भाषा

ENहिગુ
ग्रंथ पाठ

प्रश्नोपनिषद (टीका सहित) · अध्याय 2

2.1

प्रुप्भ्_1.16
यथा गृहस्थानामेकविरुद्धसंव्यवहारप्रयोजनवत्त्वाज्जिह्रं कौटिल्यं वक्रभावो ऽवश्यंभावि तथा न येषु जिह्रम् ।
यथा च गृहस्थानां क्रीडानर्मादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् ।
तथा माया गृहस्थानामिव न येषु विद्यते ।
माया नाम बहिरन्यथात्मानं प्रकाश्यन्यथैव कार्यं करोति सा माया मिथ्याचाररूपा ।
मायेत्येवमादयो दोषा येष्वधिकारिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान्न विद्यन्ते तत्साधनानुरूपेणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः ।
पूर्वौक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति ॥16॥
इति प्रथम प्रश्नः
=============================================================================
द्वितीयः प्रश्नः
प्राणो ऽत्ता प्रजापतिरित्युक्तम् ।
तस्य प्रजापतित्वमत्तृत्वं च अस्मिञ्शरीरे ऽवधारयितव्यमिति अयं प्रश्न आरभ्यते -
स्तर्त् प्रुप् 2.1
अत हैनं भार्गवो वैदर्भिः पप्रच्छ ।
भगवन् कत्येव देवाः प्रजां विधारयन्ते ।
कतर एतत् प्रकाशयन्ते ।
कः पुनर् एषां वरिष्ठ इति

2.2

प्रुप्भ्_2.1
अथानन्तरं ह किलैनं भार्गवो वैदर्भिः पप्रच्छ ।
हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते ।
कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानामेतत्प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते ।
को ऽसौ पुनरेषां वरिष्ठः प्रधानः कार्यकरणलक्षणानामिति ॥1॥
स्तर्त् प्रुप् 2.2
तस्मै स होवाच ।
आकाशो ह वा एष देवो वायुर् अग्निर् आपः पृथिवी वाङ्मनश्चक्षु श्रोत्रं च ।
ते प्रकाश्याभिवदन्ति ।
वयम् एतद् बाणम् अवष्टभ्य विधारयामः

2.3

प्रुप्भ्_2.2
एवं पृष्टवते तस्मै स होवाच आकाशो ह वा एष देवो वायुः अग्निः आपः पृथिवीत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुःश्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियबुद्धीन्द्रियाणि च ।
कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्याभिवदन्ति स्पर्धमाना अहं श्रेष्ठतायै ।
कथं वदन्ति?वयमेतद्बाणं कार्यकरणसंघातमवष्टभ्य पासादम् इव स्तम्भादयो ऽविशिथिलीकृत्य विधारयामो विस्पष्टं धारयामः ॥2॥
स्तर्त् प्रुप् 2.3
तान् वरिष्टः प्राण उवाच ।
मा मोहमापद्यथ, अहम् एवैतत् पञ्चधात्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति ।
ते ऽश्रद्दधाना बभूवुः

2.4

प्रुप्भ्_2.3
तानेवमभिमानवतो वरिष्टो मुख्यः प्राण उवाचोक्तवान् ।
मा मैवं मोहमापद्यथ अविवेकितया अभिमानं मा कुरुत यस्मादहमेव एतद्बाणमवष्टभ्य विधारयामि पञ्चधात्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामीत्युक्तवति च तस्मिंस्ते ऽक्षद्दधाना अप्रत्ययवन्तो बभूवुः कथमेतदेवमिति ॥3॥
स्तर्त् प्रुप् 2.4
सो ऽभिमानादूर्ध्वमुत्क्रमत इव ।
तस्मिन्न् उत्क्रामत्य् अथेतरे सर्व एवोत्क्रामन्ते ।
तस्मिंश् च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते ।
तद् यथा मक्षिका मधुकरराजानम् उत्क्रामन्तं सर्वा एवोत्क्रामन्ते ।
तस्मिंश् च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते ।
एवं वाङ्मनश्चक्षुःश्रोत्रं च ।
ते प्रीताः प्राणं स्तुन्वन्ति

2.5

प्रुप्भ्_2.4
स च प्राणस्तेषामश्रद्धधानतामालक्ष्याभिमानादूर्ध्वमुत्क्रामत इवेदमुत्क्रान्तवानिव सरोषान्निरपेक्षस्तस्मिन्नुत्क्रामति यद्वृत्तं तद्द्दृष्टान्तेन प्रत्यक्षीकरोति ।
तस्मिन्नुत्क्रामति सत्यथानन्तरम् एवेतरे सर्व एव प्राणाश्चक्षुरादाय उत्क्रामन्त उच्चक्रमिरे ।
तस्मिंश्च प्राणे प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता अभूवन् ।
तत्तत्र यथा लोके मक्षिका मधुकराः स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते प्रातितिष्ठन्ति ।
यथायं दृष्टान्त एवं वाङ्मनश्चक्षुःश्रोत्रं चेत्यादयस्त उत्सृज्याश्रद्दधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुवन्ति ॥4॥
कथम् -
स्तर्त् प्रुप् 2.5
एषो ऽग्निस् तपत्य् एष सूर्य एष पर्जन्यो मघवान् एष वायुः ।
एष पृथिवी रयिर् देवः सदसच् चामृतं च यत्

2.6

प्रुप्भ्_2.5
एष प्राणो ऽग्निः संस्तपति ज्वलति ।
तथैव सूर्यः सन् प्रकाशते, तथैव पर्जन्यः सन् वर्षति ।
किं च मघवानिन्द्रः सना प्रजाः पालयति, जिघांसत्यसुररक्षांसि ।
एष वायुः आवहप्रवहादिभेदः ।
किं चैष पृथिवी रयिर्देवः सर्वस्य जगतः सन्मूर्तमसदमूर्तं चामृतं च यद्देवानां स्थितिकारणं किं बहुना ॥5॥
स्तर्त् प्रुप् 2.6
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च

2.7

प्रुप्भ्_2.6
अरा इव रथनाभौ श्रद्धादि नामान्तं सर्वं स्थितिकाले प्राण एव प्रतिष्ठितम् ।
तथर्चो यजूंषि सामानीति त्रिविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्रं च सर्वस्य पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वे ऽधिकृतं चैवैष प्राणः सर्वम् ॥6॥
किं च -
स्तर्त् प्रुप् 2.7
प्रजापतिश् चरसि गर्भे त्वम् एव प्रतिजायसे ।
तुभ्यं प्राण प्रजास् त्व् इमा बलिं हरन्ति यः प्राणैः प्रतिष्ठसि

2.8

प्रुप्भ्_2.7
यः प्रजापतिरपि स त्वमेव गर्भे चरसि, पितुर्मातुश्च प्रतिरूपः सन्प्रतिजायसे;प्रजापतित्वादेव प्रागेय सिद्धं तव मातृपितृत्वम् ।
सर्वदेहदेह्याकृतिच्छङ्मनैकः प्राणः सर्वात्मासीत्यर्थः ।
तुभ्यं त्वदर्थं या इसा मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैर्बलि हरन्ति ।
यस्त्वं प्राणैश्चक्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेष्वतस्तुभ्यं बलिं हरन्तीति युक्तम्;भोक्ता हि यतस्त्वं तवैवान्यत्सर्वं भोज्यम् ॥7॥
किं च -
स्तर्त् प्रुप् 2.8
देवानाम् असि वह्नितमः पितॄणां प्रथमा स्वधा ।
ऋषीणां चरितं सत्यम् अथर्वाङ्गिरसाम् असि

2.9

प्रुप्भ्_2.8
देवानामिन्द्रादीनामसि भवसि त्वं वह्नितमो हविषां प्रापयितृतमः ।
पितृणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधान्नं सा देवप्रधानमपेक्ष्य प्रथमा भवति ।
तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः किं चर्षीणां चक्षुरादीनां प्राणानामङ्गिरसामङ्गिरसभूतानामथर्वणां तेषामेव"प्राणो वाथर्वा"इति श्रुतेः, चरितं चेष्टितं सत्यमवितथं देहधारणाद्युपकारलक्षणं त्वमेवासि ॥8॥
स्तर्त् प्रुप् 2.9
इन्द्रस् त्वं प्राण तेजसा रुद्रो ऽसि संहरञ् जगत् ।
स्थितौ च परि समन्ताद्रक्षिता पालयिता परिरक्षिता ।
त्वम् एव जगतः सौम्येन रूपेण ।
त्वम् अन्तरिक्षे ऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस् त्वम् एव च सर्वेषां ज्योतिषां पतिः

2.10

प्रुप्भ्_2.9
इन्द्रः परमेश्वरस्त्वं हे प्राण तेजसा वीर्येण रुद्रो ऽसि संहरज्जगत् ।
स्थितौ च परि समन्ताद्रक्षिता पालयिता परिरक्षिता त्वमेव जगतः सौम्येन रूपेण ।
त्वमन्तरिक्षे ऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस्त्वमेव च सर्वेषां ज्योतिषां पतिः ॥9॥
स्तर्त् प्रुप् 2.10
यदा त्वम् अभिवर्षस्य् अथेमाः प्राण ते प्रजाः ।
आनन्दरूपास् तिष्ठन्ति कामायान्नं भविष्यतीति

2.11

प्रुप्भ्_2.10
यदा पर्जन्यो भूत्वाभिवर्षसि त्वमथ तदान्नं प्राप्येमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः ।
अथवा प्राण ते तवेमाः प्रजाः स्वात्मभूतास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण चानन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्ति कामायेच्छातो ऽन्न भविष्यतीत्येवमभिप्रायः ॥10॥
किं च -
स्तर्त् प्रुप् 2.11
व्रात्यस् त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः ।
वयम् आद्यस्य दातारः पिता त्वं मातरिश्व नः

2.12

प्रुप्भ्_2.11
प्रथमजत्वादन्यस्य संस्कर्तुः अभावादसंस्कृतो व्रात्यस्त्वं स्वभावत एव शुद्ध इत्यभिप्रायः ।
हे प्राणैकर्षिस्त्वमाथर्वणानां प्रसिद्ध एकर्षिनामाग्रिः सन्नत्ता सर्वहविषाम् ।
त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पतिः ।
साधुर्वा पतिः सत्पतिः ।
वयं पुनराद्यस्य तवादनीयस्य हविषो दातारः ।
त्वं पिता मातरिश्व हे मातरिश्वन्नो ऽस्माकम् ।
अथ वा मातरिश्वनो वायोस्त्वम् ।
अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् ॥11॥
किं बहुना -
स्तर्त् प्रुप् 2.12
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रं या च चक्षुषि ।
या च मनसि संतता शिवां तां कुरु मोत्क्रमीः

2.13

प्रुप्भ्_2.12
या ते त्वदीया सनूर्वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या श्रोत्रे या च चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूस्तां शिवां शान्तां कुरु मोत्क्रमीरुत्क्रमणेन अशिवां मा कार्षीरित्यर्थः ॥12॥
किं बहुना -
स्तर्त् प्रुप् 2.13
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।
मातेव पुत्रान् रक्षस्व श्रीश् च प्रज्ञां च विधेहि न इति

मूल पाठ: Praśnopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc