Prasannapada · अध्याय 46
तत्र आहितः उत्पादितः अहंमानो ऽस्मिन्नित्यात्मा । स्कन्धानुपादाय प्रज्ञप्यमानः पुद्गलआत्मेत्युच्यते । चिनोति उपचिनोति शुभमशुभं कर्म विपाकदानसामर्थ्ये नियमयतीति चेतः । चित्तं मनः विज्ञानमिति तस्यैव पर्यायाः । आत्मानं संयमयति विषयेष्वस्वतन्त्रयति रागादिक्लेशवशेन प्रवृत्तिं निवारयतीत्यात्मसंयमकम् । तदेतदात्मसंयमकं कुशलं चेतः प्राणातिपातादिषु प्रवृत्तिविधारकं दुर्गतिगमनाद्धारयतीति धर्म इत्युच्यते ॥
धर्मशब्दो ऽयं प्रवचने त्रिधा व्यवस्थापितः । स्वलक्षणधारणार्थेन कुगतिगमनविधारणार्थेन पाञ्चगतिकसंसारविधारणार्थेन । तत्र स्वलक्षणधारणार्थेन सर्वे सास्रवा अनास्रवाश्च धर्मा इत्युच्यन्ते । कुगतिगमनविधारणार्थेन दशकुशलादयो धर्मा इत्युच्यन्ते ।
धर्मचारी सुखं शेते अस्मिंल्लोके परत्र च ॥
पाञ्चगतिकसंसारगमनविधारणार्थेन निर्वाणे धर्म इत्युच्यते, धर्मं शरणं गच्छतीत्यत्र। इह तु कुगतिगमनविधारणार्थेनैव धर्मशब्दो ऽभिप्रेतः ॥
किं पुनरात्मसंयमकमेवैकं चेतः धर्म इति? नेत्याह । किं तर्हि परानुग्राहकं च मैत्रं च यच्चेतः, असावपि धर्मः । मैत्रमित्यत्र चशब्दो लुप्तनिर्दिष्टो वेदितव्यः । तत्र परमनुगृह्णातीति परानुग्राहकं चेतः, चतुःसंग्रहवस्तुप्रवृत्तं भयपरित्राणप्रवृत्तं च यच्चेतः, असावपि धर्मः । मित्रे भवमविरुद्धं सत्त्वेषु यच्चेतः, तन्मैत्रं चेतः । मैत्रं यच्चेतः, तन्मैत्रचेतः, मैत्रमेवं वा । यच्चैतत् त्रिविधं चेतो निर्दिष्टम्, स धर्म इत्युच्यते। विपर्ययादधर्मो योज्यः ॥
यच्चैतन्निर्दिष्टप्रभेदं चेतः, तद्बीजं फलस्य । असाधारणं फलाभिनिर्वृत्तौ यत्कारणम्, तदेव बीजमित्युच्यते । तद्यथा शाल्यङ्कुरस्य शालिबीजम् । यत्तु साधारणं क्षित्यादि न तद्बीजं कारणमेतत् । यथैतदेवम्, इहापि इष्टस्य विपाकस्याभिनिर्वृत्तौ त्रिविधं चेतो भवति बीजम् । पुरुषकारादयस्तु कारणमेव ॥
कस्मिन् पुनः काले बीजस्य फलनिष्पत्तिरित्याह- प्रेत्य चेह च । प्रेत्येति अदृष्टे जन्मनि, इहेति दृष्टे जन्मनीत्यर्थः । एतच्च आगमाद्विस्तरेण बोद्धव्यम्
एवं तावत् चित्तात्मकमेवैकं धर्मं व्यवस्थाप्य पुनरपि द्विविधं भगवता-
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
परमार्थदर्शनादृषिः । परमश्चासौ ऋषिश्चेति परमर्षिः सर्वाकारतया परमार्थगमनात् श्रावकप्रत्येकबुद्धभ्यो ऽपि उत्कृष्टत्वात् परमर्षिः संबुद्धो भगवान् । तेन परमर्षिणा चेतना कर्म, चेतयित्वा च कर्मेत्युक्तं सूत्रे ॥
यच्चैतद् द्विविधं कर्मोक्तम्-
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः
कथं कृत्वा?
तत्र यच्चेतनेत्युक्तं कर्म तन्मानसं स्मृतम् ।
चेतयित्वा च यत्तूक्तं तत्तु कायिकवाचिकम्
मनसि भवं मानसम् । मनोद्वारेणैव निष्ठागमनात् कायवाक्प्रवृत्तिनिरपेक्षत्वाच्च मनोविज्ञानसंप्रयुक्तैव चेतना मानसं कर्मेत्युच्यते । तत्रशब्दो निर्धारणे । यत्तु द्वितीयं चेतयित्वा च कर्मेत्युक्तम्, तत्पुनः कायिकं वाचिकं च वेदितव्यम् । एवं च एवं च कायवाग्भ्यां प्रवर्तिष्ये इत्येवं चेतसा संचिन्त्य यत् क्रियते, तच्चेतयित्वा कर्मेत्युच्यते । तत्पुनर्द्विविधम्, कायिकं वाचिकं च । कायवाचोर्भवत्वात् तद्द्वारेण च निष्ठागमनात् । एवं च त्रिविधम्- कायिकं वाचिकं मानसं च
एतदपि त्रिविधं कर्म पुनर्भिद्यमानं सप्तविधं संजायते, इत्येवं तस्य कर्मणो भगवता बहुप्रकारो भेदो ऽनुवर्णितः । कथं कृत्वा?
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस्तथा
परिभोगान्वयं पुण्यमपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः
तत्र व्यक्तवर्णोच्चारणं वाक् । विष्पन्दः शरीरंचेष्टा । तत्र कुशलाकुशला वा वाक् सर्वैव विरत्यविरतिलक्षणा विज्ञप्तिसमुत्थापिका सामान्येन वागिति गृह्यते । एवं कुशलो ऽकुशलो वा विरत्यविरतिलक्षणो विज्ञप्तिसमुत्थापको विष्पन्दः सामान्येन गृह्यते ॥ यथा चैतद्विज्ञप्तेर्द्विधा भेदः, ( प्प्_134 ) एवमविज्ञप्तेरपि । अविरतिलक्षणा अविज्ञप्तयः विरतिलक्षणाश्चेति कृत्वा । तत्र अविरतिलक्षणा अविज्ञप्तयः तद्यथा अद्यप्रभृति मया प्राणिनं हत्वा चौर्यं कृत्वा जीविका परिकल्पयितव्येति पापकर्माभ्युपगमात्प्रभृति तदकारिणो ऽपि अकुशलकर्माभ्युपगमहेतुकाः सततसमितमविज्ञप्तयः समुपजायन्ते । कैवर्तादीनांच जालादिपरिकर्मकालात्प्रभृति तदकारिणामपि या अविज्ञप्तय उपजायन्ते, ता एता अविरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । यथा चैतास्तथा अन्याः विरतिलक्षणाः कुशलस्वभावा अविज्ञप्तयः । तद्यथा- अद्यप्रभृति प्राणातिपातादिभ्यः प्रतिविरमामीति कायवाग्विज्ञप्तिपरिसमाप्तिकालक्षणात्प्रभृति तदुत्तरकालं प्रमत्ताद्यवस्थस्यापि याः कुशलोपचयस्वभावा अविज्ञप्तय उपजायन्ते, ता एता विरतिलक्षणा अविज्ञप्तय इत्युच्यन्ते । एता रूपक्रियास्वभावा अपि सत्यो विज्ञप्तिवत् परान्न विज्ञापयन्तीत्यविज्ञप्तयः ॥
तथा परिभोगान्वयं पुण्यम्, कुशलमित्यर्थः । परिभोगेन अन्वयः अस्येति परिभोगान्वयम् । परिभोगः परित्यक्तस्य वस्तुनः संघादिभिरुपभोगः । अन्वयः अनुगमः । दायकसंतानजः कुशलोपचय इत्यर्थः ॥
अपुण्यं च तथाविधम्, परिभोगान्वयमित्यर्थः । तद्यथा देवकुलादिप्रतिष्ठापनम्, यत्र सत्त्वा हन्यन्ते । यथा यथा हि तत्कीर्तौ प्राणिनो हन्यन्ते, तथा तथा तद्देवकुलाद्युपभोगात् तत्कर्तृणां संताने परिभोगान्वयमपुण्यमपि जायते, इत्येवमपुण्यं च तथाविधं भवति ॥
चित्ताभिसंस्कारमनस्कर्मलक्षणा चेतना चेति ॥
संक्षेपेण एतत्सप्तविधं कर्म भवति- कुशलाकुशला वाक्, कुशलाकुशलो विष्पन्दः, कुशलमविज्ञप्तिलक्षणम्, अकुशलमविज्ञप्तिलक्षणम्, परिभोगान्वयं पुण्यम्, परिभोगान्वयमपुण्यम्, चेतना चेति ॥
एते च सप्त धर्माः कर्माञ्जनाः कर्मत्वेनाभिव्यक्ताः कर्मलक्षणाः स्मृताः
अत्रैके परिचोदयन्ति- यदेतत् कर्म बहुविधमुक्तम्, तत् किमा विपाककालादवतिष्ठते, अथ न तिष्ठति उत्पत्त्यनन्तरविनाशित्वात्? यदि तावत्-
तिष्ठत्या पाककालाच्चेत्कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरुद्धं सत्किं फलं जनयिष्यति
यदि उत्पन्नं सत् कर्म आविपाककालं स्वरूपेणावतिष्ठते इति परिकल्प्यते, तद् इयन्तं कालमस्य नित्यता आपद्यते विनाशरहितत्वात् । पश्चाद्विनाशसद्भावान्न नित्यत्वमिति चेत्, नैतदेवम्, पूर्वं विनाशरहितस्य आकाशादिवत् पश्चादपि विनाशेन संबन्धाभावात् । विनाशरहितस्य च असंस्कृतत्वप्रसङ्गात्, असंस्कृतानां च विपाकादर्शनात्, अविपाकत्वेन सदैवावस्थानात् नित्यताभ्युपगम एव कर्मणामुपपद्यते । इत्येवं तावन्नित्यत्वे दोषः । अथ उत्पादानन्तरविनाशित्वमेव कर्मणामभ्युपेतम्, ननु एवं सति-
निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ।
अभावीभूतं सत् कर्म अविद्यमानस्वभावत्वान्नैव फलं जनयिष्यतीत्यभिप्रायः
तत्रैके निकायान्तरीयाः परिहारं वर्णयन्ति- उत्पत्त्यनन्तरविनाशित्वात्संस्काराणाम्, अनित्यत्वदोषस्तावदस्माकं नोपपद्यते । यच्चाप्युक्तम्-
निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ।
इति, अत्रापि परिहारं ब्रूमः-
यो ऽङ्कुरप्रभृतिर्बीजात्संतानो ऽभिप्रवर्तते ।
ततः फलमृते बीजात्स च नाभिप्रवर्तते
इह बीजं क्षणिकमपि सत् स्वजातीयभाविफलविशेषनिष्पत्तिसामर्थ्यविशेषयुक्तस्यैव संतानस्य अङ्कुरकाण्डनालपत्राद्यभिधानस्य हेतुभावमप्युपगम्य निरुध्यते । यश्चायमङ्कुरप्रभृतिर्बीजात्संतानः प्रवर्तते, तस्मात् क्रमेण सहकारिकारणवैकल्ये सति स्वल्पादपि हेतोर्विपुलफलप्रचय उपजायते । ऋते बीजात् विना बीजात् स च अङ्कुरादिसंतानः नाभिप्रवर्तते । तदेवं तद्भावे भावित्वेन तदभावे च अभावित्वेन बीजहेतुकत्वमङ्कुरादिसंतानस्य फलस्योपदर्शितं भवति
तदेवम्-
बीजाच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
बीजपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्
यदि इह बीजमप्रसूय अङ्कुरादिसंतानं ज्वालाङ्गारादिविरोधिप्रत्ययसांनिध्यान्निरुध्येत, तदा तत्र कार्यसंतानप्रवृत्त्यदर्शनात् स्यादुच्छेददर्शनम् । यदि च बीजं न निरुध्येत, अङ्कुरादिसंतानश्च प्रवर्तेत, तदा बीजस्यानिरोधाभ्युपगमाच्छाश्वतदर्शनं स्यात्, न चैतदेवम्, इत्यतो नास्ति बीजस्य शाश्वतोच्छेददर्शनप्रसङ्गः
यथा च बीजे अयं क्रमो ऽनुवर्णितः, एवम्-
यस्तस्माच्चित्तसंतानश्चेतसो ऽभिप्रवर्तते ।
ततः फलमृते चित्तात्स च नाभिप्रवर्तते
तस्मात् कुशलाकुशलचेतनाविशेषसंप्रयुक्ताच्चित्ताद् यः चित्तसंतानस्तद्धेतुकः प्रवर्तते, तस्मात् कुशलाकुशलचेतनापरिभाविताच्चित्तसंतानात् सहकारिकारणसंनिधानावैकल्ये सति इष्टमनिष्टं फलमुपजायते सुगतिदुर्गतिषु । ऋते तु तच्चितात् चित्तमन्तरेण स च नाभिप्रवर्तते
तदेवम्-
चित्ताच्च यस्मात्संतानः संतानाच्च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान्नोच्छिन्नं नापि शाश्वतम्
यदि अर्हच्चरमचित्तमिव तद्धेतुफलपारंपर्याविच्छिन्नक्रमवर्तिनो भाविनश्चित्तसंतानस्य हेतुभावमनुपगम्य कुशलं चित्तं निरुध्येत, तदा उच्छिन्नं तत्कर्म स्यात् । अथापि अनागतसंतानस्य हेतुभावमुपगम्य स्वरूपादप्रच्युतं स्यात्, स्यात्तदानीं कर्म शाश्वतम् । न चैतदेवमिति । तस्मात् क्षणिककर्माभ्युपगमे ऽपि नास्ति उच्छेदशाश्वतदर्शनद्वयप्रसङ्ग इति
तदत्र यथोदितकर्मप्रभेदव्याख्याने दश कुशलाः कर्मपथा व्याख्याताः । ते च-
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च
त एते दश कुशलाः कर्मपथा धर्मस्य साधनोपाया निष्पत्तिहेतुभूता इत्यर्थः ॥
कः पुनरसौ कुशलकर्मपथव्यतिरिक्तो धर्मो नाम, यस्यैते साधनोपायत्वेन व्यवस्थाप्यन्ते? उच्यते । चित्तविशेष एव कश्चित् धर्मशब्देनोक्तः ॥
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मः
इत्यनेन । अथवा । परिनिष्ठितरूपा एते दश कुशलाः कर्मपथा धर्मशब्दवाच्या भवन्ति, क्रियमाणरूपास्तु कुशलकर्मपथवाच्या भवन्ति । तदस्य उक्तलक्षणस्य एते दश कुशलाः कर्मपथा निष्पत्तौ हेतुत्वेन व्यवस्थाप्यन्ते । कथं पुनरत्र प्रक्रान्ते कर्मविभागे दश कुशलाः कर्मपथा इति? उच्यते-
वाग्विष्पन्दो ऽविरतयो याश्चाविज्ञप्तिसंज्ञिताः ।
इत्यादिना कायिकास्रयः कर्मपथाः वाचिकाश्चत्वारो व्याख्याताः। चेतना चेत्यनेन अभिध्याव्यापादसम्यग्दृष्टयाख्यास्रयो मानसा व्याख्याताः । इत्येवं दशापि कुशलाः कर्मपथा अत्र व्याख्याताः । ते च यथोदितस्य धर्मस्य निष्पत्तिहेतवो भवन्ति । अस्य च धर्मस्य रूपशब्दगन्धरसस्प्रष्टव्यलक्षणाः पञ्च कामगुणाः । प्रेत्य च अदृष्टे परलोके इत्यर्थः, इह चेति इहलोके इत्यर्थः, फलमुपभुज्यते इति
एवं तावदैकनिकायिकैराक्षेपपरिहारे वर्णिते सति, तान् प्रति अपरे दोषमुद्भाव्य अन्याक्षेपपरिहारं वर्णयन्तः आहुः-
बहवश्च महान्तश्च दोषाः स्युरपि कल्पना ।
यद्येषा तेन नैवैषा कल्पनात्रोपपद्यते
यदि बीजाङ्कुरसाधर्म्येण चित्तसंताने शाश्वतोच्छेददर्शनद्वयदोषप्रसङ्गपरिहारः स्यात्, तदा बहवश्च दोषाः संख्याबहुत्वेन महान्तश्च दृष्टादृष्टविरोधेन परपक्षे प्राप्रुवन्ति । कथं कृत्वा? यदि हि बीजसंतानदृष्टान्तेन शालिबीजात् शाल्यङ्कुरादिसंतान एव प्रवर्तते, न विजातीयः, शाल्यङ्कुरादिसंतानाच्च शालिफलमेव उपजायते, न बिल्वफलम्, भिन्नजातीयत्वात्, एवमिहापि कुशलचित्तात् कुशलचित्तसंतान एव स्यात्, समानजातीयत्वात्, न अकुशलाव्याकृतचित्तसंतानः, विजातीयत्वात् । एवमकुशलाव्याकृतचित्तादकुशलाव्याकृतचित्तसंतान एव स्यान्नान्यः, भिन्नजातीयत्वात् । कामरूपारूप्यावचरानास्रवचित्तेभ्यः सदृशानामेव चित्तानां कामरूपारूप्यावचरानास्रवाणामुत्पादः ( प्प्_137 ) स्यात्, न भिन्नजातीयानाम् । मनुष्यचित्तान्मनुष्यचित्तमेव स्यान्न देवनारकतिर्यगाद्यन्यचित्तम् । ततश्च यो देवः स देव एव स्यात्, यो मनुष्यः स मनुष्य एव स्यादित्यादि । ततश्च अकुशलमपि कुर्वतां देवमनुष्याणां गतियोनिवर्णबुद्धीन्द्रियबलरूपभोगादि वैचित्र्यं न स्यादपायपतनं च । इष्यते चैतत्सर्वमिति । एवं बहवश्च महान्तश्च दोषा यस्माद्बीजसंतानसाधर्म्यकल्पनायां प्रसज्यन्ते, तस्मान्नैषा कल्पना अत्रोपपद्यते
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्चानुवर्णिताम्
का चासौ कल्पनेत्याह-
पत्रं यथाविप्रणाशस्तथर्णमिव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश्च सः
इह कुशलं कर्म कृतं सत् उत्पादानन्तरमेव निरुध्यते, न च तस्मिन्निरुद्धे फलाभावप्रसङ्गः । यस्माद् यदैव तत्कर्म उत्पद्यते, तदा एतस्य कर्मणो ऽविप्रणाशो नाम विप्रयुक्तो धर्मः कर्तुः संताने समुपजायते ऋणपत्रस्थानीयः । तदेवं पत्रं यथा अविप्रणाशः तथा वेदितव्यः । यस्य च असौ अविप्रणाशाख्यो धर्म उत्पद्यते, ऋणमिव तत्कर्म वेदितव्यम् । यथा च ऋणपत्रावस्थानात् प्रयुक्ते ऽपि धने धनिनो न धननाशो भवति, संबध्यत एव स कालान्तरेण पञ्चमेन धनस्कन्धेन, तथा विनष्टे ऽपि कर्मणि अविप्रणाशाख्यधर्मान्तरावस्थानात् तन्निमित्तकेन फलेन अभिसंबध्यत एव कर्ता । यथा च ऋणपत्रं दातुर्धनाभ्यागमं कृत्वा निर्मुक्तं सत् पुनरपि विद्यमानं वा अविद्यमानं वा न धनाभ्यागमे समर्थम्, एवमविप्रणाशो ऽपि दत्तविपाकः सन् विद्यमानो वा अविद्यमानो वा न शक्नोति निर्मुक्तपत्रवत् कर्तुः पुनरपि विपाकसंबन्धं कर्तुम् ॥
यश्चायमविप्रणाशो ऽस्माभिरुक्तः सूत्रान्तरोक्तः, चतुर्विधो धातुतः स कामरूपारूप्यावचरानास्रवभेदात्, प्रकृत्या अव्याकृतश्च सः । कुशलाकुशलत्वेन अव्याकरणादव्याकृत एवाविप्रणाशः । यदि असौ अकुशलानां कर्मणामकुशलः स्यात्, तदा कामं वीतरागाणां न स्यात् । यदि च कुशलानाम्, कुशलः स्यात्, समुच्छिन्नकुशलमूलानां स न स्यात् । तस्मात् प्रकृत्यव्याकृत एवासौ
किं च ।
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
स चायमविप्रणाशः प्रहाणतो न प्रहेयः । पार्थग्जनिकानि कर्माणि दर्शनमार्गेणैव प्रहीयन्ते मा भूदार्यः पृथग्जनकर्मसमन्वागत इति । अविप्रणाशस्तु तत्कर्मप्रहाणे ऽपि दर्शनमार्गेण न प्रहीयते, किं तु भावनामार्गेण वा तस्या प्रहाणं भवति । धातुसमतिक्रमणप्रहेय एवेति वाशब्दो विकल्पार्थः ॥
यतश्चैवमविप्रणाशः कर्मविनाशे ऽपि न नश्यति, कर्मप्रहाणे ऽपि न प्रहीयते,
तस्मादविप्रणाशेन जायते कर्मणां फलम्
यदि पुनरपि अस्य अविप्रणाशस्य कर्मणः प्रहाणेन प्रहाणात्प्रहाणतः प्रहाणं स्यात् कर्मणश्च संक्रमेण कर्मणो विनाशेन कर्मान्तरसंमुखीभावेन विनाशः स्यात्, को दोषः स्यादिति? उच्यते-
प्रहाणतः प्रहेयः स्यात्कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस्तत्र कर्मवधादयः
यदि दर्शनमार्गेण पार्थग्जनिककर्मवदविप्रणाशः प्रहीयेत, तदा कर्मणो विनाश एव स्यात् । कर्मविनाशाच्च आर्याणामिष्टानिष्टकर्मफलविपाकः पूर्वकर्मफलहेतुको न स्यात् । अकृतस्यैव कर्मणः फलोदयः स्यात् । कर्मफलाभावदर्शनाच्च मिथ्यादर्शनं स्यादिति । एवं कर्मवधादयो दोषाः प्रसज्यन्ते प्रहाणतः प्रहेयत्वाभ्युपगमे सति अविप्रणाशस्य । एवं कर्मणः संक्रमे ऽपि योज्यम्
सर्वेषां विषभागानां सभागानां च कर्मणाम् ।
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः
भिन्नजातीयानि कर्माणि विषभागानि । सदृशानि सभागानि । तेषां सर्वेषामेव सभागानां च विषभागानां च कर्मणां कामरूपारूप्यधातुप्रतिसंधिषु सर्वकर्मापमर्दनः एक एव अविप्रणाश उत्पद्यते । स चापि सधातूनां समानधातुकानामेव उत्पद्यते न विषभागधातुकानाम्
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्के ऽपि च तिष्ठति
स चायमविप्रणाशाख्यो धर्मः सर्वस्यैव कर्मणः चेतनाचेतयित्वास्वभावस्य सास्रवानास्रवभेदेन वा द्विप्रकारभिन्नस्य दृष्टे धर्मे इहैव जन्मनि कर्मणः कर्मणः एकैको ऽविप्रणाश उत्पद्यते । स चायमविप्रणाशो विपक्के ऽपि विपाके नावश्यं निरुध्यते, निर्भुक्तपत्रवच्च विद्यमानो ऽपि सन् न शक्नोति पुनरपि विपक्तुम्
फलव्यतिक्रमाद्वा स मरणाद्वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत्
तत्र फलव्यतिक्रमान्निरुध्यते । यथोक्तम्- भावनाहेय एवेति । मरणान्निरुध्यते । यथोक्तम्-
प्रतिसंधौ सधातूनामेक उत्पद्यते तु सः । इति ।
स चायं सास्रवाणां सास्रवः, अनास्रवाणामनास्रवः इत्येवं विभागं लक्षयेत्
तदेवम्-
शून्यता च न चोच्छेदः संसारश्च न शाश्वतम् ।
कर्मणो ऽविप्रणाशश्च धर्मो बुद्धेन देशितः
यस्मात् कर्म कृतं सत् निरुध्यते, न स्वभावेनावतिष्ठते, तस्मात् कर्मणः स्वभावेनावस्थानात् शून्यता चोपपद्यते । न चैवं कर्मणो ऽनवस्थानादुच्छेददर्शनप्रसङ्गः, अविप्रणाशपरिग्रहेण कर्मविपाकसद्भावात् । विपाकाभावे हि कर्मणः उच्छेददर्शनं स्यात् । अविप्रणाशधर्मसद्भावात् ( प्प्_139 ) बीजसंतानसाधर्म्यपरिकल्पनाभावाच्च नानागतिजातियोनिधातुभेदभिन्नश्च पाञ्चगतिकः संसारो विचित्रः सिद्धो भवति । न च शाश्वतवादप्रसङ्गः, कर्मणः स्वरूपेणावस्थानानभ्युपगमात् । कर्मणां च अविप्रणाशः, अविप्रणाशसद्भावात्, इति । एवं निरवशेषाविद्यानिद्रापगमाद्विबुद्धेन भगवता यस्मादयं धर्मो देशितः, तस्माद् यत्पूर्वंमुक्तं परेण-
तिष्ठत्या पाककालाच्चेत् कर्म तन्नित्यतामियात् ।
निरुद्धं चेन्निरुद्धं सत् किं फलं जनयिष्यति ॥ इति,
तदस्मत्पक्षे नोपपद्यते इति । तस्मादस्माभिरुपवर्णितकल्पनैव न्याय्या इति
अत्रोच्यते- किमिह भवन्तो गन्धर्वनगरप्राकारपतनातिशङ्कितया अतीवोद्विग्नाः तत्परिरक्षापरिश्रमायासमापन्नाः, ये नाम यूयं कर्मण्यनुपपद्यमाने तत्फलनिमित्तं विप्रवदध्वम्? यदि हि कर्मणः स्वरूपेणैवोत्पादः स्यात्, तस्य आविपाकमवस्थानान्नित्यत्वं स्यात्, विनाशादुच्छेदः स्यात् । यदा तु कर्म नैवोत्पद्यते स्वभावशून्यत्वात्, तदा तस्य कुतो ऽवस्थानं विनाशो वा, यत एषा चिन्ता स्यात्? अत्राह-
कर्म नोत्पद्यते कस्मात्
आचार्य आह-
निःस्वभावं यतस्ततः ।
यस्मान्निःस्वभावं कर्म तस्मान्नोत्पद्यते । यदि खल्वेवं निःस्वभावत्वात्कर्म नोत्पद्यते, तत् कथमेवमुक्तं भगवता-
न प्रणश्यन्यि कर्माणि कल्पकोटिशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ इति?
उच्यते-
यस्माच्च तदनुत्पन्नं न तस्माद्विप्रणश्यति
इत्येवं भगवतो ऽभिप्राय इति । अतो नायमस्माकं बाधको विधिरिति ।21 ॥
अवश्यं चैतदेवं विज्ञेयम्- निःस्वभावं कर्मेति । अन्यथा हि-
कर्म स्वभावतश्चेत्स्याच्छाश्वतं स्यादसंशयम् ।
अकृतं च भवेत्कर्म क्रियते न हि शाश्वतम्
यदि हि कर्म स्वभावतः स्यात्, मुक्तसंशयं तच्छाश्वतं स्यात्, स्वभावस्यान्यथाभावाभावात् । ततश्च अकृतमेव कर्म भवेत् । कर्तुः स्वतन्त्रस्य क्रियया यदीप्सिततमं तत्कर्म । एतच्च न युज्यते । किं कारणम्? यस्मात् क्रियते न हि शाश्वतम् । शाश्वतं हि नाम तद् यद्विद्यमानसत्ताकम् । यच्च विद्यमानं तस्य करणानुपपत्तेः तन्नैव कारणमपेक्षत इति
शुभाशुभे कर्मणि अकृत एव सकलस्य लोकस्य विपाको यस्मात्, ततश्च-
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
अब्रह्मचर्यवासश्च दोषस्तत्र प्रसज्यते
यदि हि अकृतं कर्म भवेत्, तदा अकृताभ्यागमभयं स्यात् । येनापि हि प्राणातिपातादिकं न कृतम्, तस्यापि अकृतमपि सत् तत् कर्म अस्त्येवेति तेनाप्यस्य संबन्धादकृताभ्यागमभयं स्यात् । अब्रह्मचर्यवासश्च तत्र पक्षे प्राप्नोति । किं कारणम्? परिशुद्धब्रह्मचर्यवासान्न कस्यचिन्निर्वाणेन भवितव्यं स्यात्
किं चातः?
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर्नैव प्रविभागश्च युज्यते
ये हि एते कृषिवाणिज्यगोरक्षादयः क्रियारम्भाः फलार्थमारभ्यन्ते, तेषां सर्वेषामकृतानामेव विद्यमानत्वात् प्रारम्भवैयर्थ्यं स्यात् । घटं कुरु, पटं कुरु, इत्येवमादयश्च सर्व एव लौकिकव्यवहारा विरुध्यन्ते, घटादीनां सर्वेषामेव विद्यमानत्वात् । पुण्यकृदयम्, पापकृदयम्, इति च प्रविभागो न प्राप्नोति, उभयोरपि पुण्यपापकृतोः अकृतयोरपि पुण्यपापयोः प्रत्येकं विद्यमानत्वात्
किं च-
तद्विपक्वविपाकं च पुनरेव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात्तस्मात्स्वाभाविकं यदि
विपक्वविपाकस्यापि कर्मणः पुनर्विपाकदानमापद्यते स्वरूपादप्रच्युतत्वात्, अविपक्वविपाकावस्थायामिव । तदेवं यदि कर्म स्वाभाविकमिति मन्यसे, यस्मात् तत्कर्म व्यवस्थितमस्ति तस्मान्निःसंशयं यथोपवर्णिता दोषाः प्राप्नुवन्ति सस्वभावत्वे । तस्मान्निःस्वभावं कर्म, यतश्च निःस्वभावं कर्म, तस्माच्छाश्वतोच्छेददर्शनप्रसङ्गो नैवास्माकमेवं व्याचक्षमाणानामापद्यते इति
अत्राह- विद्यत एव स्वभावतः कर्म, तत्कारणसद्भावात् । इह यन्नास्ति, न तस्य कारणमस्ति [कूर्म] रोमकूपप्रावारस्येव । अस्ति च कर्मणः कारणं क्लेशाः । अविद्याप्रत्ययाः संस्काराः, ..... उपादानप्रत्ययो भवः, इति वचनात् । तस्माद्विद्यत एव कर्म स्वभावतः इति । उच्यते । अयुक्तमेव । किं कारणम्? यस्मात्-
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत्ते तत्त्वतः क्लेशाः कर्म स्यात्तत्त्वतः कथम्
इहेदं कर्म क्लेशात्मकं क्लेशहेतुकम् । ते च क्लेशास्तत्त्वतो न सन्ति । वक्ष्यति हि-
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये ।
ते स्वभावान्न विद्यन्ते तस्मात्क्लेशा न तत्त्वतः ॥ इति ।
तदेवं तावत् न तत्त्वतः क्लेशाः, तद्धेतुकं कर्म तदानीं कुतस्तत्त्वतो भविष्यति? तस्मान्नास्ति कर्म स्वभावतः
अत्राह- विद्यन्त एव क्लेशा कर्माणि च, तत्कार्यसद्भावात् । इह हि क्लेशकर्मणां देहाख्यं कार्यमुपलभ्यते । यस्य च कार्यमुपलभ्यते तदस्ति, अविद्यमानस्य खपुष्पादेः कार्यादर्शनात् इति । उच्यते । स्युः क्लेशाः कर्माणि च, यदि तत्कार्यं देहा विद्येरन् । न तु विद्यन्ते इत्याह-
कर्म क्लेशाश्च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश्च ते शून्या यदि देहेषु का कथा
यथा कर्म क्लेशाश्च शून्याः, तथा प्रतिपादितम् । ततश्च कर्म क्लेशा यदा न सन्ति, तदा तत्कार्याणां देहानामसत्त्वे का कथा भविष्यति? नास्तित्वं तेषां पूर्वमेव सिद्धं यस्मात्, तस्मान्नान्न कश्चिद्वक्तव्यविशेषो ऽस्तीत्यभिप्रायः
अत्राह- विद्यत एव स्वभावतः कर्म, तत्फलभोक्तृसद्भावात् । यन्नास्ति, न तस्य फलोपभोक्तास्ति, तद्यथा गगनचूतफलस्येति । अस्ति च कर्मणः फलोपभोक्ता-
अविद्यानिवृतो जन्तुस्तृष्णासंयोजनश्च सः ।
स भोक्ता स च न कर्तुरन्यो न च स एव सः
तत्र अविद्या अज्ञानं तमः संमोह इति पर्यायाः । अविद्यया निवृतश्छादितः । पाञ्चगतिकसंसारे पुनः पुनर्जायत इति जन्तुः । सत्त्वः पुद्गलः प्राणीति तस्यैव पर्यायाः । तृष्णा रागः सक्तिर्विसक्तिश्चेति पर्यायाः । संयोजनं बन्धनम् । तृष्णा संयोजनमस्येति तृष्णासंयोजनः तृष्णाबन्धन इत्यर्थः । यथोक्तं सूत्रे- अविद्यानिवृताः सत्त्वास्तृष्णासंयोजनाः इति । अथ च पुनरिदं पापं कर्म स्वयमेव कृतम्, अस्य स्वयमेव विपाकः प्रत्यनुभवितव्यः इति वचनात् । स च भोक्ता कर्मफलस्य । स च न कर्तुरन्यः, न च स एव सः । तत्त्वान्यत्वावाच्यत्वात् । तस्मात् फलोपभोक्तृसद्भावादस्त्येव कर्मेति
अत्रोच्यते- स्यात्कर्मणः कर्ता कर्मफलस्य चोपभोक्ता यदि कर्मैव स्यात् । न त्वस्ति । कथं कृत्वा?
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्मादिदं कर्म तस्मात्कर्तापि नास्त्यतः
कर्म चेन्नास्ति कर्ता च कुतः स्यात्कर्मजं फलम् ।
असत्यथ फले भोक्ता कुत एव भविष्यति
यदि कर्म नाम किंचित्स्यात्, तत् प्रत्ययसमुत्पन्नं वा भवेत्, अप्रत्ययसमुत्पन्नं वा? यदि तावत् प्रत्ययसमुत्पन्नमिष्यते, तन्न युक्तम्, प्रत्ययपरीक्षायामुक्तदोषत्वात् । अथ अप्रत्ययजनितं निर्हेतुकम्, तदपि- हेतावसति कार्यं च कारणं च इत्यादिना कर्मकारकपरीक्षायां विस्तरेण प्रतिपादितम् । यतश्चैवं प्रत्ययसमुत्पन्नं वा अप्रत्ययसमुत्पन्नं वा कर्मेदं न संभवति, तस्मादस्य कर्मणः कर्तापि न संभवति । यदा चैवं कर्म च कर्ता च नास्ति, तदा निर्हेतुकं कर्मजं फलं कुतो भविष्यतीति, असति च फले कुत एव फलभोक्ता भविष्यतीति, सर्वमेतत् स्वभावतो ऽसंविद्यमानमेवेति विज्ञेयम् ॥
अत्राह- यदि एवं नैःस्वाभाव्यं भावानां व्यवस्थापितं भवति, यत्तर्हि एतदुक्तं भगवता- स्वयं कृतस्य कर्मणः स्वयमेव विपाकः प्रत्यनुभवितव्यः इति, तदेतत् सर्वममुना न्यायेन अपाकृतं भवति । कर्मफलापवादाच्च प्रधाननास्तिको भवानिति । उच्यते । न वयं नास्तिकाः । अस्तित्वनास्तित्वद्वयवादनिरासेन तु वयं निर्वाणपुरगामिनमद्वयपथं विद्योतयामः । न च कर्मकर्तृफलादिकं नास्तीति ब्रूम, किं तर्हि निःस्वभावमेतदिति व्यवस्थापयामः । अथ मन्यसे- निःस्वभावानां भावानां व्यापारकरणानुपपत्तेः तदवस्थ एव दोष इति, एतदपि नास्ति । सस्वभावानामेव व्यापारादर्शनात् । निःस्वभावानामेव व्यापारदर्शनात् । तथाहि निःस्वभावा एव सन्तो घटादयः लोके स्वकार्यकृत् उपलभ्यन्ते
अपि च । अमुष्माद् दृष्टान्तात् स्पष्टतरादयमर्थो ऽवसीयताम्-
यथा निर्मितकं शास्ता निर्मिमीतर्द्धिसंपदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः
तद्यथा- एकं निर्मितकं शास्ता बुद्धो भगवान् ऋद्धिसंपदा ऋद्धिप्रभावेण निर्मिमीत, स चापि निर्मितकः पुनः यो ऽयं बुद्धेन भगवता निर्मितः, स पुनर्भूयो ऽन्यमपरं निर्मितकं निर्मिमीत । तत्र य एष निर्मितकः अपरस्य निर्मितकस्य निर्माता, स शून्यः निःस्वभावः, तथागतस्वभावरहित इत्यर्थः । यश्चायमपरो निर्मितकः, योनिर्मितकेन निर्मितः, असावपि शून्यो निस्वभावः, तथागतस्वभावरहित इत्यर्थः । यथात्र निःस्वभावानां निस्वभावकार्यकृत्त्वं कर्मकर्तृव्यपदेशश्च भवति,
तथा निर्मितकाकारः कर्ता कर्म च तत्कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस्तथा
यो ह्यत्र कर्मणः कर्ता स निर्मितकाकारः स्वभावशून्यः । तेन च स्वभावशून्येन स्वतन्त्रकर्त्रा यत् किंचित् कर्म क्रियते, तदपि स्वभावशून्यम् । तद्यथा निर्मितकेन अन्यो निर्मितको निर्मितः तथा वेदितव्यम् । यथोक्तमागमे-
एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः ।
एकस्य तूष्णींभूतस्य सर्वे तूष्णींभवन्ति हि ॥
तस्मादद्वयवादिनां माध्यमिकानां कुतो मिथ्यादर्शनम्? उक्तं च आर्यसमाधिराजे-
यद सुगतु कथां कथेति नाथो वीथिगतान् मनुजान् कृपायमानः ।
निर्मित जिनु तत्र निर्मिनित्व विचरति तेषु प्रणीतबुद्धधर्मान् ॥
प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधयिंसु वराग्रबुद्धज्ञाने ।
कद वय लभि ज्ञानमेवरूपं आशय ज्ञात्व जिनो ऽस्य व्याकरोति ॥
रश्मि शतसहस्र अप्रमेयान् अवसिरि पादतलेहि धर्मराजा ।
सर्वि निरय शीतला भवन्ति दुखमपनीय सुखं च वेदयन्ति ॥
धर्म दशबलप्रभाषिते ऽत्र मरुमनुजान विशुद्ध भोति चक्षुः ।
इत्यादि ।
केचि स्पृह जनेन्ति तत्र काले परम अचिन्त्य तेहि लब्धलाभा ।
येहि जिनु निमन्त्रितो नरेन्द्रो न च परियन्त तेषु दक्षिणाया ॥
इत्यादि विस्तरः ॥
तथा आर्यविमलकीर्तिनिर्देशे-
तन्निर्मितबोधिसत्त्वेन गन्धसुगन्धायां लोकधातौ समन्तभद्रतथागतोपभुक्तशेषं भोजनमानीतं नानाव्यञ्जनखाद्यादिसंप्रयुक्तं पृथक्पृथग्विविधरसमेकभोजनेन सर्वं तच्छ्रावकबोधिसत्त्वसंघराजराजामात्यपुरोहितान्तः पुरदौवारिकसार्थवाहादिजनपदं संतर्प्य प्रीत्याकारं नाम महासमाधिं लम्भयामास । इति ॥
विनये च पठयते-
पापभिक्षुरप्रतिरूपको भगवता भिक्षुरभिनिर्मितः । तद्वचनेन शीलवतो ऽपि विशुद्धिप्रतिज्ञासंवासः प्रज्ञप्तः इति
न च केवलं निर्माणदृष्टान्तेन नैःस्वभाव्यदर्शनमुपपद्यमानरूपम्, अपि च अमीभ्यो दृष्टान्तेभ्यः स्फुटं नैःस्वभाव्यं भावानां प्रतीयतामिति प्रतिपादयन्नाह-
क्लेशाः कर्माणि देहाश्च कर्तारश्च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0