रामायण (संशोधित पाठ) · अध्याय 2.103
वसिष्ठस् तु तदा रामम् उक्त्वा राजपुरोहितः
अब्रवीद् धर्मसंयुक्तं पुनर् एवापरं वचः ॥
पुरुषस्येह जातस्य भवन्ति गुरवस् त्रयः
आचार्यश् चैव काकुत्स्थ पिता माता च राघव ॥
पिता ह्य् एनं जनयति पुरुषं पुरुषर्षभ
प्रज्ञां ददाति चाचार्यस् तस्मात् स गुरुर् उच्यते ॥
स ते ऽहं पितुर् आचार्यस् तव चैव परंतप
मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥
इमा हि ते परिषदः श्रेणयश् च समागताः
एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् ॥
वृद्धाया धर्मशीलाया मातुर् नार्हस्य् अवर्तितुम्
अस्यास् तु वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥
भरतस्य वचः कुर्वन् याचमानस्य राघव
आत्मानं नातिवर्तेस् त्वं सत्यधर्मपराक्रम ॥
एवं मधुरम् उक्तस् तु गुरुणा राघवः स्वयम्
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥
यन् मातापितरौ वृत्तं तनये कुरुतः सदा
न सुप्रतिकरं तत् तु मात्रा पित्रा च यत् कृतम् ॥
यथाशक्ति प्रदानेन स्नापनाच् छादनेन च
नित्यं च प्रियवादेन तथा संवर्धनेन च ॥
स हि राजा जनयिता पिता दशरथो मम
आज्ञातं यन् मया तस्य न तन् मिथ्या भविष्यति ॥
एवम् उक्तस् तु रामेण भरतः प्रत्यनन्तरम्
उवाच परमोदारः सूतं परमदुर्मनाः ॥
इह मे स्थण्डिले शीघ्रं कुशान् आस्तर सारथे
आर्यं प्रत्युपवेक्ष्यामि यावन् मे न प्रसीदति ॥
अनाहारो निरालोको धनहीनो यथा द्विजः
शेष्ये पुरस्ताच् छालाया यावन् न प्रतियास्यति ॥
स तु रामम् अवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः
कुशोत्तरम् उपस्थाप्य भूमाव् एवास्तरत् स्वयम् ॥
तम् उवाच महातेजा रामो राजर्षिसत्तमाः
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥
ब्राह्मणो ह्य् एकपार्श्वेन नरान् रोद्धुम् इहार्हति
न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने ॥
उत्तिष्ठ नरशार्दूल हित्वैतद् दारुणं व्रतम्
पुरवर्याम् इतः क्षिप्रम् अयोध्यां याहि राघव ॥
आसीनस् त्व् एव भरतः पौरजानपदं जनम्
उवाच सर्वतः प्रेक्ष्य किम् आर्यं नानुशासथ ॥
ते तम् ऊचुर् महात्मानं पौरजानपदा जनाः
काकुत्स्थम् अभिजानीमः सम्यग् वदति राघवः ॥
एषो ऽपि हि महाभागः पितुर् वचसि तिष्ठति
अत एव न शक्ताः स्मो व्यावर्तयितुम् अञ्जसा ॥
तेषाम् आज्ञाय वचनं रामो वचनम् अब्रवीत्
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥
एतच् चैवोभयं श्रुत्वा सम्यक् संपश्य राघव
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यम् अब्रवीत्
शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस् तथा ॥
न याचे पितरं राज्यं नानुशासामि मातरम्
आर्यं परमधर्मज्ञम् अभिजानामि राघवम् ॥
यदि त्व् अवश्यं वस्तव्यं कर्तव्यं च पितुर् वचः
अहम् एव निवत्स्यामि चतुर्दश वने समाः ॥
धर्मात्मा तस्य तथ्येन भ्रातुर् वाक्येन विस्मितः
उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥
विक्रीतम् आहितं क्रीतं यत् पित्रा जीवता मम
न तल् लोपयितुं शक्यं मया वा भरतेन वा ॥
उपधिर् न मया कार्यो वनवासे जुगुप्सितः
युक्तम् उक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम्
सर्वम् एवात्र कल्याणं सत्यसंधे महात्मनि ॥
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः
भ्रात्रा सह भविष्यामि पृथिव्याः पतिर् उत्तमः ॥
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्
अनृतान् मोचयानेन पितरं तं महीपतिम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0