवः प्रज्वलितः स्वया श्रिया ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0