भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 55

55.1

फलाभावे सति निर्हेतुका हेतुप्रत्ययसामग्री अपि नास्तीत्यभिप्रायः । उक्तं हि आर्यललितविस्तरसूत्रे-
कण्ठोष्ठ प्रतीत्य तालुकं जिह्वपरिवर्ति रवन्ति अक्षराः ।
न च कण्ठगता न तालुके अक्षरैकैकश नोपलभ्यते ॥
सामग्रि प्रतीत्यतश्च सा वाच मनबुद्धिवशेन निश्चरी ।
मन वाच अदृश्यरूपिणी बाह्यतो ऽभ्यन्तरि नोपलभ्यते ॥
उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डितः ।
क्षणिकां वशिकां तदा दृशी सर्व वाच प्रतिश्रुतकोपमा ॥
तथा आर्योपालिपरिपृच्छायामुक्तं भगवता-
इह शासनि सूरमणीये प्रव्रजथा गृहिलिङ्ग जहित्वा ।
फलवन्तु भविष्यथ श्रेष्ठा एषु निदेशितु कारुणिकेन ।
प्रव्रजित्व गृहिलिङ्ग जहित्वा सर्वफलस्य भविष्यति प्राप्तिः ।
पुन धर्मसभाव तुलित्वा सर्वफलान फलान च प्राप्तिः ॥
अलभन्त फलं तथ प्राप्तिं आश्चरियं पुन जायति तेषाम् ।
अहो ऽतिकारुणिको नरसिंहो सुष्टुपदेशित युक्ति जिनेन ॥ इति ।
तथा आर्यप्रज्ञापारमितायामष्टसाहस्रिकायाम्-
तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम् । न स्रोतआपत्तिफले न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबुद्धत्वे न सम्यक्संबुद्धत्वे स्थातव्यम् ॥ इति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ सामग्रीपरीक्षा नाम विंशतितमं प्रकरणम् ॥
21
संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव स्वभावतः कालः, संभवविभवनिमित्तत्वात् । इह कंचित् कालविशेषमपेक्ष्य अङ्कुरोत्पत्तिः भावानामुत्पादो भवति, कंचित्कालविशेषमपेक्ष्य विभवो विनाशो भवति, न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम्- इत्यतो विद्यत एव कालः, संभवविभव निमित्तत्त्वात् । उच्यते । स्यात् संभवविभवनिमित्तता कालस्य यदि संभवविभवावेव स्याताम् । न तु स्तः । यथा च न स्तः, तथा प्रतिपादयन्नाह-
विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै

55.2

इह यदि संभवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विनाभावेन वा । उभयथा च विचार्यमाणौ न संभवतः । कथं कृत्वा? तत्र तावद् यथा विना संभवेन उत्पादेन विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह-
भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc