Prasannapada · अध्याय 47
तत्र क्लेशा रागादयः, क्लिश्नन्ति सत्त्वचित्तसंतानानीति कृत्वा । कर्माणि कुशलाकुशलानेञ्ज्यानि । देहाः शरीराणि । कर्तारः आत्मानः । फलानि विपाकाधिपत्यनिष्यन्दादीनि । त एते क्लेशादयो ऽर्थाः गन्धर्वनगरादिवन्निःस्वभावाः वेदितव्याः । तस्मान्माध्यमिकानामेव भावानां स्वभावानभ्युपगमाच्छाश्वतोच्छेददर्शनद्वयप्रसङ्गो नास्तीति विज्ञेयम् ॥
अत्र च कर्मफलसंबन्धविचारे कुचोद्यशेषाक्षेपपरिहारो मध्यमकावताराद्विस्तरेणावसेयः ॥
यथोक्तमार्यरत्नकूटसूत्रे-
पञ्च च भिक्षुशतानि ध्यानलाभीनि उत्थायासनेभ्यः प्रक्रान्तानि इमां गम्भीरां धर्मदेशनामनवबुध्यमानानि अनवतरन्ति अनवगाहमानानि अनधिमुच्यमानानि । भगवानाह- तथा ह्येते काश्यप भिक्षवः आभिमानिकाः इमामनास्रवां शीलविशुद्धिं नावतरन्ति नावगाहन्ते नाधिमुच्यन्ते उत्त्रस्यन्ति संत्रस्यन्ति संत्रासमापद्यन्ते । गम्भीरः काश्यप गाथाभिनिर्हारो गम्भीरा च बुद्धानां भगवतां बोधिः । सा न शक्या अनवरोपितकुशलमूलैः सत्त्वैः पापमित्रपरिगृहीतैरनधिमुक्तिबहुलैरधिमोक्तुम् । अपि च । एतानि काश्यप पञ्च भिक्षुशतानि काश्यपस्य तथागतस्य प्रवचने ऽन्यतीर्थिकश्रावका अभूवन् । तैरेव तस्य काश्यपस्य तथागतस्यान्तिकादुपालम्भाभिप्रायैरेषा धर्मदेशना श्रुता । श्रुत्वा च एकचित्तप्रसादो लब्धः । एवंतैर्वाग् भाषिता- आश्चर्यं यावत् मधुरप्रियमाणी काश्यपस्तथागतो ऽर्हन् सम्यक्संबुद्ध इति । त एतेनैकचित्तप्रसादेन प्रतिलब्धेन कालगताः त्रायस्त्रिंशेषु देवेषूपपन्नाः । ते ततश्च्युताः समानाः इहोपपन्नाः । तेनैव च हेतुना इह मम शासने प्रव्रजिताः । तान्येतानि काश्यप पञ्च भिक्षुशतानि दृष्टिप्रस्कन्धानि इमां गम्भीरां धर्मदेशनां नावतरन्ति नावगाहन्ते नाधिमुच्यन्ते उत्त्रस्यन्ति संत्रस्यन्ति संत्रासमापद्यन्ते कृतं पुनरेषामनया धर्मदेशनया परिकर्म । न भूयो दुर्गतिविनिपातं गमिष्यन्ति । एभिरेव च स्कन्धैः परिनिर्वास्यन्ति ॥
अथ खलु भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म- गच्छ सुभूते, एतान् भिक्षून् संज्ञपथ । सुभूतिराह- भगवत एव तावदेते भाषितं विलोमयन्ति, कः पुनर्वादो मम? अथ भगवांस्तस्यां वेलायां येन मार्गेणैते भिक्षावो गच्छन्ति स्म, तस्मिन् मार्गे द्रौ भिक्षू निर्मिमीते स्म । अथ तानि पञ्च भिक्षुशतानि येन मार्गेण तौ द्वौ भिक्षू निर्मितकौ तेनोपसंक्रामन्ति स्म । उपसंक्रम्य एतदवोचन्- कुत्र आयुष्मन्तौ गमिष्यथः? ताववोचताम्- गमिष्याव आवामरण्यायतनेषु । तत्र ध्यानसुखसंस्पर्शविहारैर्विहरिष्यावः ॥ ..... तान्यपि पञ्च भिक्षुशतान्येतदवोचन्- वयमप्यायुष्मन्तौ भगवतो धर्मदेशनां नावतरामो नावगाहामहे नाधिमुच्यामहे उत्त्रस्यामः संत्रस्यामः संत्रासमापद्यामहे । तेन वयमरण्यायतनेषु ध्यानसुखसंस्पर्शविहारैर्विहरिष्याम इति । निर्मितकाववोचताम्- तेन हि आयुष्मन्तः संगास्यामो न विवदिष्यामः । अविवादपरमो हि श्रमणधर्मः । यदिदमायुष्मन्त उच्यते परिनिर्वाणमिति, कतमः स धर्मो यः परिनिर्वास्यति? कश्चित्पुनरत्र कायः आत्मा वा सत्त्वो वा जीवो वा जन्तुर्वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा मानवो व, यः परिनिर्वास्यति? कस्य वा क्षयात् परिनिर्वाणम्? ते ऽवोचन् रागद्वेषमोहक्षयात् परिनिर्वाणम् । निर्मितकाववोचताम्- किं पुनरायुष्मतां संविद्यन्ते रागद्वेषमोहा यान् क्षयिष्यथ? ते ऽवोचन्- न ते अध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते, नापि ते अपरिकल्पिता उत्पद्यन्ते .... ।
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कर्मफलपरीक्षा नाम सप्तदशमं प्रकरणम् ॥
18
आत्मपरीक्षा अष्टादशमं प्रकरणम् ।
अत्राह- यदि क्लेशाः कर्माणि च देहाश्च कर्तारश्च फलानि च सर्वमेतन्न तत्त्वम्, केवलंतु गन्धर्वनगरादिवदत्तत्वमेव सत् तत्त्वाकारेण प्रतिभासते बालानाम्, किं पुनरत्र तत्त्वम्, कथं वा तत्त्वस्यावतारः इति? उच्यते । आध्यात्मिकबाह्याशेषवस्त्वनुपलम्भेन अध्यात्मं बहिश्च यः सर्वथा अहंकारममकारपरिक्षयः, इदमत्र तत्त्वम् । तत्त्वावतारः पुनः-
सत्कायदृष्टिप्रभवानशेषान् क्लेशांश्च दोषांश्च धिया विपश्यन् ।
आत्मानमस्या विषयं च बुद्धा योगी करोत्यात्मनिषेधमेव ॥
इत्यादिना मध्यमकावताराद्विस्तरेणावसेयः । कायदृष्टिमूलकमेव संसारमनुपश्यन् आत्मानुपलम्भाच्च सत्कायदृष्टिप्रहाणं तत्प्रहाणाच्च सर्वक्लेशव्यावृत्तिं समनुपश्यन् प्रथमतरमात्मानमेवोपपरीक्षते, को ऽयमात्मा नामेति, यो ऽहंकारविषयः । स चायमहंकारस्य विषयः परिकल्प्यमानः स्कन्धस्वभावो वा भवेत्स्कन्धव्यतिरिक्तो वा? आधाराधेयतद्वत्पक्षाणामपि एकत्वान्यत्वपक्षे एव अन्तर्भावात् संक्षेपेणैव च विवक्षितत्वादेकत्वान्यत्वपक्षद्वयप्रतिषेधेनैव आत्मनिषेधमारब्धुकाम आचार्य आह-
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।
स्कन्धेभ्यो ऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः
किमर्थ पुनरन्यत्र तथागतपरीक्षायामग्नीन्धनपरीक्षायां च पञ्च पञ्च पक्षा उपन्यस्ताः, इह तु पुनः पक्षद्वयमेवेति? उच्यते । येनैव तत्र प्रकरणद्वये पञ्च पञ्च पक्षा निर्दिष्टाः, अत एव अन्यत्र निर्दिष्टत्वान्न पुनरिह निर्दिश्यन्ते । संक्षेपेण तु पक्षद्वयमुपन्यस्यते इति ॥
तत्र यदि स्कन्धा आत्मेति परिकल्प्यते, तदा उदयव्ययभाग् उत्पादी च विनाशी च आत्मा प्राप्नोति, स्कन्धानामुदयव्ययभाक्त्वात् । न चैवमिष्यते, आत्मानेक[त्व]दोषप्रसङ्गात् वक्ष्यति हि-
नाप्यभूत्वा समुत्पन्नो दोषो ह्यत्र प्रसज्यते ।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ इति ।
तथा-
न चोपादानमेवात्मा व्येति तत्समुदेति च ।
कथं हि नामोपादानमुपादाता भविष्यति ॥ इति ।
किं च-
स्कन्धा आत्मा चेदतस्तद्बहुत्वात् आत्मानः स्युस्ते ऽपि भूयांस एव ।
द्रव्यं चात्मा प्राप्नुयात्तादृशश्च द्रव्ये वृत्तौ वैपरीत्ये च न स्यात् ॥
आत्मोच्छेदो निर्वृतौ स्यादवश्यं नाशोत्पादौ निर्वृतेः प्राक् क्षणेषु ।
कर्तुर्नाशात्तत्फलाभाव एव भुञ्जीतान्येनार्जितं कर्म चान्यः ॥
इत्यादिना मध्यमकावतारे विस्तरेण विहितविचारादपि पक्षो बोद्धव्य इति नेह पुनर्विस्तरप्रपञ्च आरभ्यते ॥
एवं तावत् स्कन्धा आत्मा न भवति । स्कन्धव्यतिरिक्तो ऽपि न युज्यते । यदि हि स्कन्धेभ्यो ऽन्य आत्मा भवेत्, अस्कन्धलक्षणो भवेत् । यथा हि गोरन्यो ऽश्वः न गोलक्षणे भवति, एवमात्मापि स्कन्धव्यतिरिक्तः परिकल्प्यमानः अस्कन्धलक्षणो भवेत् । तत्र स्कन्धाः संस्कृतत्वाद् हेतुप्रत्ययसंभूता उत्पादस्थितिभङ्गलक्षणाः । तत्र अस्कन्धलक्षण आत्मा भवन् भवन्मतेन उत्पादस्थितिभङ्गलक्षणायुक्तः स्यात् । यश्चैवं भवति, सः अविद्यमानत्वादसंस्कृतत्वाद्वा खपुष्पवन्निर्वाणबद्वा नैव आत्मव्यपदेशं प्रतिलभते, नाप्यहंकारविषयत्वेन युज्यते, इति स्कन्धव्यतिरिक्तो ऽप्यात्मा न युज्यते ॥
अथवा । अयमन्यो ऽर्थः- यदि आत्मा स्कन्धव्यतिरिक्तः स्यात्, सः अस्कन्धलक्षण स्यात् । रूपणानुभवनिमित्तोद्गहणाभिसंस्करणविषयप्रतिविज्ञप्तिलक्षणाः पञ्च स्कन्धाः । आत्मा च रूपादिव विज्ञानं स्कन्धेभ्यो व्यतिरिक्त इष्यमाणः पृथग्लक्षणसिद्धः स्यात्, पृथग्लक्षणसिद्धश्च गृह्येत रूपादिव चित्तम्। न च गृह्यते । तस्मात् स्कन्धव्यतिरिक्तो ऽपि नास्ति ॥
ननु च तीर्थिकाः स्कन्धेभ्यो व्यतिरिक्तमात्मानं प्रतिपन्ना भिन्नलक्षणमाचक्षते, तस्मात्तेषामबाधक एवायं विधिरिति । यथा च तीर्थिका आत्मनो भिन्नलक्षणमाचक्षते तथोक्तं मध्यमकावतारे-
आत्मा तीर्थ्यैः कल्प्यते नित्यरूपो ऽकर्ता भोक्ता निर्गुणो निष्क्रियश्च ।
कंचित्कंचिद्वेदमाश्रित्य तस्य भेदं याता प्रक्रिया तीर्थिकानाम् ॥
इत्यनेन । उच्यते । सत्यं ब्रुवन्ति तीर्थिकाः स्कन्धव्यतिरिक्तस्य लक्षणम्, न पुनस्ते स्वरूपत आत्मानमुपलभ्य तस्य लक्षणमाचक्षते, किं तर्हि यथावदुपादायप्रज्ञप्त्यनवगमेन नाममात्रकमेवात्मानं त्रासादप्रतिपद्यमानाः संवृतिसत्यादपि परिभ्रष्टा मिथ्याकल्पनयैव केवलमनुमानाभासमात्रविप्रलब्धाः सन्तः मोहात् परिकल्पयन्ति आत्मानम्, तस्य च लक्षणमाचक्षते । तेषां च कर्मकारकपरीक्षादिषु आत्मोपादानयोः परस्परापेक्षिकीं सिद्धिं ब्रुवता संवृत्यापि प्रतिषेधो विहित एव । उक्तं च-
यथादर्शमुपादाय स्वमुखप्रतिबिम्बकम् ।
दृश्यते नाम तच्चैव न किंचिदपि तत्त्वतः ॥
अहंकारस्तथा स्कन्धानुपादायोपलभ्यते ।
न च कश्चित्स तत्त्वेन स्वमुखप्रतिबिम्बवत् ॥
यथादर्शमनादाय स्वमुखप्रतिबिम्बकम् ।
न दृश्यते तथा स्कन्धाननादायाहमित्यपि ॥
एवंविधार्थश्रवणाद्धर्मचक्षुरवाप्तवान् ।
आर्यानन्दः स्वयं चैव भिक्षुभ्यो ऽभीक्ष्णमुक्तवान् ॥ इति ॥
अतो न पुनस्तत्प्रतिपादनार्थं यत्न आरभ्यते । उपादाय प्रज्ञप्यमान एव अविद्याविपर्यासानुगतानामात्माभिनिवेशास्पदभूतो मुमुक्षुभिर्विचार्यते, यस्येदं स्कन्धपञ्चकमुपादानत्वेन प्रतिभासते किमसौ स्कन्धलक्षणः उत अस्कन्धलक्षणः इति । सर्वथा च विचारयन्तो मुमुक्षवो नैनमुपलभन्ते भावस्वभावतः । तदा एषाम्-
आत्मन्यसति चात्मीयं कुत एव भविष्यति ।
आत्मानुपलम्भादात्मप्रज्ञप्त्युपादानं स्कन्धपञ्चकमात्मीयमिति सुतरां नोपलभन्ते । यथैव हि दग्धे रथे तदङ्गान्यपि दग्धत्वान्नोपलभ्यन्ते, एवं योगिनो यदैव आत्मनैरात्म्यं प्रतिपद्यन्ते, तदैव आत्मीयस्कन्धवस्तुनैरात्म्यमपि नियतं प्रतिपद्यन्ते । यथोक्तं रत्नावल्याम्-
अहंकारोद्भवाः स्कन्धाः सो ऽहंकारो ऽनृतो ऽर्थतः ।
बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥
स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते ।
अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः ॥ इति ॥
यथैव हि ग्रीष्मे मध्याह्नकालावसानमासादितस्य विधननभोमध्यदेशमाचिक्रंसोरीषत्परिभ्रम्यमानपटुतरहुतभुग्विततस्फुलिङ्गानिव विरूक्षतरमहीमण्डलोत्तापनपरान् प्रदीप्तकिरणस्य किरणान् प्रतीत्य विरूक्षतरमवनिदेशं चासाद्य विपरीतं च दर्शनमपेक्ष्य सलिलाकारा मरीचय उपलभ्यमाना विदूरदेशावस्थितानां जन्मवतामतिप्रसन्नाभिनीलजलाकारं प्रत्ययमादधति ( प्प्_148 ) न तु तत्समीपगतानाम्, एवमिहापि यथावस्थितात्मात्मीयपदार्थतत्त्वदर्शनविदूरदेशान्तरस्थितानां संसाराध्वनि वर्तमानानामविद्याविपर्यासानुगमान्मृषार्थ एव स्कन्धसमारोपः सत्यतः प्रतिभासमानः पदार्थतत्त्वदर्शनसमीपस्थानां न प्रतिभासते । यथोक्तमाचार्यपादैः-
दूरादालोकितं रूपमासन्नैर्दृश्यते स्फुटम् ।
मरीचिर्यदि वारि स्यादासन्नैः किं न गृह्यते ॥
दूरीभूतैर्यथाभूतो लोको ऽयं दृश्यते यथा ।
न दृश्यते तदासन्नैरानिमित्तो मरीचिवत् ॥
मरीचिस्तोयसदृशी यथा नाम्भोन चार्थतः ।
स्कन्धास्तथात्मसदृशा नात्मानो नापि ते ऽर्थतः ॥ इति ॥
अत एव च आत्मात्मीयानुपलम्भात्परमार्थदर्शनसमीपस्थो योगी नियतं भवति-
निर्ममो निरहंकारः शमादात्मात्मनीनयोः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0