भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.14

2.14.1

स तदन्तःपुरद्वारं समतीत्य जनाकुलम्
प्रविविक्तां ततः कक्ष्याम् आससाद पुराणवित् ॥

2.14.2

प्रासकार्मुकबिभ्रद्भिर् युवभिर् मृष्टकुण्डलैः
अप्रमादिभिर् एकाग्रैः स्वनुरक्तैर् अधिष्ठिताम् ॥

2.14.3

तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्
ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान् ॥

2.14.4

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः
सहभार्याय रामाय क्षिप्रम् एवाचचक्षिरे ॥

2.14.5

प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरं पितुः
तत्रैवानाययामास राघवः प्रियकाम्यया ॥

2.14.6

तं वैश्रवणसंकाशम् उपविष्टं स्वलंकृतम्
ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ॥

2.14.7

वराहरुधिराभेण शुचिना च सुगन्धिना
अनुलिप्तं परार्ध्येन चन्दनेन परंतपम् ॥

2.14.8

स्थितया पार्श्वतश् चापि वालव्यजनहस्तया
उपेतं सीतया भूयश् चित्रया शशिनं यथा ॥

2.14.9

तं तपन्तम् इवादित्यम् उपपन्नं स्वतेजसा
ववन्दे वरदं बन्दी नियमज्ञो विनीतवत् ॥

2.14.10

प्राञ्जलिस् तु सुखं पृष्ट्वा विहारशयनासने
राजपुत्रम् उवाचेदं सुमन्त्रो राजसत्कृतः ॥

2.14.11

कौसल्या सुप्रभा देव पिता त्वां द्रष्टुम् इच्छति
महिष्या सह कैकेय्या गम्यतां तत्र माचिरम् ॥

2.14.12

एवम् उक्तस् तु संहृष्टो नरसिंहो महाद्युतिः
ततः संमानयामास सीताम् इदम् उवाच ह ॥

2.14.13

देवि देवश् च देवी च समागम्य मदन्तरे
मन्त्रयेते ध्रुवं किंचिद् अभिषेचनसंहितम् ॥

2.14.14

लक्षयित्वा ह्य् अभिप्रायं प्रियकामा सुदक्षिणा
संचोदयति राजानं मदर्थं मदिरेक्षणा ॥

2.14.15

यादृशी परिषत् तत्र तादृशो दूत आगतः
ध्रुवम् अद्यैव मां राजा यौवराज्ये ऽभिषेक्ष्यति ॥

2.14.16

हन्त शीघ्रम् इतो गत्वा द्रक्ष्यामि च महीपतिम्
सह त्वं परिवारेण सुखम् आस्व रमस्व च ॥

2.14.17

पतिसंमानिता सीता भर्तारम् असितेक्षणा
आद्वारम् अनुवव्राज मङ्गलान्य् अभिदध्युषी ॥

2.14.18

स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च
ततः पावकसंकाशम् आरुरोह रथोत्तमम् ॥

2.14.19

मुष्णन्तम् इव चक्षूंषि प्रभया हेमवर्चसम्
करेणुशिशुकल्पैश् च युक्तं परमवाजिभिः ॥

2.14.20

हरियुक्तं सहस्राक्षो रथम् इन्द्र इवाशुगम्
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ॥

2.14.21

स पर्जन्य इवाकाशे स्वनवान् अभिनादयन्
निकेतान् निर्ययौ श्रीमान् महाभ्राद् इव चन्द्रमाः ॥

2.14.22

छत्त्रचामरपाणिस् तु लक्ष्मणो राघवानुजः
जुगोप भ्रातरं भ्राता रथम् आस्थाय पृष्ठतः ॥

2.14.23

ततो हलहलाशब्दस् तुमुलः समजायत
तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥

2.14.24

स राघवस् तत्र कथाप्रलापं शुश्राव लोकस्य समागतस्य
आत्माधिकारा विविधाश् च वाचः प्रहृष्टरूपस्य पुरे जनस्य ॥

2.14.25

एष श्रियं गच्छति राघवो ऽद्य राजप्रसादाद् विपुलाङ्गम् इष्यन्
एते वयं सर्वसमृद्धकामा येषाम् अयं नो भविता प्रशास्ता
लाभो जनस्यास्य यद् एष सर्वं प्रपत्स्यते राष्ट्रम् इदं चिराय ॥

2.14.26

स घोषवद्भिश् च हयैः सनागैः पुरःसरैः स्वस्तिकसूतमागधैः
महीयमानः प्रवरैश् च वादकैर् अभिष्टुतो वैश्रवणो यथा ययौ ॥

2.14.27

करेणुमातंगरथाश्वसंकुलं महाजनौघैः परिपूर्णचत्वरम्
प्रभूतरत्नं बहुपण्यसंचयं ददर्श रामो रुचिरं महापथम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc