भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.18

2.18.1

तथा तु विलपन्तीं तां कौसल्यां राममातरम्
उवाच लक्ष्मणो दीनस् तत् कालसदृशं वचः ॥

2.18.2

न रोचते ममाप्य् एतद् आर्ये यद् राघवो वनम्
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशं गतः ॥

2.18.3

विपरीतश् च वृद्धश् च विषयैश् च प्रधर्षितः
नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥

2.18.4

नास्यापराधं पश्यामि नापि दोषं तथाविधम्
येन निर्वास्यते राष्ट्राद् वनवासाय राघवः ॥

2.18.5

न तं पश्याम्य् अहं लोके परोक्षम् अपि यो नरः
अमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत् ॥

2.18.6

देवकल्पम् ऋजुं दान्तं रिपूणाम् अपि वत्सलम्
अवेक्षमाणः को धर्मं त्यजेत् पुत्रम् अकारणात् ॥

2.18.7

तद् इदं वचनं राज्ञः पुनर् बाल्यम् उपेयुषः
पुत्रः को हृदये कुर्याद् राजवृत्तम् अनुस्मरन् ॥

2.18.8

यावद् एव न जानाति कश्चिद् अर्थम् इमं नरः
तावद् एव मया सार्धम् आत्मस्थं कुरु शासनम् ॥

2.18.9

मया पार्श्वे सधनुषा तव गुप्तस्य राघव
कः समर्थो ऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥

2.18.10

निर्मनुष्याम् इमां सर्वाम् अयोध्यां मनुजर्षभ
करिष्यामि शरैस् तीक्ष्णैर् यदि स्थास्यति विप्रिये ॥

2.18.11

भरतस्याथ पक्ष्यो वा यो वास्य हितम् इच्छति
सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥

2.18.12

त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम्
कस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥

2.18.13

अनुरक्तो ऽस्मि भावेन भ्रातरं देवि तत्त्वतः
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥

2.18.14

दीप्तम् अग्निम् अरण्यं वा यदि रामः प्रवेक्ष्यते
प्रविष्टं तत्र मां देवि त्वं पूर्वम् अवधारय ॥

2.18.15

हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः
देवी पश्यतु मे वीर्यं राघवश् चैव पश्यतु ॥

2.18.16

एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः
उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥

2.18.17

भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया
यद् अत्रानन्तरं तत् त्वं कुरुष्व यदि रोचते ॥

2.18.18

न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्
विहाय शोकसंतप्तां गन्तुम् अर्हसि माम् इतः ॥

2.18.19

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुम् इच्छसि
शुश्रूष माम् इहस्थस् त्वं चर धर्मम् अनुत्तमम् ॥

2.18.20

शुश्रूषुर् जननीं पुत्र स्वगृहे नियतो वसन्
परेण तपसा युक्तः काश्यपस् त्रिदिवं गतः ॥

2.18.21

यथैव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम्
त्वां नाहम् अनुजानामि न गन्तव्यम् इतो वनम् ॥

2.18.22

त्वद्वियोगान् न मे कार्यं जीवितेन सुखेन वा
त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम् ॥

2.18.23

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्
अहं प्रायम् इहासिष्ये न हि शक्ष्यामि जीवितुम् ॥

2.18.24

ततस् त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्
ब्रह्महत्याम् इवाधर्मात् समुद्रः सरितां पतिः ॥

2.18.25

विलपन्तीं तथा दीनां कौसल्यां जननीं ततः
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥

2.18.26

नास्ति शक्तिः पितुर् वाक्यं समतिक्रमितुं मम
प्रसादये त्वां शिरसा गन्तुम् इच्छाम्य् अहं वनम् ॥

2.18.27

ऋषिणा च पितुर् वाक्यं कुर्वता व्रतचारिणा
गौर् हता जानता धर्मं कण्डुनापि विपश्चिता ॥

2.18.28

अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः
खनद्भिः सागरैर् भूतिम् अवाप्तः सुमहान् वधः ॥

2.18.29

जामदग्न्येन रामेण रेणुका जननी स्वयम्
कृत्ता परशुनारण्ये पितुर् वचनकारिणा ॥

2.18.30

न खल्व् एतन् मयैकेन क्रियते पितृशासनम्
पूर्वैर् अयम् अभिप्रेतो गतो मार्गो ऽनुगम्यते ॥

2.18.31

तद् एतत् तु मया कार्यं क्रियते भुवि नान्यथा
पितुर् हि वचनं कुर्वन् न कश्चिन् नाम हीयते ॥

2.18.32

ताम् एवम् उक्त्वा जननीं लक्ष्मणं पुनर् अब्रवीत्
तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम्
अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥

2.18.33

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्
धर्मसंश्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥

2.18.34

संश्रुत्य च पितुर् वाक्यं मातुर् वा ब्राह्मणस्य वा
न कर्तव्यं वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥

2.18.35

सो ऽहं न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम्
पितुर् हि वचनाद् वीर कैकेय्याहं प्रचोदितः ॥

2.18.36

तद् एनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्
धर्मम् आश्रय मा तैक्ष्ण्यं मद्बुद्धिर् अनुगम्यताम् ॥

2.18.37

तम् एवम् उक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः ॥

2.18.38

अनुमन्यस्व मां देवि गमिष्यन्तम् इतो वनम्
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे
तीर्णप्रतिज्ञश् च वनात् पुनर् एष्याम्य् अहं पुरीम् ॥

2.18.39

यशो ह्य् अहं केवलराज्यकारणान् न पृष्ठतः कर्तुम् अलं महोदयम्
अदीर्घकाले न तु देवि जीविते वृणे ऽवराम् अद्य महीम् अधर्मतः ॥

2.18.40

प्रसादयन् नरवृषभः स मातरं पराक्रमाज् जिगमिषुर् एव दण्डकान्
अथानुजं भृशम् अनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc