Prasannapada · अध्याय 50
इह तावत् यदि वर्तमानानागतौ स्याताम्, तावपेक्ष्य अतीतं कालं भवेताम्, अनपेक्ष्य वा? तत्र यदि अतीतमपेक्ष्य सिध्येते, तथा नियतमतीते काले भविष्यतः । यस्मात्, यस्य हि यत्र असत्त्वम्, तत् तेन नापेक्ष्यते। तद्यथा वन्ध्या स्री स्वतनयेन, गगनमालतीलता स्वकुसुमेन, सिकता स्वतैलेन । अविद्यमानमप्यन्धकारं प्रदीपेन, प्रदीपो ऽपि अन्धकारेण प्रतिद्वन्द्वित्वेन अपेक्ष्यते इति चेत्, नैतदेवम् । अस्यापि साध्यसमत्वात् । तदत्र यदि अतीते काले वर्तमानानागतौ कालौ इष्येते, अपेक्षासिद्धयर्थमेवं सति अतीते काले विद्यमानत्वात् अतीतकालात्मवत् तयोरप्यतीतत्वं स्यात् । ततश्च अतीतो ऽपि न स्यात् । यस्मात् वर्तमानावस्थातिक्रान्तो हि अतीतः असंप्राप्तः अनागत इति स्यात् । यदा तु वर्तमानानागतयोरसंभव एव, तदा कुतः कस्यचिदतीतत्वं स्यात्? इत्यतः अतीतो ऽपि न स्यात्
अथ यथोक्तदोषपरिजिहीर्षया-
प्रत्युत्पन्नो ऽनागतश्च न स्तस्तत्र पुनर्यदि ।
प्रत्युत्पन्नो ऽनागतश्च स्यातां कश्रमपेक्ष्य तम्
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0