भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.15

2.15.1

स रामो रथम् आस्थाय सम्प्रहृष्टसुहृज्जनः
अपश्यन् नगरं श्रीमान् नानाजनसमाकुलम् ॥

2.15.2

स गृहैर् अभ्रसंकाशैः पाण्डुरैर् उपशोभितम्
राजमार्गं ययौ रामो मध्येनागरुधूपितम् ॥

2.15.3

शोभमानम् असंबाधं तं राजपथम् उत्तमम्
संवृतं विविधैः पण्यैर् भक्ष्यैर् उच्चावचैर् अपि ॥

2.15.4

आशीर्वादान् बहूञ् शृण्वन् सुहृद्भिः समुदीरितान्
यथार्हं चापि सम्पूज्य सर्वान् एव नरान् ययौ ॥

2.15.5

पितामहैर् आचरितं तथैव प्रपितामहैः
अद्योपादाय तं मार्गम् अभिषिक्तो ऽनुपालय ॥

2.15.6

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः
ततः सुखतरं सर्वे रामे वत्स्याम राजनि ॥

2.15.7

अलम् अद्य हि भुक्तेन परमार्थैर् अलं च नः
यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥

2.15.8

अतो हि न प्रियतरं नान्यत् किंचिद् भविष्यति
यथाभिषेको रामस्य राज्येनामिततेजसः ॥

2.15.9

एताश् चान्याश् च सुहृदाम् उदासीनः कथाः शुभाः
आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम् ॥

2.15.10

न हि तस्मान् मनः कश्चिच् चक्षुषी वा नरोत्तमात्
नरः शक्नोत्य् अपाक्रष्टुम् अतिक्रान्ते ऽपि राघवे ॥

2.15.11

सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम्
चतुर्णां हि वयःस्थानां तेन ते तम् अनुव्रताः ॥

2.15.12

स राजकुलम् आसाद्य महेन्द्रभवनोपमम्
राजपुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् ॥

2.15.13

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरम् अभ्यगात् ॥

2.15.14

ततः प्रविष्टे पितुर् अन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे
प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc