भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.106

2.106.1

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥

2.106.2

बिडालोलूकचरिताम् आलीननरवारणाम्
तिमिराभ्याहतां कालीम् अप्रकाशां निशाम् इव ॥

2.106.3

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्
ग्रहेणाभ्युत्थितेनैकां रोहिणीम् इव पीडिताम् ॥

2.106.4

अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम्
लीनमीनझषग्राहां कृशां गिरिनदीम् इव ॥

2.106.5

विधूमाम् इव हेमाभाम् अध्वराग्निसमुत्थिताम्
हविरभ्युक्षितां पश्चाच् छिखां विप्रलयं गताम् ॥

2.106.6

विध्वस्तकवचां रुग्ण गजवाजिरथध्वजाम्
हतप्रवीराम् आपन्नां चमूम् इव महाहवे ॥

2.106.7

सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम्
प्रशान्तमारुतोद्धूतां जलोर्मिम् इव निःस्वनाम् ॥

2.106.8

त्यक्तां यज्ञायुधैः सर्वैर् अभिरूपैश् च याजकैः
सुत्याकाले विनिर्वृत्ते वेदिं गतरवाम् इव ॥

2.106.9

गोष्ठमध्ये स्थिताम् आर्ताम् अचरन्तीं नवं तृणम्
गोवृषेण परित्यक्तां गवां पत्नीम् इवोत्सुकाम् ॥

2.106.10

प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिर् इवोत्तमैः
वियुक्तां मणिभिर् जात्यैर् नवां मुक्तावलीम् इव ॥

2.106.11

सहसा चलितां स्थानान् महीं पुण्यक्षयाद् गताम्
संहृतद्युतिविस्तारां ताराम् इव दिवश् च्युताम् ॥

2.106.12

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम्
द्रुतदावाग्निविप्रुष्टां क्लान्तां वनलताम् इव ॥

2.106.13

संमूढनिगमां सर्वां संक्षिप्तविपणापणाम्
प्रच्छन्नशशिनक्षत्रां द्याम् इवाम्बुधरैर् वृताम् ॥

2.106.14

क्षीणपानोत्तमैर् भिन्नैः शरावैर् अभिसंवृताम्
हतशौण्डाम् इवाकाशे पानभूमिम् असंस्कृताम् ॥

2.106.15

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्
उपयुक्तोदकां भग्नां प्रपां निपतिताम् इव ॥

2.106.16

विपुलां विततां चैव युक्तपाशां तरस्विनाम्
भूमौ बाणैर् विनिष्कृत्तां पतितां ज्याम् इवायुधात् ॥

2.106.17

सहसा युद्धशौण्डेन हयारोहेण वाहिताम्
निक्षिप्तभाण्डाम् उत्सृष्टां किशोरीम् इव दुर्बलाम् ॥

2.106.18

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम्
प्रच्छन्नां नीलजीमूतैर् भास्करस्य प्रभाम् इव ॥

2.106.19

भरतस् तु रथस्थः सञ् श्रीमान् दशरथात्मजः
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यम् अब्रवीत् ॥

2.106.20

किं नु खल्व् अद्य गम्भीरो मूर्छितो न निशम्यते
यथापुरम् अयोध्यायां गीतवादित्रनिःस्वनः ॥

2.106.21

वारुणीमदगन्धाश् च माल्यगन्धश् च मूर्छितः
धूपितागरुगन्धश् च न प्रवाति समन्ततः ॥

2.106.22

यानप्रवरघोषश् च स्निग्धश् च हयनिःस्वनः
प्रमत्तगजनादश् च महांश् च रथनिःस्वनः
नेदानीं श्रूयते पुर्याम् अस्यां रामे विवासिते ॥

2.106.23

तरुणैश् चारुवेषैश् च नरैर् उन्नतगामिभिः
संपतद्भिर् अयोध्यायां न विभान्ति महापथाः ॥

2.106.24

एवं बहुविधं जल्पन् विवेश वसतिं पितुः
तेन हीनां नरेन्द्रेण सिंहहीनां गुहाम् इव ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc