प्रश्नोपनिषद (टीका सहित) · अध्याय 1
प्रश्नोपनिषद्
ओं भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षिभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः! शान्तिः!! शान्तिः!!!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः!शान्तिः!!शान्तिः!!!
प्रथम प्रश्नः
मन्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते ।
ऋषिप्रश्नप्रतिवचनाख्यायिका तु विद्यास्तुतये ।
एवं संवत्सरब्रह्मचर्यसंवासादियुक्तैर्ग्राह्या पिप्पलादादिवत्सर्वज्ञकल्पैराचार्यैर्वक्तव्या च, न सा येन केनचिदिति विद्यां स्तौति ।
ब्रह्मचर्यादिसाधनासूचनाच्च तत्कर्तव्यता स्यात् ।
ओं
स्तर्त् प्रुप् 1.1
सुकेशा च भारद्वाजः शैब्यश् च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश् चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस् ते हैते ब्रह्मपरा ब्रह्मनिष्ठा परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादम् उपसन्नाः
प्रुप्भ्_1.1
सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजः, शैब्यश्च शिवेः अपत्यं शैब्यः सत्यकामो नामतः;सौर्यायणी सूर्यस्तस्यापत्यं सौर्यः तस्यापत्यं सौर्यायणिशछान्दसः सौर्यायणीति, गार्ग्यो गर्गगोत्रापत्यं भर्गवो वैदर्भिः विदर्भे भवः;कबन्धी नामतः, कत्यस्यापस्यं कात्यायनः, विद्यमान प्रपितामहो यस्य सः, युवप्रत्ययः ।
ते हैते ब्रह्मपरा अपरं ब्रह्म परत्वेन गतास्तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः - किं तत्?यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तस्तदधिगमायैष ह वै तत्सर्वं वक्ष्यतीत्याचार्यमुपजग्मुः ।
कथम् ते ह समित्पाणयः समिद्लारगृहीतहस्ताः सन्तो भगवन्तं पिप्पलादमाचार्यमुपासन्ना उपजग्मुः ॥
स्तर्त् प्रुप् 1.2
तान् ह स ऋषिर् उवाच ।
भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ ।
यथाकामं प्रश्नान् पृच्छत ।
यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति
प्रुप्भ्_1.2
तानेवमुपगतान्ह स किल ऋषिरुवाच भूयः पुनरेव यद्यपि यूयं पूर्वं तपस्मिन एव तपसेन्द्रियसंयमेन तथापीह विशेषतो ब्रह्मचर्येण श्रद्धया चास्तिक्यबुद्ध्यादरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रूषापराः सन्तो वत्स्यथ ।
ततो यथाकामं यो यस्य कामस्तमनतिक्रम्य यथाकामं यद्विषये यस्य जिज्ञासा तद्विषयान्प्रश्नान्पृच्छत ।
यदि तद्युष्मत्पृष्टम विज्ञास्यामः - अनुद्धतत्वप्रदर्शनार्थो यदिशब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते - सर्वं ह वो वः पृष्टं वक्ष्याम इति ॥2॥
स्तर्त् प्रुप् 1.3
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ ।
भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति
प्रुप्भ्_1.3
अथ संवत्सरादूध्वं कबन्धी कात्यायन उपेत्योपगम्य पप्रच्छ पृष्टवान् ।
हे भगवन् कुतः कस्माद्ध वा इमा ब्राह्मणाद्याः प्रजाः प्रजायन्त उत्पद्यन्ते ।
अपरविद्याकर्मणोः समुच्चितयोर्यत्कार्यं या गतिस्तद्वक्तव्यमिति तदर्थो ऽयं प्रश्नः ॥3॥
स्तर्त् प्रुप् 1.4
तस्मै स होवाच ।
प्रजाकामो वै प्रजापतिः ।
स तपो ऽतप्यत ।
स तपस् तप्त्वा स मिथुनम् उत्पादयते रयिं च प्राणं चेति ।
एतौ मे बहुधाः प्रजाः करिष्यत इति
प्रुप्भ्_1.4
तस्मा एवं पृष्टवते स होवाच तदपाकरणायाह ।
प्रजाकामः प्रजा आत्मनः सिसृक्षुर्वै प्रजापतिः सर्वात्मा सज्जगत्स्रक्ष्यामि इत्येवं विज्ञानवान्यथोक्तकारी तद्भावभावितः कल्पादौ निवृत्तो हिरण्यगर्भः सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सज्जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपो ऽन्वालोचयदतप्यत ।
अत तु स एवं तपस्तप्त्वा श्रौतं ज्ञानमन्वालोच्य सृष्टिसाधनभूतं मिथुनमुत्पादयते मिथुनं द्वन्द्वमुत्पादितवान् ।
रयिं च सोममन्नं प्रणं चाग्निमत्तारम् एतावग्निषोमावत्त्रन्नभूतौ मे मम बहुधानेकधा प्रजाः करिष्यत इत्येवं संचिन्त्याण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥4॥
स्तर्त् प्रुप् 1.5
आदित्यो ह वै प्राणो रयिर् एव चन्द्रमाः ।
रयिर् वा एतत् सर्वं यन्मूर्तं चामूर्तं च ।
तस्मान् मूर्तिर् एव रयिः
प्रुप्भ्_1.5
तत्रादित्यो ह वै प्राणो ऽत्ता अग्निः ।
रयिरेव चन्द्रमाः, रयिः, एवान्नं सोम एव ।
तदेतदेकमत्ता चान्नं च, प्रजापतिरेकं तु मिथुनम्, गुणप्रधानकृतो भेदः ।
कथम्?रयिर्वा अन्नं वा एतन् सर्वम्;किं तद्यन्मूर्तं त स्थूलं चामूर्तं च सूक्ष्मं च मूर्तामूर्ते अत्त्रन्नरूपे रयिरेव ।
तस्मात्प्रविभक्ताद् अमूर्ताद्यदन्यन्मूर्तारूपं मूर्तिः सैव रयिरमूर्तेनाद्यमानत्वात् ॥5॥
तथामूर्तो ऽपि प्राणोत्ता सर्वमेव यच्चाद्यम् ।
कथम् -
स्तर्त् प्रुप् 1.6
अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते ।
यद् दक्षिणं यत् प्रतीचीं यद् उदीचीं यद् अधो यद् ऊर्ध्वं यद् अन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते
प्रुप्भ्_1.6
अथादित्य उदयन्नुद्गच्छन् प्राणिनां चक्षुर्गोचरमागच्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति;तेन स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनिधत्ते संनिवेशयति;
आत्मभूतान्करोति इत्यर्थः ।
तथैव यत्प्रविशति दक्षिणां यत्प्रतीचीं यदुदीचीमध ऊर्ध्वं यत्प्रविशति यच्चान्तरा दिशः कोणदिशो ऽवान्तरदिशो यच्चान्यत् सर्वं प्रकाशयति तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु सन्निदत्ते ॥6॥
स्तर्त् प्रुप् 1.7
स एष वैश्वानरो विश्वरूपः प्राणो ऽग्निरुदयते ।
तद् एतद् दचाभ्युक्तम्
प्रुप्भ्_1.7
स एषो ऽत्ता प्रणो वैश्वानरः सर्वात्मा विश्वरूपो विश्वात्मत्वाच्च प्राणो ऽग्निश्च स एवात्तोदयत उद्गच्छति प्रत्यहं सर्वा दिश आत्मसात्कुर्वन् ।
तदेतदुक्तं वस्तु ऋचा मन्त्रेणाप्यभ्युक्तम् ॥7॥
स्तर्त् प्रुप् 1.8
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिर् एकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानाम् उदयत्य् एष सूर्यः
प्रुप्भ्_1.8
विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाशयं ज्योतिरेकं सर्वप्राणिनां चक्षुर्भूतमद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं सूरयो विज्ञातवन्तो ब्रह्मविदः ।
को ऽसौ यं विज्ञातवन्तः?सहस्ररश्मिरनेकरश्मिः शतधानेकधा प्राणिभेदेन वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥8॥
यश्चासौ चन्द्रमा मूर्तिरन्नम् अमूर्तिश्च प्राणो ऽत्तादित्यस्तदेकम् एतन्मिथुनं सर्वं कथं प्रजाः करिष्यत इति उच्यते-
स्तर्त् प्रुप् 1.9
संवत्सरो वै प्रजापतिः ।
तस्यायने दक्षिणं चोत्तरं च ।
तद् ये ह वै तदिष्टापूर्ते कृतिम् इत्य् उपासते ते चान्द्रमसम् एव लोकम् अभिजयन्ते ।
त एव पुनर् आवर्तन्ते ।
