भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 49

49.1

कायचेतसोः प्रविवेको ऽसंसर्गः, कल्याणमित्रापर्येषणं वा । तस्मादसंसर्गाद्धेतोः प्रत्येकबुद्धानामसंबुद्धके ऽपि काले यस्माद्भवत्येव धर्मतत्त्वाधिगमः, तस्मादबन्ध्या सिद्धिरस्य संबुद्धमहावैद्यराजप्रणीतस्य सद्धर्मतत्त्वामृतभैषज्यस्येति विज्ञेयम् । यतश्च एतदेवम्, अतो ऽर्हति प्राज्ञः प्राणानपि परित्यज्य सद्धर्मतत्त्वं पर्येषितुमिति । यथोक्तं भगवता आर्याष्टसाहस्रिकायां भगवत्याम्-
कथं च भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन इयं प्रज्ञापारमिता पर्येषिता? एवमुक्तो भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन काये ऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता । तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतो ऽभूत्- गच्छ कुलपुत्र पूर्वस्यां दिशि । तत्र प्रज्ञापारमितां श्रोष्यसि । तथा च गच्छ यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, यावत् मा क्वचिच्चित्तं प्रणिधा अध्यात्मं वा बहिर्धा वा । मा च कुलपुत्र वामेनावलोकयन् ( प्प्_162 ) गाः, मा दक्षिणेन, [मा पूर्वेण], मा पश्चिमेन, मा उत्तरेण, मा उर्ध्वं मा अधः, मा च अनुविदिशमवलोकयन् गाः । तथा च कुलपुत्र गच्छ यथा [नात्मतो] न सत्कायतश्चलसि न रूपतो न वेदनातो न संज्ञातो न संस्कारेभ्यो न विज्ञानतश्चलसि । यो हि अतश्चलति स वितिष्ठते । [कुतो वितिष्ठते?] बुद्धधर्मेभ्यो वितिष्ठते । यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति । यः संसारे चरति, स प्रज्ञापारमितायां न चरति, न च तामनुप्राप्नोतीति ॥
यावन्मारेण पापीयसा उदके ऽन्तर्धापिते अथास्यैतदभूत्- यन्न्वहमात्मनः कायं विद्धा इमे पृथिवीप्रदेशं रुधिरेण सिञ्चेयम् । तत्कस्य हेतोः? अयं पृथिवीप्रदेश उद्धतरजस्कः, मा रजोधातुरितो धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे निपतेत् । किमहमात्मभावेन करिष्यामि अवश्यं भेदनधर्मिणा? वरं खलु पुनर्मम एवंरूपया क्रियया आत्मभावस्य विनाशः कृतो भवेत्, न त्वेवं निःसामर्थ्यक्रियया । बहूनि च मम आत्मभावसहस्राणि कामहेतोः कामनिदानं भिन्नानि पुनः पुनः संसारे संसरतः, न पुनरेवंभूतेषु स्थानेषु ..... । अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः तीक्ष्णं शस्त्रं गृहीत्वा समन्तादात्मानं विद्धा समन्ततस्तं पृथिवीप्रदेशं स्वकेन रुधिरेणासिञ्चदित्यादि ॥
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सहदर्शनादेव धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य एवंरूपं सुखं प्रत्यलभत- तद्यथापि नाम प्रथमध्यानसमापन्नस्य भिक्षोरेकाग्रमनसिकारस्य भिक्षोः । तत्रेयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितादेशना यदुत सर्वधर्मसमतया प्रज्ञापारमितासमता, सर्वधर्मविविक्ततया प्रज्ञापारमिताविविक्तता, सर्वधर्माचलतया प्रज्ञापारमिताचलता, सर्वधर्मामननतया प्रज्ञापारमितामननता, सर्वधर्मास्तम्भिततया प्रज्ञापारमितास्तम्भितता, सर्वधर्मैकरसतया प्रज्ञापारमितैकरसता, सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्तता, सर्वधर्मानुत्पादतया प्रज्ञापारमितानुत्पादता, सर्वधर्मानिरोधतया प्रज्ञापारमितानिरोधता, गगनापर्यन्ततया प्रज्ञापारमितापर्यन्तता, यावत् सर्वधर्मासंभेदनतया प्रज्ञापारमितासंभेदनता, सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धिता, सर्वधर्माभिभावनासमतया प्रज्ञापारमिताभिभावनासमता, सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टता, सर्वधर्माचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्येति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ आत्मपरीक्षा नाम अष्टादशमं प्रकरणम् ॥
19
कालपरीक्षा एकोनविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव भावानां स्वभावः, कालत्रयविज्ञप्तिहेतुत्वात् । इह अतीतानागतप्रत्युत्पन्नास्रयः काला भगवता उपदिष्टाः । ते च भावाश्रयाः । यस्मादुत्पन्नो निरुद्धो हि भावस्वभावः अतीत इति व्यपदिश्यते, उत्पन्नो ऽनिरुद्धो हि वर्तमानः, अलब्धात्मभावो ऽनागत इति । एवं भावस्वभावनिबन्धनास्रयः काला उपदिष्टाः । ते च सन्ति । तस्मात् तन्निबन्धनो ऽपि भावस्वभावो ऽस्तीति । उच्यते । स्यात् कालत्रयप्रज्ञप्तिहेतुर्भावस्वभावः, यदि कालत्रयमेव भवदभिमतं भवेत् । न त्वस्ति । यथा च नास्ति, तथा प्रतिपादयन्नाह-
प्रत्युत्पन्नो ऽनागतश्च यद्यतीतमपेक्ष्य हि ।
प्रत्युत्पन्नो ऽनागतश्च काले ऽतीते भविष्यतः

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc