राधाकृष्णाष्टकालीयलीलास्मरणक्रमपद्धति · श्लोक 1-20
श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः
एवं पद्मोपरि ध्यात्वा राधा-कृष्णौ ततस् तयोः ।
अष्ट-कालोचितां सेवां विदध्यात् सिद्ध-देहतः ।
गुरु-वर्गाज्ञया तत्र पूजयेद् राधिका-हरी
बाह्य-पूजां ततः कृत्वा पाद्यम् अर्घ्यं क्रमेण च ।
विधि-पूर्वक-शुश्रूषा-नन्तरं साधकः क्रमात् ।
द्वात्रिंशद्-अक्षर-मुखान्ज् अपेन् मन्त्रान् अतन्द्रितः
महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अन्तरम् ।
ततः श्री-राधिका-मन्त्रं गायत्रीं कामिकीं ततः
ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् ।
ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् ।
ततो ऽष्ट-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत्
अष्ट-कालीय-सूत्रम् आह, यथा--
निशान्तः प्रातः पूर्वाह्नो मध्याह्नश् चापराह्नकः ।
सायं प्रदोषो रात्रिश् च काला अष्टौ यथा-क्रमम्
मध्याह्नो यामिनी चोभौ षण्-मुहूर्त-मितौ स्मृतौ ।
त्रि-मुहूर्त-मिता ज्ञेया निशान्त-प्रमुखाः परे
तेषु सिद्ध-देहेन सेवनं यथा सनत्-कुमार-संहितायाम्,
श्री-नारद उवाच-
भगवन् सर्वम् आख्यातं यद् यत् पृष्ठं त्वया गुरो ।
अधुना श्रोतुम् इच्छामि राग-मार्गम् अनुत्तमम्
श्री-सदाशिव उवाच--
साधु पृष्ठं त्वया विप्र सर्व-लोक-हितैषिणा ।
रहस्यम् अपि वक्ष्यामि तन् मे निगदितं शृणु
परकीयाभिमानिन्यस् तथास्य च प्रिया जनाः ।
प्रचुरेणैव भावेन रमयन्ति निज-प्रियम्
आत्मानं चिन्तयेत् तत्र तासां मध्ये मनोरमाम् ।
रूप-यौवन-सम्पन्नां किशोरीं प्रमदाकृतिम्
नाना-शिल्प-कलाभिज्ञां कृष्ण-भोगानुरूपिणीम् ।
प्रार्थिताम् अपि कृष्णेन ततो भोग-पराङ्-मुखीम्
राधिकानुचरीं नित्यं तत्-सेवन-परायणाम् ।
कृष्णाद् अप्य् अधिकं प्रेम राधिकायां प्रकुर्वतीम्
प्रीत्यानुदिवसं यत्नात् तयोः सङ्गम-कारिणीम् ।
तत्-सेवन-सुखास्वाद-भरेणातिसुनिर्वृताम्
इत्य् आत्मानं विचिन्त्यैव तत्र सेवां समाचरेत् ।
ब्राह्म-मुहूर्तम् आरभ्य यावत् सान्ता महा-निशा
श्री-नारद उवाच--
हरेर् अत्र गतां लीलां श्रोतुम् इच्छामि तत्त्वतः ।
लीलाम् अजानतां सेव्यो मनसा तु कथं हरिः
श्री-सदाशिव उवाच--
नाहं जानामि तां लीलां हरेर् नारद तत्त्वतः ।
वृन्दा-देवीं समागच्छ सा ते लीलां प्रवक्ष्यति
अविदूरे इतः स्थानात् केशी-तीर्थ-समीपतः ।
सखीभिः संवृता सास्ते गोविन्द-परिचारिका
श्री-सनत्-कुमार उवाच--
इत्य् उक्तस् तं परिक्रम्य गुरुं नत्वा पुनः पुनः ।
वृन्दा-स्थानं जगामासौ नारदो मुनि-सत्तमः
वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः ।
उवाच तं मुनि-श्रेष्ठं कथम् अत्रागतिस् तव
श्री-नारद उवाच--
त्वत्तो वेदितुम् इच्छामि नैत्यिकं चरितं हरेः ।
तद् आदितो मम ब्रुहि यदि योग्यो ऽस्मि शोभने
मूल पाठ: Rādhākṛṣṇāṣṭakālīyalīlāsmaraṇakramapaddhati · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0