रामायण (संशोधित पाठ) · अध्याय 2.108
प्रतिप्रयाते भरते वसन् रामस् तपोवने
लक्षयामास सोद्वेगम् अथौत्सुक्यं तपस्विनाम् ॥
ये तत्र चित्रकूटस्य पुरस्तात् तापसाश्रमे
रामम् आश्रित्य निरतास् तान् अलक्षयद् उत्सुकान् ॥
नयनैर् भृकुटीभिश् च रामं निर्दिश्य शङ्किताः
अन्योन्यम् उपजल्पन्तः शनैश् चक्रुर् मिथः कथाः ॥
तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः
कृताञ्जलिर् उवाचेदम् ऋषिं कुलपतिं ततः ॥
न कच्चिद् भगवन् किंचित् पूर्ववृत्तम् इदं मयि
दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥
प्रमादाच् चरितं कच्चित् किंचिन् नावरजस्य मे
लक्ष्मणस्यर्षिभिर् दृष्टं नानुरूपम् इवात्मनः ॥
कच्चिच् छुश्रूषमाणा वः शुश्रूषणपरा मयि
प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥
अथर्षिर् जरया वृद्धस् तपसा च जरां गतः
वेपमान इवोवाच रामं भूतदयापरम् ॥
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस् तथा
चलनं तात वैदेह्यास् तपस्विषु विशेषतः ॥
त्वन्निमित्तम् इदं तावत् तापसान् प्रति वर्तते
रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः ॥
रावणावरजः कश्चित् खरो नामेह राक्षसः
उत्पाट्य तापसान् सर्वाञ् जनस्थाननिकेतनान् ॥
धृष्टश् च जितकाशी च नृशंसः पुरुषादकः
अवलिप्तश् च पापश् च त्वां च तात न मृष्यते ॥
त्वं यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे
तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥
दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि
नाना रूपैर् विरूपैश् च रूपैर् असुखदर्शनैः ॥
अप्रशस्तैर् अशुचिभिः संप्रयोज्य च तापसान्
प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थिताः ॥
तेषु तेष्व् आश्रमस्थानेष्व् अबुद्धम् अवलीय च
रमन्ते तापसांस् तत्र नाशयन्तो ऽल्पचेतसः ॥
अपक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा
कलशांश् च प्रमृद्नन्ति हवने समुपस्थिते ॥
तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः
गमनायान्यदेशस्य चोदयन्त्य् ऋषयो ऽद्य माम् ॥
तत् पुरा राम शारीराम् उपहिंसां तपस्विषु
दर्शयन्ति हि दुष्टास् ते त्यक्ष्याम इमम् आश्रमम् ॥
बहुमूलफलं चित्रम् अविदूराद् इतो वनम्
पुराणाश्रमम् एवाहं श्रयिष्ये सगणः पुनः ॥
खरस् त्वय्य् अपि चायुक्तं पुरा तात प्रवर्तते
सहास्माभिर् इतो गच्छ यदि बुद्धिः प्रवर्तते ॥
सकलत्रस्य संदेहो नित्यं यत् तस्य राघव
समर्थस्यापि हि सतो वासो दुःखम् इहाद्य ते ॥
इत्य् उक्तवन्तं रामस् तं राजपुत्रस् तपस्विनम्
न शशाकोत्तरैर् वाक्यैर् अवरोद्धुं समुत्सुकम् ॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम्
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥
रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद् देशात् तस्माच्चित् कुलपतिम् अभिवाद्य र्षिम्
सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयम् उपसंपेदे ॥
आश्रमं त्व् ऋषिविरहितं प्रभुः क्षणम् अपि न जहौ स राघवः
राघवं हि सततम् अनुगतास् तापसाश् चार्षिचरितधृतगुणाः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0