रामायण (संशोधित पाठ) · अध्याय 2.104
तम् अप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्
विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः ॥
अन्तर्हितास् त्व् ऋषिगणाः सिद्धाश् च परमर्षयः
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ
श्रुत्वा वयं हि सम्भाषाम् उभयोः स्पृहयामहे ॥
ततस् त्व् ऋषिगणाः क्षिप्रं दशग्रीववधैषिणः
भरतं राजशार्दूलम् इत्य् ऊचुः संगता वचः ॥
कुले जात महाप्राज्ञ महावृत्त महायशः
ग्राह्यं रामस्य वाक्यं ते पितरं यद्य् अवेक्षसे ॥
सदानृणम् इमं रामं वयम् इच्छामहे पितुः
अनृणत्वाच् च कैकेय्याः स्वर्गं दशरथो गतः ॥
एतावद् उक्त्वा वचनं गन्धर्वाः समहर्षयः
राजर्षयश् चैव तथा सर्वे स्वां स्वां गतिं गताः ॥
ह्लादितस् तेन वाक्येन शुभेन शुभदर्शनः
रामः संहृष्टवदनस् तान् ऋषीन् अभ्यपूजयत् ॥
स्रस्तगात्रस् तु भरतः स वाचा सज्जमानया
कृताञ्जलिर् इदं वाक्यं राघवं पुनर् अब्रवीत् ॥
राजधर्मम् अनुप्रेक्ष्य कुलधर्मानुसंततिम्
कर्तुम् अर्हसि काकुत्स्थ मम मातुश् च याचनाम् ॥
रक्षितुं सुमहद् राज्यम् अहम् एकस् तु नोत्सहे
पौरजानपदांश् चापि रक्तान् रञ्जयितुं तथा ॥
ज्ञातयश् च हि योधाश् च मित्राणि सुहृदश् च नः
त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः ॥
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि
शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने ॥
इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतस् तदा
भृशं सम्प्रार्थयामास रामम् एवं प्रियंवदः ॥
तम् अङ्के भ्रातरं कृत्वा रामो वचनम् अब्रवीत्
श्यामं नलिनपत्त्राक्षं मत्तहंसस्वरं स्वयम् ॥
आगता त्वाम् इयं बुद्धिः स्वजा वैनयिकी च या
भृशम् उत्सहसे तात रक्षितुं पृथिवीम् अपि ॥
अमात्यैश् च सुहृद्भिश् च बुद्धिमद्भिश् च मन्त्रिभिः
सर्वकार्याणि संमन्त्र्य सुमहान्त्य् अपि कारय ॥
लक्ष्मीश् चन्द्राद् अपेयाद् वा हिमवान् वा हिमं त्यजेत्
अतीयात् सागरो वेलां न प्रतिज्ञाम् अहं पितुः ॥
कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदं कृतम्
न तन् मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥
एवं ब्रुवाणं भरतः कौसल्यासुतम् अब्रवीत्
तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम् ॥
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥
सो ऽधिरुह्य नरव्याघ्रः पादुके ह्य् अवरुह्य च
प्रायच्छत् सुमहातेजा भरताय महात्मने ॥
स पादुके ते भरतः प्रतापवान् स्वलंकृते सम्परिगृह्य धर्मवित्
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि ॥
अथानुपूर्व्यात् प्रतिपूज्य तं जनं गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ
व्यसर्जयद् राघववंशवर्धनः स्थितः स्वधर्मे हिमवान् इवाचलः ॥
तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः
स त्व् एव मातॄन् अभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0