भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.19

2.19.1

अथ तं व्यथया दीनं सविशेषम् अमर्षितम्
श्वसन्तम् इव नागेन्द्रं रोषविस्फारितेक्षणम् ॥

2.19.2

आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्
उवाचेदं स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥

2.19.3

सौमित्रे यो ऽभिषेकार्थे मम सम्भारसम्भ्रमः
अभिषेकनिवृत्त्यर्थे सो ऽस्तु सम्भारसम्भ्रमः ॥

2.19.4

यस्या मदभिषेकार्थं मानसं परितप्यते
माता नः सा यथा न स्यात् सविशङ्का तथा कुरु ॥

2.19.5

तस्याः शङ्कामयं दुःखं मुहूर्तम् अपि नोत्सहे
मनसि प्रतिसंजातं सौमित्रे ऽहम् उपेक्षितुम् ॥

2.19.6

न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन
मातॄणां वा पितुर् वाहं कृतम् अल्पं च विप्रियम् ॥

2.19.7

सत्यः सत्याभिसंधश् च नित्यं सत्यपराक्रमः
परलोकभयाद् भीतो निर्भयो ऽस्तु पिता मम ॥

2.19.8

तस्यापि हि भवेद् अस्मिन् कर्मण्य् अप्रतिसंहृते
सत्यं नेति मनस्तापस् तस्य तापस् तपेच् च माम् ॥

2.19.9

अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण
अन्वग् एवाहम् इच्छामि वनं गन्तुम् इतः पुनः ॥

2.19.10

मम प्रव्राजनाद् अद्य कृतकृत्या नृपात्मजा
सुतं भरतम् अव्यग्रम् अभिषेचयिता ततः ॥

2.19.11

मयि चीराजिनधरे जटामण्डलधारिणि
गते ऽरण्यं च कैकेय्या भविष्यति मनःसुखम् ॥

2.19.12

बुद्धिः प्रणीता येनेयं मनश् च सुसमाहितम्
तत् तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम् ॥

2.19.13

कृतान्तस् त्व् एव सौमित्रे द्रष्टव्यो मत्प्रवासने
राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥

2.19.14

कैकेय्याः प्रतिपत्तिर् हि कथं स्यान् मम पीडने
यदि भावो न दैवो ऽयं कृतान्तविहितो भवेत् ॥

2.19.15

जानासि हि यथा सौम्य न मातृषु ममान्तरम्
भूतपूर्वं विशेषो वा तस्या मयि सुते ऽपि वा ॥

2.19.16

सो ऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश् च दुर्वचैः
उग्रैर् वाक्यैर् अहं तस्या नान्यद् दैवात् समर्थये ॥

2.19.17

कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा
ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ ॥

2.19.18

यद् अचिन्त्यं तु तद् दैवं भूतेष्व् अपि न हन्यते
व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥

2.19.19

कश्चिद् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान्
यस्य न ग्रहणं किंचित् कर्मणो ऽन्यत्र दृश्यते ॥

2.19.20

सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ
यस्य किंचित् तथा भूतं ननु दैवस्य कर्म तत् ॥

2.19.21

व्याहते ऽप्य् अभिषेके मे परितापो न विद्यते
तस्माद् अपरितापः संस् त्वम् अप्य् अनुविधाय माम्
प्रतिसंहारय क्षिप्रम् आभिषेचनिकीं क्रियाम् ॥

2.19.22

न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्य् अतिशङ्कनीया
दैवाभिपन्ना हि वदन्त्य् अनिष्टं जानासि दैवं च तथा प्रभावम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc