भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.109

2.109.1

राघवस् त्व् अपयातेषु तपस्विषु विचिन्तयन्
न तत्रारोचयद् वासं कारणैर् बहुभिस् तदा ॥

2.109.2

इह मे भरतो दृष्टो मातरश् च सनागराः
सा च मे स्मृतिर् अन्वेति तान् नित्यम् अनुशोचतः ॥

2.109.3

स्कन्धावारनिवेशेन तेन तस्य महात्मनः
हयहस्तिकरीषैश् च उपमर्दः कृतो भृशम् ॥

2.109.4

तस्माद् अन्यत्र गच्छाम इति संचिन्त्य राघवः
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः ॥

2.109.5

सो ऽत्रेर् आश्रमम् आसाद्य तं ववन्दे महायशाः
तं चापि भगवान् अत्रिः पुत्रवत् प्रत्यपद्यत ॥

2.109.6

स्वयम् आतिथ्यम् आदिश्य सर्वम् अस्य सुसत्कृतम्
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥

2.109.7

पत्नीं च समनुप्राप्तां वृद्धाम् आमन्त्र्य सत्कृताम्
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥

2.109.8

अनसूयां महाभागां तापसीं धर्मचारिणीम्
प्रतिगृह्णीष्व वैदेहीम् अब्रवीद् ऋषिसत्तमः ॥

2.109.9

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्
दश वर्षाण्य् अनावृष्ट्या दग्धे लोके निरन्तरम् ॥

2.109.10

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता
उग्रेण तपसा युक्ता नियमैश् चाप्य् अलंकृता ॥

2.109.11

दशवर्षसहस्राणि यया तप्तं महत् तपः
अनसूयाव्रतैस् तात प्रत्यूहाश् च निबर्हिताः ॥

2.109.12

देवकार्यनिमित्तं च यया संत्वरमाणया
दशरात्रं कृत्वा रात्रिः सेयं मातेव ते ऽनघ ॥

2.109.13

ताम् इमां सर्वभूतानां नमस्कार्यां यशस्विनीम्
अभिगच्छतु वैदेही वृद्धाम् अक्रोधनां सदा ॥

2.109.14

एवं ब्रुवाणं तम् ऋषिं तथेत्य् उक्त्वा स राघवः
सीताम् उवाच धर्मज्ञाम् इदं वचनम् उत्तमम् ॥

2.109.15

राजपुत्रि श्रुतं त्व् एतन् मुनेर् अस्य समीरितम्
श्रेयोऽर्थम् आत्मनः शीघ्रम् अभिगच्छ तपस्विनीम् ॥

2.109.16

अनसूयेति या लोके कर्मभिः ख्यातिम् आगता
तां शीघ्रम् अभिगच्छ त्वम् अभिगम्यां तपस्विनीम् ॥

2.109.17

सीता त्व् एतद् वचः श्रुत्वा राघवस्य हितैषिणी
ताम् अत्रिपत्नीं धर्मज्ञाम् अभिचक्राम मैथिली ॥

2.109.18

शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम्
सततं वेपमानाङ्गीं प्रवाते कदली यथा ॥

2.109.19

तां तु सीता महाभागाम् अनसूयां पतिव्रताम्
अभ्यवादयद् अव्यग्रा स्वं नाम समुदाहरत् ॥

2.109.20

अभिवाद्य च वैदेही तापसीं ताम् अनिन्दिताम्
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छद् अनामयम् ॥

2.109.21

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्
सान्त्वयन्त्य् अब्रवीद् धृष्टा दिष्ट्या धर्मम् अवेक्षसे ॥

2.109.22

त्यक्त्वा ज्ञातिजनं सीते मानम् ऋद्धिं च मानिनि
अवरुद्धं वने रामं दिष्ट्या त्वम् अनुगच्छसि ॥

2.109.23

नगरस्थो वनस्थो वा पापो वा यदि वाशुभः
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥

2.109.24

दुःशीलः कामवृत्तो वा धनैर् वा परिवर्जितः
स्त्रीणाम् आर्यस्वभावानां परमं दैवतं पतिः ॥

2.109.25

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्य् अहम्
सर्वत्र योग्यं वैदेहि तपः कृतम् इवाव्ययम् ॥

2.109.26

न त्व् एवम् अवगच्छन्ति गुणदोषम् असत्स्त्रियः
कामवक्तव्यहृदया भर्तृनाथाश् चरन्ति याः ॥

2.109.27

प्राप्नुवन्त्य् अयशश् चैव धर्मभ्रंशं च मैथिलि
अकार्यवशम् आपन्नाः स्त्रियो याः खलु तद्विधाः ॥

2.109.28

त्वद्विधास् तु गुणैर् युक्ता दृष्टलोकपरावराः
स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस् तथा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc