भाषा

ENहिગુ
ग्रंथ पाठ

रघुवंश · अध्याय 2

2.1

अथ प्रजान्माम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुम् ऋषेर् मुमोच ॥

2.2

तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानां धुरि कीर्तनीया
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥

2.3

निवर्त्य राजा दयितां दयालुस् तां सौरभेयीं सुरभिर् यशोभिः
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधराम् इवोर्वीम् ॥

2.4

व्रताय तेनानुचरेण धेनोर् न्यषेधि शेषो ऽप्य् अनुयायिवर्गः
न चान्यतस् तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥

2.5

आस्वादवद्भिः कवलैस् तृणानं कण्डूयनैर् दंशनिवार्णैश् च
अव्याहत् ऐः स्वैरगत् ऐः स तस्याः सम्राट् समाराधन्तत्परो ऽभूत् ॥

2.6

स्थितः स्थिताम् उच्चलितः प्रयातां निषेदुषीम् आसन बन्ध धीरः
जलाभिलाषी जलम् आदधानां छावेय तां भूपति अन्वगच्छत् ॥

2.7

स न्यस्तचिह्नाम् अपि राज लक्ष्मीं तेजोविशेषानुमितां दधानः
आसीद् अनाविष्कृतदानराजिर् अन्तर्मदावस्थ इव द्विपेन्द्रः ॥

2.8

लताप्रतानोद्ग्रथितैः स किशैर् अधिजय्धन्वा विचचार दावम्
रक्षापदेशा न् मुनि होमधेनोर् वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् ॥

2.9

विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य
उदीरयाम् आसुर् इवोन्मदानाम् आलोकशब्दं वयसां विरावैः ॥

2.10

मरुत्प्रयुक्ताश् च मरुत्सखाभं तम् अर्च्यम् आराद् अभिवर्तमानम्
अवाकिरन् बाललताः प्रसूनैर् आलोकशब्दं वयसां विरावैः ॥

2.11

धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् आख्यातम् अन्तःकरणैर् विशङ्कैः
विलोकयन्त्यो वपुर् आपुर् अक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥

2.12

स कीचकैर् मारुतपूर्णरन्ध्रैः कूजद्भिर् आपादितवंश्कृत्यम्
शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् उद्गीयमानं वनदेवताभिः ॥

2.13

ऋक्तस् तुशारैर् गिरिनिर्झराणाम् अनोकहाकम्प्तपुष्पगन्ध् ई
तम् आतपक्लान्तम् अनातपत्रम् आचारपूतं पवनः सिषेवे ॥

2.14

शशाम वृष्ट्यापि विना दवाग्निर् आसीद् विशेष् आ फलपुष्पवृद्धिः
ऊनं न सत्त्वेष्व् अधिको बबाधे तस्मिन् वनं गोपत्रि गाहमाने ॥

2.15

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्
प्रचक्रमे पल्लवरागताम्रा तस्मिन् वनं गोपत्रि गाहमाने ॥

2.16

तां देवतापित्रतिथिक्रियार्थाम् अन्वग् ययौ मध्यमलोकपालः
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद् विधिनोपपन्ना ॥

2.17

स पल्वलोत्तीर्णवराहयूथान्य् आवासवृक्षोन्मुखबर्हिणानि
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥

2.18

आपीनभारोद्वहनप्रयत्नाद् गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः
उभाव् अलंचक्रतुर् अञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥

2.19

वसिष्ठधेनोर् अनुयानिनं तम् आवर्तमानं वनिता वनान्तात्
पपौ निमेषालसपक्ष्मपङ्क्तिर् उपोषिताभ्याम् इव लोचनाभ्याम् ॥

2.20

पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या
तदन्तरे सा विरराज धेनुर् दिनक्षपामध्यगतेव संध्या ॥

2.21

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता
प्रणम्य चानर्च विशालम् अस्याः शृङ्गान्तरं द्वारम् इवार्थसिद्धेः ॥

2.22

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत् सेति ननन्दतुस् तौ
भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥

2.23

गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः
दोहावसाने पुनर् एव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर् निषण्णाम् ॥

2.24

ताम् अन्तिकन्यस्तबलिप्रदीपाम् अन्वास्य गोप्ता गृहिणीसहायः
क्रमेण सुप्ताम् अनु संविवेश सुप्तोत्थितां प्रातर् अन्ऽ(?)ऊदतिष्ठत् ॥

2.25

इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः
सप्त व्यतीयुस् त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥

2.26

अन्येद्युर् आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः
गङ्गाप्रपातान्त वि रूढशष्पं गौरीगुरोर् गह्वरम् आविवेष ॥

2.27

इत्य् अद्रिषोभाप्रहितेक्षणेन इत्य् अद्रिषोभाप्रहितेक्षणेन
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥

2.28

तदीयम् आक्रन्दितम् आर्तसाधोर् गुहानिबद्धप्रतिशब्ददीर्घम्
रश्मिष्व् इवादाय नगेन्द्र सक्तां निवर्तयाम् आस नृपस्य दृष्टिम् ॥

2.29

स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श
अधित्यकायाम् इव धातुमय्यां ल् ओध्रद्रुमं सानुमतः प्रफुल् लम् ॥

2.30

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः
जाताभिषङ्गो नृपतिर् निषङ्गाद् उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥

2.31

वामेतरस् तस्य करः प्रहर्तुर् नखप्रभाभूषितकङ्कपत्त्रे
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे ॥

2.32

बाहुप्रतिष्टम्भविवृद्धमन्युर् अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः
राजा स्वतेजोभिर् अदह्यतान्तर् भोगीव मन्त्रौषधिरुद्धवीर्यः ॥

2.33

तम् आर्यगृह्यं निगृहीतधेनुर् मनुष्यवाचा मनुवंशकेतुम्
विस्मा य् अयन् विस्मितम् आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥

2.34

अलं महीपाल तव श्रमेण प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात्
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥

2.35

कैलासगौरं वृअम् आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टम्
अवेहि मां किंकरम् अष्टमूर्तेः कुम्भोदरं नाम निकुम्भ मित्रम् ॥

2.36

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतो ऽसौ वृषभध्वजेन
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥

2.37

कण्डूयमानेन कटं कदाचिद् वन्यद्विपेनोन्मथिता त्वग् अस्य
अथैनम् अद्रेस् तनया शुशोच सेनान्यम् आलीढम् इवासुरास्त्रैः ॥

2.38

तदा प्रभृत्य् एव वनद्विपानां त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ
व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्त् इ ॥

2.39

तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण
उपस्थिता शोणितपारणा मे सुरद्विषश् चान्द्रमसी सुधेव ॥

2.40

स त्वं निवर्तस्व विहाय लज्जां गुर् ओर् भवान् दर्शितशिष्यभक्तिः
शस्त्रेण रक्ष्यं यद् अशक्य रक्षं न तद् यशः शस्त्रभृतां क्षिणोति ॥

2.41

इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य
प्रत्याहतास्त्रो गिरिशप्रभावाद् आत्मन्य् अवज्ञां शिथिलीचकार ॥

2.42

प्रत्यब्रवीच् चैनम् इषुप्रयोगे तत्पूर्व सङ्गे वितथप्रयत्नः
जडीकृतस् त्र्यम्बक विक्षणेन वज्रं मुमुक्षन्न् इव वज्रपाणिः ॥

2.42*

प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात् स्वरभेदम् आप्तः
प्रहीणपूर्वध्वनिनाधिरूढस् तुलाम् असारेन शरद्घनेन ॥

2.43

संरुद्धचेष्ट् अस्य हेतुः हास्यं वचस् तद् यद् अहं विवक्षुः
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावम् अतो ऽभिधास्ये ॥

2.44

मान्यः स मे स्थावरजङ्गमानां सर्गस्थिति प्रत्यवहार हेतुः
गुरोर् अपीदं धनम् आहिताग्नेर् नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥

2.45

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद
दिनावसानोत्सुकबालवत्सा वि सृज्यतां धेनुर् इयं महर्षेः ॥

2.46

अथान्धकारं गिरि गह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन्
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद् विहस्यार्थपतिं बभाषे ॥

2.47

एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तम् इदं वपुश् च
अल्पस्य हेतोर् बहु हातुम् इच्छन् विचारमूधः प्रतिभासि मे त्वम् ॥

2.48

भूतानुकम्पा तव चेद् इयं गौर् एका भवेत् स्वस्तिमती त्वदन्ते
जीवन् पुनः शश्वद् उपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥

2.49

अथैकधेनोर् अपराध चण्डाद् गुरोः कृषानुप्रतिमाद् बिभेषि
शक्यो ऽस्य मन्युर् भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥

2.50

तद् रक्ष कल्याणपरंपराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहम्
महीतलस्पर्शन मात्रभिन्नम् ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः ॥

2.51

एतावद् उक्त्वा विरते मृगेन्द्रे प्रतिस्वनेन् आस्य गुहागतेन
शिलोच्चयो ऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् अभाषतेव ॥

2.52

निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनर् अप्य् उवाच
धेन्वा तद् अध्यासित कातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥

2.53

क्षतात् किल त्रायत इत्य् उदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः
राज्येन किं तद्विपरीतवृत्तेः प्राणैर् उपक्रोशमलीमसैर् वा ॥

2.54

कथं नु शक्यो ऽनुनयो महर्षेर् विश्राणन् आच् चान्य पयस्विनीनाम्
इमाम् अनूनां सुरभेर् अवेहि रुद्रौजसा तु पहृतं त्वयास्याम् ॥

2.55

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः
न पारणा स्याद् वि हता तवैवं भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥

2.56

भवान् अपीदं परवान् अवैति महान् हि यत्नस् तव देवदारौ
स्थातुं नियोक्तुर् न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥

2.57

किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं यशःशरीरे भव मे दयालुः
एकान्तविधंसिषु मद्विधानां पिण्डेष्व् अनास्था खलु भौतिकेषु ॥

2.58

संबन्धम् आभाषणपूर्वम् आहुर् वृत्तः स नौ संगतयोर् वनान्ते
तद् भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥

2.59

तथेति गाम् उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः
स न्यस्त शस्त्रो हरये स्वदेहम् उपानयत् पिण्डम् इवामिषस्य ॥

2.60

तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम्
अवाङ् मुखस्य्ऽओपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥

2.61

उत्तिष्ठ वत्सेत्य् अमृतायमानं वचो निशम्योत्थितम् उत्थितः सन्
ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥

2.62

तं विस्मितं धेनुर् उवाच साधो मायां मयोध्भाव्य परीक्षितो ऽसि
ऋषिप्रभावान् मयि नान्तको ऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्र् आः ॥

2.63

भक्त्या गुरौ मय्य् अनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व
न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम् ॥

2.64

ततः समानीय समानित् आर्थी हस्तौ स्वहस्तार्जितवीरशब्दः
वंशस्य कर्तारम् अनन्तकीर्त् इं सुदक्षिणायां तनयं ययाचे ॥

2.65

संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा
दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्ऽ; ओप भुङ्क्ष्व्ऽ एति तम् आदिदेश ॥

2.66

वत्सस्य होमार्थविधेश् च शेषम् ऋषेर् अनुज्ञाम् अधिगम्य मातः
ऊ धस्यम् इच्छामि तवोपभोक्तुम्यं षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥

2.67

इत्थं क्षितीशेन वसिष्ठधेनुर् विज्ञापिता प्रीततरा बभूव
तदन्विता हैमवताच् च कुक्षेः प्रत्याययाव् आश्रमम् अश्रम् एण ॥

2.68

तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर् नृपाणां गुरवे निवेद्य
प्रहर्षचिह्न् आनुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥

2.69

स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्स हुतावशेषम्
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इव् आतितृष्णः ॥

2.70

प्रातर् यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज
तौ दंपती स्वां प्रति राजधानीं प्रस्थापयाम् आस वशी वसिष्ठः ॥

2.71

प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरं भर्तुर् अरुन्धतीं च
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतर् अप्रभावः ॥

2.72

श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः
ययाव् अनुद्घात सुखेन मार्गं स्वेन् एव पूर्णेन मनोरथेन ॥

2.73

तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजार्थव्रत कर्शित् आङ्गम्
नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् नवोदयं नाथम् इवौषधीनाम् ॥

2.74

पुरंदरश्रीः पुरम् उत्पताकं प्रविश्य पौरैर् अभिनन्द्यमानः
भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर् धुरम् आससञ्ज ॥

2.75

अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम्
नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिर् अभिनिविष्टं लोकपालानुभावैः ॥

मूल पाठ: Raghuvaṃśa · Edition: A. Scharpé: Kalidasa Lexicon, Vol. 1, Brugge 1964 (Rijksuniversiteit te Gent, Werken uitgegeven door de Faculteit van de Letteren en Wijsbegeerte, 134) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc