रामायण (संशोधित पाठ) · अध्याय 2.17
रामस् तु भृशम् आयस्तो निःश्वसन्न् इव कुञ्जरः
जगाम सहितो भ्रात्रा मातुर् अन्तःपुरं वशी ॥
सो ऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्
उपविष्टं गृहद्वारि तिष्ठतश् चापरान् बहून् ॥
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः
ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥
प्रणम्य रामस् तान् वृद्धांस् तृतीयायां ददर्श सः
स्त्रियो वृद्धाश् च बालाश् च द्वाररक्षणतत्पराः ॥
वर्धयित्वा प्रहृष्टास् ताः प्रविश्य च गृहं स्त्रियः
न्यवेदयन्त त्वरिता राममातुः प्रियं तदा ॥
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता
प्रभाते त्व् अकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा
अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥
प्रविश्य च तदा रामो मातुर् अन्तःपुरं शुभम्
ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनम् आगतम्
अभिचक्राम संहृष्टा किशोरं वडबा यथा ॥
तम् उवाच दुराधर्षं राघवं सुतम् आत्मनः
कौसल्या पुत्रवात्सल्याद् इदं प्रियहितं वचः ॥
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्
प्राप्नुह्य् आयुश् च कीर्तिं च धर्मं चोपहितं कुले ॥
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव
अद्यैव हि त्वां धर्मात्मा यौवराज्ये ऽभिषेक्ष्यति ॥
मातरं राघवः किंचित् प्रसार्याञ्जलिम् अब्रवीत्
स स्वभावविनीतश् च गौरवाच् च तदानतः ॥
देवि नूनं न जानीषे महद् भयम् उपस्थितम्
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने
मधुमूलफलैर् जीवन् हित्वा मुनिवद् आमिषम् ॥
भरताय महाराजो यौवराज्यं प्रयच्छति
मां पुनर् दण्डकारण्यं विवासयति तापसम् ॥
ताम् अदुःखोचितां दृष्ट्वा पतितां कदलीम् इव
रामस् तूत्थापयामास मातरं गतचेतसम् ॥
उपावृत्योत्थितां दीनां वडबाम् इव वाहिताम्
पांशुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥
सा राघवम् उपासीनम् असुखार्ता सुखोचिता
उवाच पुरुषव्याघ्रम् उपशृण्वति लक्ष्मणे ॥
यदि पुत्र न जायेथा मम शोकाय राघव
न स्म दुःखम् अतो भूयः पश्येयम् अहम् अप्रजा ॥
एक एव हि वन्ध्यायाः शोको भवति मानवः
अप्रजास्मीति संतापो न ह्य् अन्यः पुत्र विद्यते ॥
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
अपि पुत्रे विपश्येयम् इति रामास्थितं मया ॥
सा बहून्य् अमनोज्ञानि वाक्यानि हृदयच्छिदाम्
अहं श्रोष्ये सपत्नीनाम् अवराणां वरा सती
अतो दुःखतरं किं नु प्रमदानां भविष्यति ॥
त्वयि संनिहिते ऽप्य् एवम् अहम् आसं निराकृता
किं पुनः प्रोषिते तात ध्रुवं मरणम् एव मे ॥
यो हि मां सेवते कश्चिद् अथ वाप्य् अनुवर्तते
कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो नाभिभाषते ॥
दश सप्त च वर्षाणि तव जातस्य राघव
अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥
उपवासैश् च योगैश् च बहुभिश् च परिश्रमैः
दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥
स्थिरं तु हृदयं मन्ये ममेदं यन् न दीर्यते
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥
ममैव नूनं मरणं न विद्यते न चावकाशो ऽस्ति यमक्षये मम
यद् अन्तको ऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीम् इव ॥
स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद् भुवि नावदीर्यते
अनेन दुःखेन च देहम् अर्पितं ध्रुवं ह्य् अकाले मरणं न विद्यते ॥
इदं तु दुःखं यद् अनर्थकानि मे व्रतानि दानानि च संयमाश् च हि
तपश् च तप्तं यद् अपत्यकारणात् सुनिष्फलं बीजम् इवोप्तम् ऊषरे ॥
यदि ह्य् अकाले मरणं स्वयेच्छया लभेत कश्चिद् गुरुदुःखकर्शितः
गताहम् अद्यैव परेतसंसदं विना त्वया धेनुर् इवात्मजेन वै ॥
भृशम् असुखम् अमर्षिता तदा बहु विललाप समीक्ष्य राघवम्
व्यसनम् उपनिशाम्य सा महत् सुतम् इव बद्धम् अवेक्ष्य किंनरी ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0