भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 45

45.1

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ बन्धमोक्षपरीक्षा नाम षोडशमं प्रकरणम् ॥
17
कर्मफलपरीक्षा सप्तदशमं प्रकरणम् ।
अत्राह- विद्यत एव संसारः, कर्मफलसंबन्धाश्रयत्वात् । यदि इह संतानाविच्छेदक्रमेण जन्ममरणपरंपरया हेतुफलभावप्रवृत्त्या संस्काराणामात्मनो वा संसरणं स्यात्, स्यात्तदानीं कर्मफलसंबन्धः । यथावर्णिते संसाराभावे तु उत्पत्त्यनन्तरविनाशित्वाच्चित्तस्य कर्माक्षेपकाले च विपाकस्यासद्भावात् कर्मफलसंबन्धाभाव एव स्यात् । संसारसद्भावे तु सति इह कृतस्य कर्मणे जन्मान्तरे ऽपि विपाकफलसंबन्धात् कर्मणां फलसंबन्धो न विरोधितो भवति । तस्माद्विद्यत एव संसारः कर्मफलसंबन्धाश्रयत्वादिति । कानि पुनस्तानि कर्माणि किं वा तत्फलमिति तत्प्रभेद विवक्षयेदमुच्यते-
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धर्मस्तद्बीजं फलस्य प्रेत्य चेह च

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc