रामायण (संशोधित पाठ) · अध्याय 2.21
तं समीक्ष्य त्व् अवहितं पितुर् निर्देशपालने
कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥
अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः
मयि जातो दशरथात् कथम् उञ्छेन वर्तयेत् ॥
यस्य भृत्याश् च दासाश् च मृष्टान्य् अन्नानि भुञ्जते
कथं स भोक्ष्यते नाथो वने मूलफलान्य् अयम् ॥
क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्
गुणवान् दयितो राज्ञो राघवो यद् विवास्यते ॥
त्वया विहीनाम् इह मां शोकाग्निर् अतुलो महान्
प्रधक्ष्यति यथा कक्षं चित्रभानुर् हिमात्यये ॥
कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति
अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि ॥
तथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः
श्रुत्वा रामो ऽब्रवीद् वाक्यं मातरं भृशदुःखिताम् ॥
कैकेय्या वञ्चितो राजा मयि चारण्यम् आश्रिते
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥
भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः
स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥
यावज् जीवति काकुत्स्थः पिता मे जगतीपतिः
शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः ॥
एवम् उक्ता तु रामेण कौसल्या शुभदर्शना
तथेत्य् उवाच सुप्रीता रामम् अक्लिष्टकारिणम् ॥
एवम् उक्तस् तु वचनं रामो धर्मभृतां वरः
भूयस् ताम् अब्रवीद् वाक्यं मातरं भृशदुःखिताम् ॥
मया चैव भवत्या च कर्तव्यं वचनं पितुः
राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥
इमानि तु महारण्ये विहृत्य नव पञ्च च
वर्षाणि परमप्रीतः स्थास्यामि वचने तव ॥
एवम् उक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा
उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्
नय माम् अपि काकुत्स्थ वनं वन्यां मृगीं यथा
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ॥
तां तथा रुदतीं रामो रुदन् वचनम् अब्रवीत्
जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुर् एव च
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ॥
भरतश् चापि धर्मात्मा सर्वभूतप्रियंवदः
भवतीम् अनुवर्तेत स हि धर्मरतः सदा ॥
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः
श्रमं नावाप्नुयात् किंचिद् अप्रमत्ता तथा कुरु ॥
व्रतोपवासनिरता या नारी परमोत्तमा
भर्तारं नानुवर्तेत सा च पापगतिर् भवेत् ॥
शुश्रूषाम् एव कुर्वीत भर्तुः प्रियहिते रता
एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः ॥
पूज्यास् ते मत्कृते देवि ब्राह्मणाश् चैव सुव्रताः
एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी ॥
प्राप्स्यसे परमं कामं मयि प्रत्यागते सति
यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥
एवम् उक्ता तु रामेण बाष्पपर्याकुलेक्षणा
कौसल्या पुत्रशोकार्ता रामं वचनम् अब्रवीत्
गच्छ पुत्र त्वम् एकाग्रो भद्रं ते ऽस्तु सदा विभो ॥
तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा
उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकाङ्क्षिणी ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0