रामायण (संशोधित पाठ) · अध्याय 2.16
स ददर्शासने रामो निषण्णं पितरं शुभे
कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥
स पितुश् चरणौ पूर्वम् अभिवाद्य विनीतवत्
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥
रामेत्य् उक्त्वा च वचनं बाष्पपर्याकुलेक्षणः
शशाक नृपतिर् दीनो नेक्षितुं नाभिभाषितुम् ॥
तद् अपूर्वं नरपतेर् दृष्ट्वा रूपं भयावहम्
रामो ऽपि भयम् आपन्नः पदा स्पृष्ट्वेव पन्नगम् ॥
इन्द्रियैर् अप्रहृष्टैस् तं शोकसंतापकर्शितम्
निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥
ऊर्मिमालिनम् अक्षोभ्यं क्षुभ्यन्तम् इव सागरम्
उपप्लुतम् इवादित्यम् उक्तानृतम् ऋषिं यथा ॥
अचिन्त्यकल्पं हि पितुस् तं शोकम् उपधारयन्
बभूव संरब्धतरः समुद्र इव पर्वणि ॥
चिन्तयामास च तदा रामः पितृहिते रतः
किंस्विद् अद्यैव नृपतिर् न मां प्रत्यभिनन्दति ॥
अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति
तस्य माम् अद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ॥
स दीन इव शोकार्तो विषण्णवदनद्युतिः
कैकेयीम् अभिवाद्यैव रामो वचनम् अब्रवीत् ॥
कच्चिन् मया नापराधम् अज्ञानाद् येन मे पिता
कुपितस् तन् ममाचक्ष्व त्वं चैवैनं प्रसादय ॥
विवर्णवदनो दीनो न हि माम् अभिभाषते
शारीरो मानसो वापि कच्चिद् एनं न बाधते
संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥
कच्चिन् न किंचिद् भरते कुमारे प्रियदर्शने
शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥
अतोषयन् महाराजम् अकुर्वन् वा पितुर् वचः
मुहूर्तम् अपि नेच्छेयं जीवितुं कुपिते नृपे ॥
यतोमूलं नरः पश्येत् प्रादुर्भावम् इहात्मनः
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥
कच्चित् ते परुषं किंचिद् अभिमानात् पिता मम
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥
एतद् आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः
किंनिमित्तम् अपूर्वो ऽयं विकारो मनुजाधिपे ॥
अहं हि वचनाद् राज्ञः पतेयम् अपि पावके
भक्षयेयं विषं तीक्ष्णं मज्जेयम् अपि चार्णवे
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥
तद् ब्रूहि वचनं देवि राज्ञो यद् अभिकाङ्क्षितम्
करिष्ये प्रतिजाने च रामो द्विर् नाभिभाषते ॥
तम् आर्जवसमायुक्तम् अनार्या सत्यवादिनम्
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥
पुरा देवासुरे युद्धे पित्रा ते मम राघव
रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥
तत्र मे याचितो राजा भरतस्याभिषेचनम्
गमनं दण्डकारण्ये तव चाद्यैव राघव ॥
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुम् इच्छसि
आत्मानं च नरश्रेष्ठ मम वाक्यम् इदं शृणु ॥
स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम्
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥
सप्त सप्त च वर्षाणि दण्डकारण्यम् आश्रितः
अभिषेकम् इमं त्यक्त्वा जटाचीरधरो वस ॥
भरतः कोसलपुरे प्रशास्तु वसुधाम् इमाम्
नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ॥
तद् अप्रियम् अमित्रघ्नो वचनं मरणोपमम्
श्रुत्वा न विव्यथे रामः कैकेयीं चेदम् अब्रवीत् ॥
एवम् अस्तु गमिष्यामि वनं वस्तुम् अहं त्व् अतः
जटाचीरधरो राज्ञः प्रतिज्ञाम् अनुपालयन् ॥
इदं तु ज्ञातुम् इच्छामि किमर्थं मां महीपतिः
नाभिनन्दति दुर्धर्षो यथापुरम् अरिंदमः ॥
मन्युर् न च त्वया कार्यो देवि ब्रूहि तवाग्रतः
यास्यामि भव सुप्रीता वनं चीरजटाधरः ॥
हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च
नियुज्यमानो विश्रब्धं किं न कुर्याद् अहं प्रियम् ॥
अलीकं मानसं त्व् एकं हृदयं दहतीव मे
स्वयं यन् नाह मां राजा भरतस्याभिषेचनम् ॥
अहं हि सीतां राज्यं च प्राणान् इष्टान् धनानि च
हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः ॥
किं पुनर् मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः
तव च प्रियकामार्थं प्रतिज्ञाम् अनुपालयन् ॥
तद् आश्वासय हीमं त्वं किं न्व् इदं यन् महीपतिः
वसुधासक्तनयनो मन्दम् अश्रूणि मुञ्चति ॥
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर् हयैः
भरतं मातुलकुलाद् अद्यैव नृपशासनात् ॥
दण्डकारण्यम् एषो ऽहम् इतो गच्छामि सत्वरः
अविचार्य पितुर् वाक्यं समावस्तुं चतुर्दश ॥
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकेयी
प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम् ॥
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर् हयैः
भरतं मातुलकुलाद् उपावर्तयितुं नराः ॥
तव त्व् अहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्
राम तस्माद् इतः शीघ्रं वनं त्वं गन्तुम् अर्हसि ॥
व्रीडान्वितः स्वयं यच् च नृपस् त्वां नाभिभाषते
नैतत् किंचिन् नरश्रेष्ठ मन्युर् एषो ऽपनीयताम् ॥
यावत् त्वं न वनं यातः पुराद् अस्माद् अभित्वरन्
पिता तावन् न ते राम स्नास्यते भोक्ष्यते ऽपि वा ॥
धिक् कष्टम् इति निःश्वस्य राजा शोकपरिप्लुतः
मूर्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते ॥
रामो ऽप्य् उत्थाप्य राजानं कैकेय्याभिप्रचोदितः
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥
तद् अप्रियम् अनार्याया वचनं दारुणोदरम्
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यम् अब्रवीत् ॥
नाहम् अर्थपरो देवि लोकम् आवस्तुम् उत्सहे
विद्धि माम् ऋषिभिस् तुल्यं केवलं धर्मम् आस्थितम् ॥
यद् अत्रभवतः किंचिच् छक्यं कर्तुं प्रियं मया
प्राणान् अपि परित्यज्य सर्वथा कृतम् एव तत् ॥
न ह्य् अतो धर्मचरणं किंचिद् अस्ति महत्तरम्
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥
अनुक्तो ऽप्य् अत्रभवता भवत्या वचनाद् अहम्
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥
न नूनं मयि कैकेयि किंचिद् आशंससे गुणम्
यद् राजानम् अवोचस् त्वं ममेश्वरतरा सती ॥
यावन् मातरम् आपृच्छे सीतां चानुनयाम्य् अहम्
ततो ऽद्यैव गमिष्यामि दण्डकानां महद् वनम् ॥
भरतः पालयेद् राज्यं शुश्रूषेच् च पितुर् यथा
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥
स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता
शोकाद् अशक्नुवन् बाष्पं प्ररुरोद महास्वनम् ॥
वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस् तदा
कैकेय्याश् चाप्य् अनार्याया निष्पपात महाद्युतिः ॥
स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्
निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम् ॥
तं बाष्पपरिपूर्णाक्षः पृष्ठतो ऽनुजगाम ह
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः ॥
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्
शनैर् जगाम सापेक्षो दृष्टिं तत्राविचालयन् ॥
न चास्य महतीं लक्ष्मीं राज्यनाशो ऽपकर्षति
लोककान्तस्य कान्तत्वं शीतरश्मेर् इव क्षपा ॥
न वनं गन्तुकामस्य त्यजतश् च वसुंधराम्
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥
धारयन् मनसा दुःखम् इन्द्रियाणि निगृह्य च
प्रविवेशात्मवान् वेश्म मातुर् अप्रियशंसिवान् ॥
प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिम् आगताम्
न चैव रामो ऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0