रामायण (संशोधित पाठ) · अध्याय 2.107
ततो निक्षिप्य मातॄन् स अयोध्यायां दृढव्रतः
भरतः शोकसंतप्तो गुरून् इदम् अथाब्रवीत् ॥
नन्दिग्रामं गमिष्यामि सर्वान् आमन्त्रये ऽद्य वः
तत्र दुःखम् इदं सर्वं सहिष्ये राघवं विना ॥
गतश् च हि दिवं राजा वनस्थश् च गुरुर् मम
रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥
एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश् च पुरोहितः ॥
सदृशं श्लाघनीयं च यद् उक्तं भरत त्वया
वचनं भ्रातृवात्सल्याद् अनुरूपं तवैव तत् ॥
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्
अब्रवीत् सारथिं वाक्यं रथो मे युज्यताम् इति ॥
प्रहृष्टवदनः सर्वा मातॄन् समभिवाद्य सः
आरुरोह रथं श्रीमाञ् शत्रुघ्नेन समन्वितः ॥
आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव् उभौ
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥
अग्रतो गुरवस् तत्र वसिष्ठप्रमुखा द्विजाः
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् ॥
बलं च तद् अनाहूतं गजाश्वरथसंकुलम्
प्रययौ भरते याते सर्वे च पुरवासिनः ॥
रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः
नन्दिग्रामं ययौ तूर्णं शिरस्य् आधाय पादुके ॥
ततस् तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः
अवतीर्य रथात् तूर्णं गुरून् इदम् उवाच ह ॥
एतद् राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम्
योगक्षेमवहे चेमे पादुके हेमभूषिते
तम् इमं पालयिष्यामि राघवागमनं प्रति ॥
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥
ततो निक्षिप्तभारो ऽहं राघवेण समागतः
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥
राघवाय च संन्यासं दत्त्वेमे वरपादुके
राज्यं चेदम् अयोध्यां च धूतपापो भवामि च ॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने
प्रीतिर् मम यशश् चैव भवेद् राज्याच् चतुर्गुणम् ॥
एवं तु विलपन् दीनो भरतः स महायशाः
नन्दिग्रामे ऽकरोद् राज्यं दुःखितो मन्त्रिभिः सह ॥
स वल्कलजटाधारी मुनिवेषधरः प्रभुः
नन्दिग्रामे ऽवसद् वीरः ससैन्यो भरतस् तदा ॥
रामागमनम् आकाङ्क्षन् भरतो भ्रातृवत्सलः
भ्रातुर् वचनकारी च प्रतिज्ञापारगस् तदा ॥
पादुके त्व् अभिषिच्याथ नन्दिग्रामे ऽवसत् तदा
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0