भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 61

61.1

संकल्पो वितर्कः । संकल्पात् प्रभवतीति संकल्पप्रभवः ।
काम जानामि ते मूलं संकल्पात्किल जायसे ।
न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि ॥
इति गाथाभिधानात्
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
एतन्मूलकत्वादन्येषां क्लेशानां मुख्यत्वादेषामेवोपादानं त्रयाणाम् । एते च त्रयः क्लेशाः-
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ।
तत्र हि शुभमाकारं प्रतीत्य राग उत्पद्यते, अशुभं प्रतीत्य द्वेषः, विपर्यासान् प्रतीत्य मोह उत्पद्यते । संकल्पस्तु एषां त्रयाणामपि साधारणकारणमुत्पत्तौ । कथं पुनर्मोहः संकल्पप्रभवः? उच्यते । उक्तं हि प्रतीत्यसमुत्पादे भगवता-
अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवः अविद्याया हेतुः? अयोनिशो भिक्षवो मनस्कारो ऽविद्याया हेतुः । आविलो मोहजो मनस्कारो भिक्षवो ऽविद्याया हेतुः ॥ इत्यतः अविद्या संकल्पप्रभवा भवति

61.2

ततश्च-
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc