भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 56

56.2

संभवं विना कथं नाम विभवो विनाशो भविष्यति? कथं नामेत्यनेन प्रसिद्धमत्यन्तासंभवं दर्शयति । कथं नाम भविष्यति, नैव एतत्संभवतीत्यभिप्रायः । यदि पुनर्विनैव संभवं विभवः स्यात्, को दोषः स्यात्? उच्यते । विनैव जन्म मरणं स्यात्, अजातस्य मरणं स्यात् । न च अजातस्य मरणं दृष्टमिति । तस्माद्विभवो नोद्भवं विना भवितुमर्हति । आद्येनात्र श्लोकस्यार्धेन प्रतिज्ञा, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनमिति विज्ञेयम्

56.3

एवं तावद्विना संभवेन विभवो न युक्तः इति प्रतिपाद्य इदानीं सह संभवेनापि विभवो न संभवति तथा प्रतिपादयन्नाह-
संभवेनैव विभवः कथं सह भविष्यति ।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते

56.3

यदि हि संभवेन सह युगपत् तुल्यकालं विभवः स्यात्, एवं सति जन्ममरणे युगपत् स्याताम् । न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति । तस्मात् सहापि संभवेन विभवस्य नास्ति सिद्धिरिति स्थितम्

56.4

यदा चैवं संभवेन विना वा सह वा विभवस्य नास्ति सिद्धिः, एवं संभवस्यापि विना वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह-
भविष्यति कथं नाम संभवो विभवं विना
अनित्यता हि भावेषु न कदाचिन्न विद्यते

56.4

नैव हि संभवो विभवेन विना युज्यते । यस्मादनित्यता हि भावेषु भवनधर्मकेषु उत्पाद धर्मकेषु न कदाचिन्न विद्यते, किं तर्हि सर्वदैव विद्यते । उक्तं हि-
जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ इति ।
यदा चैवं नित्यमनित्यतानुगताः सर्वे भावाः, तदा कुतः सा काचिदवस्था या विनाशरहिता स्यादिति? अतो नास्ति विभवेन विना उत्पाद इति । एवं तावद्विना विभवेन नास्ति संभवः । शेषमत्र संस्कृतपरीक्षायां विचारितत्त्वान्न विचार्यते ॥
यस्तु सहेतुको विनाशः, संस्कृतलक्षणत्वात्, उत्पादवत्, इति साधनमुत्क्षिप्य अन्त्यचित्तचैत्तक्षणैरनैकान्तिकतामाह, स न युक्तमाह, तद्विनाशस्यापि जातिप्रत्ययत्वेन सहेतुकत्वात् साध्यसमत्वाच्च अनैकान्तिकताभावात् । यदपि निर्दिष्टम्- भावात्मभाव एव अभूत्वा भावादुत्पाद उच्यते, तस्माद् द्रव्यसदुत्पादसिद्धेर्व्यवहारतो दृष्टान्तभाव इति, तदपि न युक्तम्, अद्रव्यसतां प्रतिबिम्बादीनां सहेतुकत्वाभ्युपगमात् । यथोक्तमाचार्यपादैः-
हेतुतः संभवो येषां तदभावान्न सन्ति ये ।
कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ इति ।
अस्मादा[गमात्] कुतो व्यवहारतो दृष्टान्तासिद्धिः? यदि च भावात्, यत् तत्त्वान्यत्वेन न शक्यते वक्तुम्, तत् संवृत्यापि नास्तीत्युच्यते । नीलादिकमपि नास्तीत्युच्यते । यथोक्तं रत्नावल्याम्-
रूपस्याभावमात्रत्वादाकाशं नाममात्रकम् ।
भूतैर्विना कुतो रूपं नाममात्रकमप्यतः ॥ इति ॥
अपि च । कुतो माध्यमिकानां स्वभावरूपं सिद्धसत्ताकं यस्य अवस्थाविशेष उत्पादः स्यात्? अतः अयुक्तमेव दृष्टान्तासिद्धतोद्भावनम् । यच्चोक्तम्- न सहेतुको विनाशः, अविनाशवत्त्वात्, यथा असंस्कृतमिति, तस्यैवं ब्रुवतो महान्तं विरोधमयं हेतुराभवति । यथा हि अयं हेतुर्विनाशस्य निर्हेतुकत्वं साधयति, एवं संस्कृतलक्षणत्वाभावमपि साधयति । तथा संस्कारस्कन्धसंग्रहप्रतीत्यसमुत्पादाङ्गसंग्रहादिकमपि सर्वं विरोधयतीति न युक्तमेतन्मतम् । तथा । न विज्ञानं विषयस्वरूपच्छेदकम्, अविज्ञानवत्त्वात्, असंस्कृतवत्, इत्यादिना सर्वनिषेधान्महती अनिष्टापत्तिरुपपद्यते ऽस्य, इति नास्थेयमेतत्

56.5

इदानीं विभवेन सह यथा संभवस्य नास्ति सिद्धिः, तथा प्रतिपादयन्नाह-
संभवो विभवेनैव कथं सह भविष्यति ।
न जन्ममरणं चैव तुल्यकालं हि विद्यते

56.5

यदि हि संभवो विभवेनैव सह स्यात्, तदा जन्ममरणयोस्तुल्यकालता स्यात् । न च [सा] संभवति । तस्मात् सहभावेनापि संभवविभवयोर्नास्ति सिद्धिः

56.6

अथ स्यात्- यद्यपि जन्ममरणयोरेकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तथापि विद्येते एव संभवविभवौ, वाच्यत्वात्, विज्ञानवत्, इति । उच्यते । यदि वाच्यत्वेन अनयोः सिद्धिरिष्यते, वन्ध्यापुत्रस्यापि इष्यताम् ॥
अपि च-
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते

56.6

सहभावासहभावरहितं नास्ति पक्षान्तरं यतः संभवविभवयोः सिद्धिः स्यात् । अवाच्यतया सिद्धिर्भविष्यतीति चेत्, केयमवाच्यता नाम? यदि मिश्रीभावः, सो ऽनुपपन्नः, पृथक्पृथगसिद्धयो मिश्रीभावाभावात् । अनिर्धार्यमाणौ स्वरूपत्वात् बन्ध्यापुत्रश्यामगौरतादिवन्न स्तः एव संभवविभवाविति । यदा चैवं संभवविभवौ न स्तः, तदा तद्धेतुरपि कालो नास्तीति सिद्धम्

56.7

किं चान्यत्- इहेमौ संभवविभवौ परिकल्प्यमानौ क्षयधर्मिणो वा भावस्य परिकल्प्येयातामक्षयधर्मिणो वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-
क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च

56.8

तत्र क्षयस्य क्षयलक्षणस्य भावस्य विरोधिधर्मसद्भावात् संभवो न युक्तः । अक्षयस्यापि भावलक्षणवियुक्तत्वात् खरविषाणस्येव संभवो न युक्तः । एवं क्षयस्य विभवो नास्ति । क्षयधर्मो हि अविद्यमानः, तस्य निराश्रयो विभवो न युक्तः । तथा विभवो नाक्षयस्य च । अक्षयधर्मो हि भावाभावलक्षणविलक्षणः । तस्य अविद्यमानस्य कुतो विभवो भविष्यति? यौ च संभवविभवौ न क्षयधर्मिणो नाक्षयधर्मिणो भावस्य संभवतः, तौ न संभवतः । इति न स्तः संभवविभवौ ।7 ॥
अत्राह- विद्येते एव भावानां संभवविभवौ, तदाश्रयिधर्मिसद्भावात् । इह भावाश्रयौ संभवविभवौ, स च तावद् भावो ऽस्ति, तत्सद्भावात् तदाश्रितावपि धर्मौ भविष्यतः इति । उच्यते । स्यातां भावाश्रितावेतौ धर्मौ, यदि भावः स्यात् । यदा तु भावो नास्ति, तदा-
संभवो विभवश्चैव विना भावं न विद्यते ।
कस्मात्पुनर्भावो नास्तीति चेत्, यस्मात्-
संभवं विभवं चैव विना भावो न विद्यते

56.8

भावस्य हि लक्षणभूतौ संभवविभवौ, तौ च स्वरूपतो न स्तः इति प्रतिषिद्धौ । यदा च तौ भावतः प्रतिषिद्धौ, तदा भावलक्षणं संभवं विभवं च विना कुतो भावलक्षणविलक्षणो भावो भविष्यति? भावं च विना न स्तः संभवविभवौ ॥
अपरे तु पूर्वार्धं पश्चिमं कृत्वा व्याचक्षते । स्तः एव संभवविभवौ, भावधर्मत्वात् । इह यन्नास्ति, न तस्यास्ति भावधर्मत्वम्, तद्यथा मण्डूकजटाशिरोमणेः । भावधर्मौ च संभवविभवौ, ( प्प्_181 ) तस्मात् स्तः एव तौ इति । यदि कस्यचित् परमार्थतः संभवविभवौ स्याताम्, स भाव इति युक्तं स्यादभिधातुम् । तौ च न स्तः, इति
संभवं विभवं चैव विना भावो न विद्यते ।
भावस्य संभवविभवसत्त्वे विद्यमानत्वात्, इति भावः । तदसत्त्वे च हेतोरसिद्धार्थता । तथा-
संभवो विभवश्चैव विना भावं न विद्यते ॥
आश्रयस्याभावादाश्रितस्य असिद्धिः इत्यभिसंधिरिति

56.9

किं चान्यत्- इहेमौ संभवविभवौ परिकल्पमानौ शून्यस्य वा भावस्य परिकल्प्येयातामशून्यस्य वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
अविद्यमानाश्रयत्वादाकाशचित्रवदित्यभिप्रायः । तथा-
संभवो विभवश्चैव नाशून्यस्योपपद्यते

56.9

अशून्यस्य असत्त्वात् निराश्रयौ संभवविभवौ नोपपद्यतः

56.10

किं चान्यत्- इह यदि संभवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा च नोपपद्यते इत्याह-
संभवो विभवश्चैव नैक इत्युपपद्यते ।
परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वानुपपत्तेः ।
संभवो विभवश्चैव न नानेत्युपपद्यते

56.11

उभयोः परस्परमव्यभिचारित्वात् । न हि संभवरहितस्य विनाशः, न विभवरहितस्य संभवो दृष्ट इति । एवमुभयोः परस्परमव्यभिचारित्वात्
संभवो विभवश्चैव न नानेत्युपपद्यते ॥
अथ स्यात्- किमनया सूक्ष्मेक्षिकया? आगोपालाङ्गनादिको हि जनः यस्मात् संभवं विभवं च पश्यति, तस्मात् स्तः संभवविभवौ । न हि अविद्यमानो वन्ध्यातनयः शक्यो द्रष्टुमिति । एवमपि-
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
उच्यते । अनैकान्तिकमेतत् । न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम् ।
तथा हि आगोपालाङ्गनादिको जनो गन्धर्वनगरमायास्वप्नालातचक्रमरीचिकासलिलादिकमविद्यमानमपि पश्यति इन्द्रियोपघातात्, एवमिमावपि संभवविभवौ असन्तौ मोहादेव पश्यतीत्याह-
दृश्यते संभवश्चैव मोहाद्विभव एव च

56.12

अथ कस्मात् पुनरेतदेवं निश्चीयते- अविद्यमानस्वरूपाविमौ संभवविभवौ मोहादेव वारलोकेन दृश्येते इति । युक्त्या ह्येतदेवं निश्चीयते । का पुनरत्र युक्तिः? इह यदि कश्चिद् भावो नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा । तथा यदि अभावो नाम कश्चित्, सो ऽपि भावाद्वा जायेत अभावाद्वा । उभयथा च उभयोरप्यसंभवः इत्याह-
न भावाज्जायते भावो भावो ऽभावान्न जायते ।
नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते

56.12

भावात् तावत् संभवाख्याद् भावस्य संभवाख्यस्य उत्पादो न विद्यते, कार्यकारणयोर्यौगपद्याभावात्, उत्पादस्य च लब्धजन्मनः पुनरुत्पादवैयर्थ्यात् । अभावादपि भावो न जायते । किं कारणम्? अभावो हि नाम विभवो विनाशः । स च भावविरुद्धः । तस्माद्भावविरुद्धात् कथं भावः स्यात्? यदि स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् । न चैतदेवमिति । तस्मादभावादपि भावो न भवति । इदानीमभावो ऽप्यभावान्न भवति । भावनिवृत्तिरूपो हि अभावः, तत कुतो ऽस्य कार्यकरणसामर्थ्यम्? यदि स्यात्, निर्वाणस्यापि कार्यकरणसामर्थ्यं स्यात् । यदि च अभावादभावः स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् । न चैतदेवमिति । तस्मादभावादप्यभावो न भवति । इदानीं भावादप्यभावो न भवति । भावविरुद्धो ह्यभावः । स कथं भावाद्भवेत् । यदि भवेत्, प्रदीपादन्धकारः स्यात् । यतश्चैवं विचार्यमाणौ संभवविभवौ न स्तः, तस्मान्मोहादेव लोकेन दृश्येते इति विज्ञेयम् ॥
अथवा । अयमन्यः पूर्वपक्षः- इह हि यदि संभवविभवौ स्याताम्, तौ भावाश्रयौ वा स्यातामभावाश्रयौ वा । तौ च भावाभावौ सर्वथा विचार्यमाणौ न संभवतः । ततश्च कुतो निराश्रयौ संभवविभवाविति? अतः-
दृश्यते संभवश्चैव मोहाद्विभव एव च ।
इति विज्ञेयम् । यथा च भावाभावौ न संभवतः, तथा प्रतिपादयन्नाह-
न भावाज्जायते भावो भावो ऽभावान्न जायते ।
नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते ॥
अस्यार्थः पूर्ववत्

56.13

अपि च । यदि कश्चिद् भावो नाम स्यात्, तस्य उदयव्ययवत्त्वात् संभवविभवौ स्याताम् । न च कश्चिद् भावः स्वरूपतो ऽस्ति खरविषाणवत् स्वभावानुत्पन्नत्वात् । अनुत्पन्नत्वमसिद्धमिति चेत्, तत् सिद्धम्, यस्मात्-
न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश्चैव जायते, जायते कुतः

56.13

एतच्च आद्य एव प्रकरणे व्याख्यातत्त्वान्न पुनर्व्याख्यायते । यश्चैवं यथोक्तप्रकारेण जायते स इदानीं कुतो जायते? नैव कुतश्चिज्जायते इत्यभिप्रायः । अवश्यं चैतदेवमभ्युपेयम्- सर्वथा नास्ति भावस्योत्पाद इति

56.14

भावसद्भावताभ्युपगमे च भवतः शाश्वतोच्छेददर्शनमापद्यते बौद्धमतानुगस्येत्याह-
भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते
यस्मात्,
स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत्

56.14

यो हि यथोदितपदार्थव्यवस्थामतिक्रम्य भावसद्भावदर्शनमभ्युपैति, तस्य अवश्यं प्रवचनात्यन्तविरुद्धं शाश्वतोच्छेददर्शनद्वयमापद्यते । किं कारणम्? यस्मात् स भावः परिकल्प्यमानः नित्यो वा भवेदनित्यो वा । यदि नित्यः, तदा नियतं शाश्वतवादः । अथ अनित्यः, तदा नियतमुच्छेद इति

56.15

अत्राह-
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
किं कारणम्? यस्मात्-
उदयव्ययसंतानः फलहेत्वोर्भवः स हि

56.15

यो हि हेतुफलयोरुदयव्ययानुप्रबन्धः, स हि अस्माकं भवः संसारः । तत्र यदि हेतुर्निरुध्येत, तद्धेतुकं फलं नोत्पद्येत, तदा स्यादुच्छेदवाददोषः । यदि च हेतुर्न निरुध्येत, स्वरूपेणावतिष्ठेत्, तदा स्याच्छाश्वतवाददर्शनदोषः । न चैतदेवमिति । तस्माद् भावाभ्युपगमे ऽपि नास्ति शाश्वतोच्छेददर्शनदोषद्वयप्रसङ्गः । स एव संसारः यो ऽयं हेतुफलाविच्छिन्नक्रमवर्ती उत्पादव्ययानुप्रबन्धः संस्काराणामिति । अतो नास्ति अस्माकमयं दोष इति

56.16

उच्यते-
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् ।
ननु एवमपि-
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते

56.16

यो हि हेतुक्षणः फलस्योत्पत्तौ हेतुभावमुपेत्य निरुध्यते, ननु तस्य व्ययवतो हेतुक्षणस्य पुनरनुत्पादादुच्छेददर्शनमापद्यते । तवायं कथं न दोष इति चेत्, भावमभ्युपपन्नस्य अयं दोषः । न च मया भावो ऽभ्युपगतः, स्वभावानुत्पन्नत्वात् सर्वधर्माणाम् । यत्रापि मया-
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छेदो नापि शाश्वतम् ॥
इत्युक्तम्, तत्रापि अमुना न्यायेन नैःस्वाभाव्यमेव भावानां प्रतिपादितम् । अन्यथा हि सति भावस्वरूपे बीजाङ्कुरयोः कथमन्यत्वं न स्यात्? तस्मान्नायं प्रसङ्गो ऽस्माकं बाधक इति

56.17

एवं तावद् भावमभ्युपपन्नस्य हेतोः पुनरनुत्पादादुच्छेददर्शनप्रसङ्गमुद्भाव्य इदानीं शाश्वतवादे दोषप्रसङ्गमुद्भावयन्नाह-
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।
यदि हि हेतोः सद्भावः स्वभावतः स्यात्, तस्य पश्चादसद्भावो न स्यात् स्वभावस्या नपायित्वात् । ततश्च शाश्वतदर्शनप्रसङ्गः तदवस्थ एव ॥
किं चान्यत्-
निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः

56.17

यद्यपि हेतुफलयोरुदयव्ययसंतानप्रवृत्त्या शाश्वतोच्छेददर्शनप्रसङ्गः परिह्रियते, तथापि यत्रास्य संतानस्य पुनरप्यप्रवृत्तिः, तत्र निर्वाणे नियतमुच्छेददर्शनमापद्यते । उच्छेददर्शनं च प्रहातव्यमित्युक्तं भगवता । एवंविधमुच्छेददर्शनं न भविष्यतीति चेत्, अन्यदपि किमर्थं भवता भविष्यतीति भावविच्छेदालम्बनत्वात्, निर्वाणकाले भावविच्छेदालम्बनवदित्यभिप्रायः ॥
यच्चोक्तम्-
उदयव्ययसंतानः फलहेत्वोर्भवः स हि ।
इति, तदपि नोपपद्यते । कथं कृत्वा? इह हि चरमो भवो निवृत्तिलक्षणः, प्रथमो गतिप्रतिसंधिलक्षणः । तत्र चरमो भवो निरुध्यमानो हेतुत्वेनावतिष्ठते । उपपत्तिलक्षणस्तु प्रथमो भवः फलरूपत्वेन व्यवतिष्ठते । अनयोश्च भवयोः संसार इति संज्ञा कृता

56.18

अत्र च इदं विचार्यते- य एष प्रथमो भवः फलरूपत्वेन व्यवस्थाप्यते, स किं चरमे भवे निरुद्धे उपजायते, अथानिरुद्धे, उत निरुध्यमाने, यतो हेतुफलानुप्रबन्धात् संसारः स्यात्? सर्वथा च विचार्यमाणो न संभवतीति प्रतिपादयन्नाह-
चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः

56.18

तत्र यदि चरमे भवे निरुद्धे प्रथमो भवो जायते इति परिकल्प्यते, तदा निर्हेतुक स्यात् । दहनदग्धबीजादपि अङ्कुरोदयः स्यात् । न चैतदिष्टम् । तस्माच्चरमे निरुद्धे प्रथमो भवो न युज्यते ॥
इदानीमनिरुद्धे ऽपि चरमे भवे प्रथमो भवो न युज्यते । यदि स्यात्, निर्हेतुकः स्यात्, द्विरूपता च एकस्य सत्त्वस्य स्यात्, अपूर्वसत्त्वप्रादुर्भावश्च, पूर्वस्य च नित्यता स्यात्, अविनष्टे च बीजे अङ्कुरोदयः स्यात् । न चैतदेवमिष्टमिति । अतः-
चरमे नानिरुद्धे च प्रथमो युज्यते भवः ।
इति स्थितम्

56.19

इदानीं निरुध्यमाने ऽपि चरमे भवे प्रथमो भवो यथा नोपपद्यते तथा प्रतिपादयन्नाह-
निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज्जायमानो ऽपरो भवेत्

56.19

तत्र निरुध्यमानो वर्तमानो वर्तमानप्रत्ययान्तवाच्यत्वात्, जायते इत्यपि वर्तमान एवोच्यते वर्तमानशब्दवाच्यत्वात् । अथवा निरुध्यमानो निरोधक्रियाकारकः । यश्चापि जायते, असावपि जनिक्रियाकारकः, तौ च एककालाविष्यमाणौ यौगपद्येनैव स्तः । ततश्च निरुध्यमानः एको भवः स्यात्, जायमानश्चापर इति यौगपद्येनैव द्वौ भवौ प्राप्नुतः । न चैकस्य युगपद् द्वौ भवौ संभवतः इत्युक्तमेतत्

56.20

तदेवं यथोक्तेन विचारकमेण-
न चेन्निरुध्यमानश्च जायमानश्च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते

56.20

चशब्दः समुच्चयार्थः । पृथक्पृथक् चेति एतत्संनिधापयति । यदा एवं यथोदितन्यायेन निरुद्धे चरमे प्रथमो भवो न संभवति, अनिरुद्धे ऽपि चरमे प्रथमो भवो न संभवति, सार्धं चैकस्मिश्च काले चरमेन भवेन सह प्रथमो भवो न संभवति, तत् किमिदानीं येषु एव स्कन्धेषु म्रियते तेषु एव जायते इति स्यात् । येषु स्कन्धेषु स्थितो म्रियते, तेष्वेव जायते इति अत्यन्तविरुद्धमेतत् । न हि म्रियमाणो जायते इति दृष्टम्

56.21

तत्-
एवं त्रिष्वपि कालेषु न युक्ता
भवदभिमता
भवसंततिः ।
चरमे भवे निरुद्धे ऽनिरुद्धे निरुध्यमाने यस्मात् प्रथमो भवो न संभवति, तस्मात् त्रिष्वपि कालेषु भवसंतिर्नास्ति ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः

56.21

या च इदानीं त्रिषु कालेषु नास्ति, कुतः सा अन्येनात्मना भविष्यतीति सर्वथा नास्ति भवन्मता भवसंततिः । ततश्च यदुक्तम्-
उदयव्ययसंतानः फलहेत्वोर्भवः स हि ।
इति, तन्न युक्तम् । ततश्च भावाभ्युपगमे सति स एव शाश्वतोच्छेदवादप्रसङ्गो दुर्निवारो भवताम्, इत्यतो नास्त्येव भावानां स्वभावत उत्पत्तिरिति सिद्धम् । यथोक्तमार्यसमाधिराजभट्टारके-
तथा-
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥
मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो एवं संस्कार अनुच्छेदशाश्वताः ॥
अत एवोक्तमार्यनागार्जुनपादैः
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्रैः ।
स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरवधार्यौ ॥ इति ।
तथा भगवान्-
जायते च्यवते चापि न च जातिर्न च च्युतिः ।
यस्य विजानत एष समाधिर्नास्य दुर्लभः ॥ इति।
तथा-
सूसुखिता सद ते नर लोके येहि अचिन्तिय ज्ञातिभि धर्माः ।
न च धर्म अधर्म विकल्पो चित्तपपञ्च विभावित सर्वि ॥
भाव अभाव विभावयि ज्ञानं सर्वमचिन्तयि सर्वमभूतम् ।
ये पुन चित्तवशानुग बालास्ते दुखिता भवकोटिशतेषु ॥
यो ऽपि च चिन्तयि शून्यकधर्मान् सो ऽपि कुमार्गपपन्नकु बालः ।
अक्षर कीर्तित शून्यक धर्मास्ते च अनक्षर अक्षर उक्ताः ॥
शान्त पशान्त य चिन्तयि धर्मान् सो ऽपि च चित्तु न जातु न भूतः ।
चित्तवितर्कण सर्वि पपञ्चाः सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥
इति

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc