भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.13

2.13.1

ते तु तां रजनीम् उष्य ब्राह्मणा वेदपारगाः
उपतस्थुर् उपस्थानं सहराजपुरोहिताः ॥

2.13.2

अमात्या बलमुख्याश् च मुख्या ये निगमस्य च
राघवस्याभिषेकार्थे प्रीयमाणास् तु संगताः ॥

2.13.3

उदिते विमले सूर्ये पुष्ये चाभ्यागते ऽहनि
अभिषेकाय रामस्य द्विजेन्द्रैर् उपकल्पितम् ॥

2.13.4

काञ्चना जलकुम्भाश् च भद्रपीठं स्वलंकृतम्
रामश् च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा ॥

2.13.5

गङ्गायमुनयोः पुण्यात् संगमाद् आहृतं जलम्
याश् चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ॥

2.13.6

प्राग्वाहाश् चोर्ध्ववाहाश् च तिर्यग्वाहाः समाहिताः
ताभ्यश् चैवाहृतं तोयं समुद्रेभ्यश् च सर्वशः ॥

2.13.7

क्षौद्रं दधिघृतं लाजा दर्भाः सुमनसः पयः
सलाजाः क्षीरिभिश् छन्ना घटाः काञ्चनराजताः
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ॥

2.13.8

चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्
सज्जं तिष्ठति रामस्य वालव्यजनम् उत्तमम् ॥

2.13.9

चन्द्रमण्डलसंकाशम् आतपत्रं च पाण्डुरम्
सज्जं द्युतिकरं श्रीमद् अभिषेकपुरस्कृतम् ॥

2.13.10

पाण्डुरश् च वृषः सज्जः पाण्डुराश्वश् च सुस्थितः
प्रस्रुतश् च गजः श्रीमान् औपवाह्यः प्रतीक्षते ॥

2.13.11

अष्टौ कन्याश् च मङ्गल्याः सर्वाभरणभूषिताः
वादित्राणि च सर्वाणि बन्दिनश् च तथापरे ॥

2.13.12

इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम्
तथा जातीयम् आदाय राजपुत्राभिषेचनम् ॥

2.13.13

ते राजवचनात् तत्र समवेता महीपतिम्
अपश्यन्तो ऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् ॥

2.13.14

न पश्यामश् च राजानम् उदितश् च दिवाकरः
यौवराज्याभिषेकश् च सज्जो रामस्य धीमतः ॥

2.13.15

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन्
अब्रवीत् तान् इदं सर्वान् सुमन्त्रो राजसत्कृतः ॥

2.13.16

अयं पृच्छामि वचनात् सुखम् आयुष्मताम् अहम्
राज्ञः संप्रतिबुद्धस्य यच् चागमनकारणम् ॥

2.13.17

इत्य् उक्त्वान्तःपुरद्वारम् आजगाम पुराणवित्
आशिर्भिर् गुणयुक्ताभिर् अभितुष्टाव राघवम् ॥

2.13.18

गता भगवती रात्रिर् अहः शिवम् उपस्थितम्
बुध्यस्व नृपशार्दूल कुरु कार्यम् अनन्तरम् ॥

2.13.19

ब्राह्मणा बलमुख्याश् च नैगमाश् चागता नृप
दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव ॥

2.13.20

स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्
प्रतिबुध्य ततो राजा इदं वचनम् अब्रवीत् ॥

2.13.21

न चैव संप्रसुप्तो ऽहम् आनयेद् आशु राघवम्
इति राजा दशरथः सूतं तत्रान्वशात् पुनः ॥

2.13.22

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्
निर्जगाम नृपावासान् मन्यमानः प्रियं महत् ॥

2.13.23

प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्
स सूतस् तत्र शुश्राव रामाधिकरणाः कथाः ॥

2.13.24

ततो ददर्श रुचिरं कैलाससदृशप्रभम्
रामवेश्म सुमन्त्रस् तु शक्रवेश्मसमप्रभम् ॥

2.13.25

महाकपाटपिहितं वितर्दिशतशोभितम्
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ॥

2.13.26

शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम्
दामभिर् वरमाल्यानां सुमहद्भिर् अलंकृतम् ॥

2.13.27

स वाजियुक्तेन रथेन सारथिर् नराकुलं राजकुलं विलोकयन्
ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः ॥

2.13.28

तद् अद्रिकूटाचलमेघसंनिभं महाविमानोत्तमवेश्मसंघवत्
अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc