भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.105

2.105.1

ततः शिरसि कृत्वा तु पादुके भरतस् तदा
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥

2.105.2

वसिष्ठो वामदेवश् च जाबालिश् च दृढव्रतः
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥

2.105.3

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास् ते ययुस् तदा
प्रदक्षिणं च कुर्वाणाश् चित्रकूटं महागिरिम् ॥

2.105.4

पश्यन् धातुसहस्राणि रम्याणि विविधानि च
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस् तदा ॥

2.105.5

अदूराच् चित्रकूटस्य ददर्श भरतस् तदा
आश्रमं यत्र स मुनिर् भरद्वाजः कृतालयः ॥

2.105.6

स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान्
अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः ॥

2.105.7

ततो हृष्टो भरद्वाजो भरतं वाक्यम् अब्रवीत्
अपि कृत्यं कृतं तात रामेण च समागतम् ॥

2.105.8

एवम् उक्तस् तु भरतो भरद्वाजेन धीमता
प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः ॥

2.105.9

स याच्यमानो गुरुणा मया च दृढविक्रमः
राघवः परमप्रीतो वसिष्ठं वाक्यम् अब्रवीत् ॥

2.105.10

पितुः प्रतिज्ञां ताम् एव पालयिष्यामि तत्त्वतः
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर् मम ॥

2.105.11

एवम् उक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥

2.105.12

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥

2.105.13

एवम् उक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः
पादुके हेमविकृते मम राज्याय ते ददौ ॥

2.105.14

निवृत्तो ऽहम् अनुज्ञातो रामेण सुमहात्मना
अयोध्याम् एव गच्छामि गृहीत्वा पादुके शुभे ॥

2.105.15

एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः
भरद्वाजः शुभतरं मुनिर् वाक्यम् उदाहरत् ॥

2.105.16

नैतच् चित्रं नरव्याघ्र शीलवृत्तवतां वर
यद् आर्यं त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इवोदकम् ॥

2.105.17

अमृतः स महाबाहुः पिता दशरथस् तव
यस्य त्वम् ईदृशः पुत्रो धर्मात्मा धर्मवत्सलः ॥

2.105.18

तम् ऋषिं तु महात्मानम् उक्तवाक्यं कृताञ्जलिः
आमन्त्रयितुम् आरेभे चरणाव् उपगृह्य च ॥

2.105.19

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः
भरतस् तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः ॥

2.105.20

यानैश् च शकटैश् चैव हयैर् नागैश् च सा चमूः
पुनर् निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥

2.105.21

ततस् ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्
ददृशुस् तां पुनः सर्वे गङ्गां शिवजलां नदीम् ॥

2.105.22

तां रम्यजलसम्पूर्णां संतीर्य सहबान्धवः
शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः ॥

2.105.23

शृङ्गवेरपुराद् भूय अयोध्यां संददर्श ह
भरतो दुःखसंतप्तः सारथिं चेदम् अब्रवीत् ॥

2.105.24

सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते
निराकारा निरानन्दा दीना प्रतिहतस्वना ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc