रामायण (संशोधित पाठ) · अध्याय 2.12
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि
विवेष्टमानम् उदीक्ष्य सैक्ष्वाकम् इदम् अब्रवीत् ॥
पापं कृत्वेव किम् इदं मम संश्रुत्य संश्रवम्
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वम् अर्हसि ॥
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः
सत्यम् आश्रित्य हि मया त्वं च धर्मं प्रचोदितः ॥
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः
प्रदाय पक्षिणो राजञ् जगाम गतिम् उत्तमाम् ॥
तथा ह्य् अलर्कस् तेजस्वी ब्राह्मणे वेदपारगे
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥
सरितां तु पतिः स्वल्पां मर्यादां सत्यम् अन्वितः
सत्यानुरोधात् समये वेलां स्वां नातिवर्तते ॥
समयं च ममार्येमं यदि त्वं न करिष्यसि
अग्रतस् ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया
नाशकत् पाशम् उन्मोक्तुं बलिर् इन्द्रकृतं यथा ॥
उद्भ्रान्तहृदयश् चापि विवर्णवदनो ऽभवत्
स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥
विह्वलाभ्यां च नेत्राभ्याम् अपश्यन्न् इव भूमिपः
कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीम् इदम् अब्रवीत् ॥
यस् ते मन्त्रकृतः पाणिर् अग्नौ पापे मया धृतः
तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥
ततः पापसमाचारा कैकेयी पार्थिवं पुनः
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥
किम् इदं भाषसे राजन् वाक्यं गररुजोपमम्
आनाययितुम् अक्लिष्टं पुत्रं रामम् इहार्हसि ॥
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्
निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥
स नुन्न इव तीक्ष्णेण प्रतोदेन हयोत्तमः
राजा प्रचोदितो ऽभीक्ष्णं कैकेयीम् इदम् अब्रवीत् ॥
धर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुम् इच्छामि धार्मिकम् ॥
इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम्
स्वयम् एवाब्रवीत् सूतं गच्छ त्वं रामम् आनय ॥
ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति
शोकारक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः ॥
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्
प्रगृहीताञ्जलिः किंचित् तस्माद् देशाद् अपाक्रमन् ॥
यदा वक्तुं स्वयं दैन्यान् न शशाक महीपतिः
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥
सुमन्त्र रामं द्रक्ष्यामि शीघ्रम् आनय सुन्दरम्
स मन्यमानः कल्याणं हृदयेन ननन्द च ॥
सुमन्त्रश् चिन्तयामास त्वरितं चोदितस् तया
व्यक्तं रामो ऽभिषेकार्थम् इहायास्यति धर्मवित् ॥
इति सूतो मतिं कृत्वा हर्षेण महता पुनः
निर्जगाम महातेजा राघवस्य दिदृक्षया ॥
ततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतान् विलोकयन्
ददर्श पौरान् विविधान् महाधनान् उपस्थितान् द्वारम् उपेत्य विष्ठितान् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0