Prasannapada · अध्याय 69
तदा कुतो ऽस्माकं यथोक्तदोषप्रसङ्गः? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमो ऽप्रवृत्तिस्तन्निर्वाणम् । स एव चोपशमः प्रकृत्यैवोपशान्तत्वाच्छिवः । वाचामप्रवृत्तेर्वा प्रपञ्चोपशमश्चित्तस्याप्रवृत्तेः शिवः । क्लेशानामप्रवृत्त्या वा जन्मनो ऽप्रवृत्त्या शिवः । क्लेशप्रहाणेन वा प्रपञ्चोपशमो निरवशेषवासनाप्रहाणे शिवः । ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिवः । यदा चैवं बुद्धा भगवन्तः सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवे ऽस्थानयोगेन नभसीव हंसराजाः स्थिताः स्वपुण्यज्ञानसंभारपक्षपातवाते वातगगने वा गगनस्याकिंचनत्वात्, तदा सर्वनिमित्तानुपलम्भान्न क्वचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्मः सांक्लेशिको वा वैयवदानिको वा देशित इति विज्ञेयम् । यथोक्तमार्यतथागतगुह्यसूत्रे- "यां च रात्रिं शान्तमते तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अत्रान्तरे तथागतेनैकमप्यक्षरं नोदाहृतं न व्याहृतं नापि प्रव्याहरति नापि प्रव्याहरिष्यति । अथ च यथाधिमुक्ताः सर्वसत्त्वा नानाधात्वाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति । तेषामेवं पृथक् पृथग्भवति- अयं भगवानस्मभ्यमिमं धर्मं देशयति, वयं च तथागतस्य धर्मदेशनां शृणुमः । तत्र तथागतो न कल्पयति न विकल्पयति । सर्वकल्पविकल्पजालवासनाप्रपञ्चविगतो हि शान्तमते तथागतः" । इति विस्तरः ॥
तथा-
अवाच ऽनक्षराः सर्वशून्याः शान्तादिनिर्मलाः ।
य एवं जानति धर्मान् कुमारो बुद्ध सोच्यते ॥
यदि तर्ह्येवं न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः, तत्कथमिमे एते विचित्राः प्रवचनव्यवहाराः प्रज्ञायन्ते? उच्यते । अविद्यानिद्रानुगतानां देहिनां स्वप्नायमानानामिव स्वविकल्पाभ्युदय एषः- अयं भगवान् सकलत्रिभुवनसुरासुरनरनाथः इमं धर्ममस्मभ्यं देशयतीति । यथोक्तं भगवता-
तथागतो हि प्रतिबिम्बभूतः कुशलस्य धर्मस्य अनास्रवस्य ।
नैवात्र तथता न तथागतो ऽस्ति बिम्बं च संदृश्यति सर्वलोके ॥ इति ।
एतच्च तथागतवाग्गुह्यपरिवर्ते विस्तरेण व्याख्यातम् । ततश्च निर्वाणार्थं धर्मदेशनाया अभावात् कुतो धर्मदेशनायाः सद्भावेन निर्वाणस्यास्तित्वं भविष्यति? तस्मान्निर्वाणमपि नास्तीति सिद्धम् । उक्तं च भगवता-
अनिर्वाणं हि निर्वाणं लोकनाथेन देशितम् ।
आकाशेन कृतो ग्रन्थिराकाशेनैव मोचितः ॥ इति ।
तथा- न तेषां भगवन् संसारसमतिक्रमो ये निर्वाणं भावतः पर्येषन्ते । तत्कस्य हेतोः? निर्वाणमिति भगवन् यः प्रशमः सर्वनिमित्तानामुपरतिः सर्वेञ्जितसमिञ्जितानाम् । तदिमे भगवन् मोहपुरुषा ये स्वाख्याते धर्मविनये प्रव्रज्य तीर्थिकदृष्टौ निपतिता निर्वाणं भावतः पर्येषन्ते तद्यथा तिलेभ्यस्तैलं क्षीरात्सर्पिः । अत्यन्तपरिनिर्वृतेषु भगवन् सर्वधर्मेषु ये निर्वाणं मार्गन्ति तानहमाभिमानिकान् तीर्थिकानिति वदामि । न भगवन् योगाचारः सम्यक् प्रतिपन्नः कस्यचिद्धर्मस्योत्पादं वा निरोधं वा करोति, नापि कस्यचिद्धर्मस्य प्राप्तिमिच्छति नाभिसमयमिति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ निर्वाणपरीक्षा नाम पञ्चविंशतितमं प्रकरणम् ॥
26
द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् ।
अत्राह- यदुक्तम्-
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ इति,
कः पुनरसौ प्रतीत्यसमुत्पादः, यः शून्यतेत्युच्यते?
अथवा । यदेतदुक्तम्-
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति ।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥ इति,
तत्कतमो ऽसौ प्रतीत्यसमुत्पादः इति? अतस्तदङ्गप्रभेदविवक्षयेदमुच्यते-
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा ।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0