तस्माद् एत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।
एष ह वै रयिर् यः पितृयाणः
प्रुप्भ्_1.9
तदेव कालः संवत्सरो वै प्रजापतिस्तन्निर्वर्त्यत्वात्संवत्सरस्य ।
चन्द्रादित्यनिर्वर्त्यत्वात्संवत्सरस्य ।
चन्द्रादित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरः तदनन्यत्वाद्रयिप्राणमिथुनात्मक एवेत्युच्यते ।
तत्कथम्?तस्य संवत्सरस्य प्रजापतेरयने मार्गौ द्वौ दक्षिणं चोत्तरं च द्वे प्रसिद्धे ह्ययने षण्मासलक्षणे याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान् विदधत् ।
कथम्?तत् तत्र च ब्राह्मणादिषु ये ह वै तदुपासत इति, क्रियाविशेषणो द्वितीयस्तच्छब्दः, इष्टं च पूर्तं चेष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि भवं प्रजान्द्रमस्य ।
ते तत्रैव च कृतक्षयात्पुनरावर्तन्ते"इमं लोकं हीनतरं वा विशन्ति"(मु.उ.1 । 2 । 10) इति ह्युक्तम् ।
यस्मादेवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिर्वर्तयन्ति चन्द्रम् इष्टापूर्तकर्मणैव ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रजार्थिनो गृहस्थास्तस्मात्स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते ।
एष ह वै रयिरन्नं यः पितृयाणः पितृयाणपलक्षितः ॥9॥
स्तर्त् प्रुप् 1.10
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानम् अन्विष्यादित्यम् अभिजयन्ते ।
एतद् वै प्राणानाम् आयतनम् एतद् अमृतम् अयम् एतत् परायणम् ।
एतस्मान् न पुनरावर्तन्त इति ।
एष निरोधः ।
तद् एष श्लोकः
प्रुप्भ्_1.10
अथोत्तरेणायनेन प्रजापतेः अंशं प्राणमत्तारमादित्यमभिजयन्ते;केन?तपसेन्द्रियजयेन विशेषतो ब्रह्मचर्ये श्रद्धया विद्यया च प्रजापत्यात्मविषया आत्मानं प्राणं सूर्यं जगतस्तस्थुषश्चान्विष्याहमस्मीति विदित्वादित्यमभिजयन्ते ऽभिप्राप्नुवन्ति ।
एतद्वा आयतनं सर्वप्राणानां सामान्यमायतनमाश्रयमेतदमृतमविनाशि ।
अभयमत एव भयवजितं न चन्द्रवत्क्षयवृद्धिभयवत् ।
एतत्परायणं परा गतिः विद्यावतां कर्मिणां च ज्ञानवताम् ।
एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिणा इति ।
यस्मादेषो ऽविदुषां निरोधः ।
आदित्यादि निरुद्धा अविद्वांसो नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति ।
स हि संवत्सरः कालात्माविदुषां निरोधः ।
तत्तत्रास्मिन्नर्थ एष श्लोको मन्त्रः ।
स्तर्त् प्रुप् 1.11
पञ्चपादं पितरं द्वादशकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति
प्रुप्भ्_1.11
पञ्चपादं पञ्चर्तवः पादा इवास्य संवत्सरात्मन आदित्यस्य तैरसौ पादैरिवर्तुभिरावर्तते ।
हेमन्तशिशिरावेकीकृत्येयं कल्पना ।
पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य ।
तं द्वादशाकृतिं द्वादशमासा आकृतयो ऽवयवा आकरणं वाक्यविकरणम् अस्य द्वादशमासैस्तं द्वादशाकृतिं दिवो द्युलोकात्पर ऊर्ध्वेर्ऽथे स्थाने तृतीयास्यां दिवीत्यर्थः पुरीषिणं पुरीषवन्तमुदकवन्तमाहुः कालविदः ।
अथ तमेवान्य इम उ परे कालविदो तिचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपेण चक्रे सततं गतिमति कालात्मनि षडरे षडृतुमत्याहुः सर्वमिदं जगत्कथयन्ति अर्पितमरा इव रथनाभौ निविष्टमिति ।
यदि पञ्चपादो द्वादशाकृतिर्यदिवा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजापतिः चन्द्रादित्यलक्षणो ऽपि जगतः कारणम् ॥11॥
स्तर्त् प्रुप् 1.12
यस्मिन्न् इदं श्रितं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते ।
मासो वै प्रजापतिः ।
तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः ।
तस्माद् एत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन्
प्रुप्भ्_1.12
मासो वै प्रजापतिर्यथोक्तलक्षण एव मिथुनात्मकः ।
तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्षो रयिरन्नं चन्द्रमाः ।
अपरो भागः शुक्लपक्षो रयिरन्नं चन्द्रमाः ।
अपरो भागः शुक्लपक्षः प्राण आदित्यो ऽत्ताग्निः यस्माच्छुक्लपक्षात्मानं प्राणं सर्वमेव पश्यन्ति तस्मात्प्राणदर्शिन एत ऋषयः कृष्णपक्षस्तैर्न दृश्यते यस्मात् ।
इतरे तु प्राणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति ।
इतरस्मिन् कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्वन्तो ऽपि ॥12॥
स्तर्त् प्रुप् 1.13
अहोरात्रो वै प्रजापतिः ।
तस्याहरेव प्राणो रात्रिरेव रयिः ।
प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ।
ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते
प्रुप्भ्_1.13
सो ऽपि मासात्मा प्रजापतिः स्वावयवे ऽहोरात्रे परिसमाप्यते ।
अहोरात्रो वै प्रजापतिः पूर्ववत् ।
तस्याप्यहरेव प्राणो ऽत्ताग्नी रात्रिरेव रयिः पूर्ववत् ।
प्राणमहरात्मानं वा एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापनयन्ति के?ये दिवाहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मिथुनं मैथुनमाचरन्ति मूढाः ।
यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासंङ्गिकः ।
यद्रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वादृतौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः ।
प्रकृतं तूच्यते - सो ऽहोरात्रात्मकः प्रजापतिर्वीहियवाद्यन्नात्मना व्यवस्थितः ॥13॥
एवं क्रमेण परिणम्य तत् -
स्तर्त् प्रुप् 1.14
अन्नं वै प्रजापतिस् ततो ह वै तद्रेतः ।
तस्माद् इमाः प्रजाः प्रजायन्त इति
प्रुप्भ्_1.14
अन्नं वै प्रजापतिः ।
कथम्?ततस्तस्माद्ध वै रेतो नृबीजं तत्प्रजाकरणं तस्माद्योषिति सिक्तादिमा मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते ।
यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति ।
तदेवं चन्द्रादित्यमिथुनादिक्रमेणाहोरात्रान्तेनान्नासृग्रेतोद्धारेणेमाः प्रजाः प्रजायन्त इति निर्णीतम् ॥14॥
स्तर्त् प्रुप् 1.15
तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति ।
ते मिथुनम् उत्पादयन्ते ।
तेषामेवैष ब्रह्मलोकः ।
येषां तपो ब्रह्मचर्यं ।
येषु सत्यं प्रतिष्ठितम्
प्रुप्भ्_1.15
तत्तत्रैवं सति ये गृहस्थाः - ह वै इति प्रसिद्धस्मरणार्थौ निपातौ - तत्प्रजापतेर्व्रतं प्रजापतिव्रतमृतौ भार्यागमनं चरन्ति कुर्वन्ति तेषां दृष्टफलमिदम् ।
किम्?ते मिथुनं पुत्रं दुहितरं चोत्पादयन्ते ।
अदृष्टं च फलमिष्टापूर्तदत्तकारिणां तेषामेव एष यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणो येषां तपः स्नातकव्रतादीनि, ब्रह्मचर्यम्, येषु च सत्यमनृतवर्जनं प्रतिष्ठितमव्यभिचारितया वर्तते नित्यमेव ॥15॥
यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तो ऽसौ तेषां केषामित्युच्यते -
स्तर्त् प्रुप् 1.16
तेषाम् असौ विरजो ब्रह्मलोको न येषु जिह्वम् अनृतं न माया चेति
मूल पाठ: Praśnopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0