रामायण (संशोधित पाठ) · अध्याय 2.11
अतदर्हं महाराजं शयानम् अतथोचितम्
ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम् ॥
अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी
पुनर् आकारयामास तम् एव वरम् अङ्गना ॥
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः
मम चेमं वरं कस्माद् विधारयितुम् इच्छसि ॥
एवम् उक्तस् तु कैकेय्या राजा दशरथस् तदा
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्न् इव ॥
मृते मयि गते रामे वनं मनुजपुंगवे
हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम् ॥
यदि सत्यं ब्रवीम्य् एतत् तद् असत्यं भविष्यति
अकीर्तिर् अतुला लोके ध्रुवं परिभवश् च मे ॥
तथा विलपतस् तस्य परिभ्रमितचेतसः
अस्तम् अभ्यगमत् सूर्यो रजनी चाभ्यवर्तत ॥
स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता
राज्ञो विलपमानस्य न व्यभासत शर्वरी ॥
तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः
विललापार्तवद् दुःखं गगनासक्तलोचनः ॥
न प्रभातं त्वयेच्छामि मयायं रचितो ऽञ्जलिः
अथ वा गम्यतां शीघ्रं नाहम् इच्छामि निर्घृणाम्
नृशंसां कैकेयीं द्रष्टुं यत् कृते व्यसनं महत् ॥
एवम् उक्त्वा ततो राजा कैकेयीं संयताञ्जलिः
प्रसादयामास पुनः कैकेयीं चेदम् अब्रवीत् ॥
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः ॥
शून्येन खलु सुश्रोणि मयेदं समुदाहृतम्
कुरु साधु प्रसादं मे बाले सहृदया ह्य् असि ॥
विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः
श्रुत्वा विचित्रं करुणं विलापं भर्तुर् नृशंसा न चकार वाक्यम् ॥
ततः स राजा पुनर् एव मूर्छितः प्रियाम् अतुष्टां प्रतिकूलभाषिणीम्
समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0