भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 36

36.2

यदेतदुक्तं भगवता, तन्न भावानामभावपरिदीपकम् किं तर्हि शून्यतापरिदीपकम् स्वभावानुत्पादपरिदीपकमित्यर्थः । यथोक्तमनवतप्तह्रदापसंक्रमणसूत्रे-
यः प्रत्ययैर्जायति स ह्यजातो नो तस्य उत्पादु सभावतो ऽस्ति ।
यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ॥
इति

36.3

अत्राह- नायमागमो भावस्वभावानुत्पादं परिदीपयति, किं तर्हि निःस्वभावत्वम्, स्वभावस्यानवस्थायित्वम्, विनाशित्वम्, इति । कुत एतदिति चेत्,
भावानां निःस्वभावत्वमन्यथाभावदर्शनात् ।
विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः । एतदुक्तं भवति- यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत । उपलभ्यते च परिणामः । तस्मात्स्वभावानव स्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ॥
इतश्चैतदेवम् । यस्मात्-
अस्वभावो भावो नास्ति भावानां शून्यता यतः

36.3

यो ह्यस्वभावो भावः, स नास्ति । भावानां च शून्यता धर्म इष्यते । न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते । न हि असति वन्ध्यातनये तच्छयामतोपपद्यत इति । तस्मादस्त्येव भावानां स्वभाव इति

36.4

अपि च-
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते ।
यदि भावानां स्वभावो न स्यात्, यो ऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति? अत्रोच्यते । एवमपि परिकल्प्यमाने
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते

36.4

इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात् । अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते । तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति । यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः । न हि अग्निः शैत्यं प्रतिपद्यते । एवं भावानां सति स्वभावाभ्युपगमे ऽन्यथात्वमेव न संभवेत् । उपलभ्यते चैषामन्यथात्वम् । अतो नास्ति स्वभावः

36.5

अपि च । अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात् । यथा च न संभवति, तथा प्रतिपादयन्नाह-
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते

36.5

तस्यैव तावत् प्राग्वत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते । तथा हि यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् । अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं परिकल्प्यते, तदपि नोपपद्यते । अन्यथात्वं नाम जरायाः पर्यायः । तद्यदि यूनो नेष्यते, अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते । यस्मान्न हि जीर्णस्य पुनर्जरया संबन्धः, निष्प्रयोजनत्वात् । किं हि जीर्णस्य पुनर्जरया संबन्धः कुर्यात्? तदागमनान्तरेण जीर्णताभावाज्जीर्णो जीर्यत इति न युज्यते । अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात्

36.6

अपि च ।
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि ।
अथ स्यात्- क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति । उच्यते । यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात्-
क्षीरादन्यस्य कस्याथ दधिभावो भविष्यति

36.6

किमुदकस्य दधिभावो भवतु? तस्मादसंबद्धमेव तदन्यस्य दधिभावो भविष्यतीति । तदेवमन्यथात्वासंभवात् कुतस्तद्दर्शनात् सस्वभावता भावानां प्रसेत्स्यतीति न युक्तमेतत् । यथोक्तमार्यरत्नाकरमहायानसूत्रे-
यो न पि जायति नो चुपपद्यी नो च्यवते न पि जीर्यति धर्मः ।
तं जिनु दर्शयती नरसिंह तत्र निदेशयि सत्त्व महर्षी ॥
यस्य स्वभाव न विद्यति कश्चि नो ऽपरभावतु केनचि लब्धः ।
नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथः ॥
शान्त गती कथिता सुगतेन नो च गती उपपद्यति काचि ।
तत्र च व्योहरसी गतिमुक्तो मुक्तकु मोचयसी बहुसत्त्वान् ॥
सर्वि वदेसि निरात्मक धर्मान् सत्त्वतु ग्राहतु मोचसि लोकम् ।
मुक्त स्वयं गतितो गतिमुक्तो तेनसि पारगतो न च तीर्णः ॥
पारगतो ऽसि भवार्णवतीर्णः पारगतो न च लभ्यति कश्चि ।
पारु न विद्यति नापि अपारु पारगतो ऽस्मि वदेसि च वाक्यम् ॥
वाच न विद्यति यां च वदेसि यं पि वदेसि न विद्यति तं पि ।
यस्य वदेसि न विद्यति सो ऽपि यो ऽपि विजानति सो ऽपि असन्तो ॥
तत्र प्रणष्टु जगं इमु सर्वं वितथविकल्पनिवेशवशेन ।
शान्त विजानति यो नरु धर्मां स्तेहि तथागतु दृष्ट स्वयंभूः ॥
शान्त प्रजानति धर्म प्रणीतान् प्रीति स विन्दति तोषति सत्त्वान् ।
सो भवती जिनु जित्वेन क्लेशान् आत्म ............ ।
तेन विजानित बोधि जिनानां बुद्धिय बोधयते स जगं पि ।
इत्यादि

36.7

यच्चोक्तम्- अस्वभावो भावो नैवास्ति, शून्यता च भावानामिष्यते, तस्मादस्ति शून्यताअश्रयो भावस्वभाव इति, एतदपि न युज्यते इत्याह-
यद्यशून्यं भवेत्किंचित्स्याच्छून्यमिति किंचन ।
न किंचिदस्त्यशून्यं च कुतः शून्यं भविष्यति

36.7

यदि शून्यता नाम काचित् स्यात्, तदा तदाश्रयो भावस्वभावः स्यात् । न त्वेवम् । इह हि शून्यता नामेति सर्वधर्माणां सामान्यलक्षणमित्यभ्युपगमात् अशून्यधर्माभावादशून्यतैव नास्ति । यदा च अशून्याः पदार्था न सन्ति, अशून्यता च नास्ति, तदा प्रतिपक्षनिरपेक्षत्वाच्छून्यतापि ( प्प्_108 ) खपुष्पमालावन्नास्तीत्यवसीयताम् । यदा च शून्यता नास्ति, तदातदाश्रया अपि पदार्था न सन्तीति स्थितमविकलम्

36.8

अत्राह- त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिताख्यानि विमुक्तये विनेयेभ्यो भगवता निर्दिष्टानि सर्वतीर्थिकसमयासाधारणानि सौगत एव प्रवचने समुपलभ्यन्ते । येषामुपदेशार्थमेव बुद्धा भगवन्तो ऽशेषतीर्थ्यवादमहामोहान्धकारानुगतजगति जगदेकप्रदीपा नैरात्म्योपदेशाविच्छिन्नशिखा उत्पद्यन्ते । स भवांस्तथागतप्रवचनव्याख्यानव्याजेन इदानीं तामेव शून्यतां प्रतिक्षेप्तुमारब्धवान्, इत्यलं भवता स्वर्गापवर्गमार्गसमुच्छेदकेनेति । उच्यते । अहो वत भवानत्युन्मुख इव अत्यन्तविपर्यासान्निर्वाणपुरगामिनं शिवमृजुं परमं पन्थानमवधूय भावाभिनिवेशव्या, कुलितं संसारकान्तारानुगमेव मार्गं मोक्षपुरगामित्वेन समाश्रितो निर्मुमुक्षुः सन् संसाराटवीकान्तारः सद्भिरुपालभ्य एव सन् अभिमानाभिनिवेशग्रहपवरशतया तानेवोपालभते । ननु भोः, निरवशेषक्लेशव्याधिचिकित्सकैर्महावैद्यराजैः-
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे

36.8

इह सर्वेषामेव दृष्टिकृतानां सर्वग्रहाभिनिवेशानां यनिःसरणमप्रवृत्तिः सा शून्यता । न च दृष्टिकृतानां निवृत्तिमात्रं भावः । ये तु तस्यामपि शून्यतायां भावाभिनिवेशिनः, तान् प्रति अवाचका वयमिति कुतो ऽस्मदुपदेशात् सकलकल्पनाव्यावृत्त्या मोक्षो भविष्यति? यः नकिंचिदपि ते पण्यं दास्यामीत्युक्तः, स चेत् ऽदेहि भोस्तदेव मह्यं नकिंचिन्नाम पण्यम्,ऽ; इति ब्रूयात्, स केनोपायेन शक्यः पण्याभावं ग्राहयितुम्? एवं येषां शून्यतायामपि भावाभिनिवेशः, केनेदानीं स तेषां तस्यां भावाभिनिवेशो निषिध्यतामिति? अतो महाभैषज्ये ऽपि दोषसंज्ञित्वात् परमचिकित्सकैर्महावैद्यैस्तथागतैः प्रत्याख्याता एव ते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे-
यन्न शून्यतया धर्मान् शून्यान् करोति, अपि तु धर्मा एव शून्याः । यन्नानिमित्तेन धर्माननिमित्तान् करोति, अपि तु धर्मा एवानिमित्ताः । यन्नाप्रणिहितेन धर्मानप्रणिहितान् करोति, अपि तु धर्मा एवाप्रणिहिताः । यैवं प्रत्यवेक्षा, इयमुच्यते काश्यप मध्यमा प्रतिपद्धर्माणां भूतप्रत्यवेक्षा । ये हि काश्यप शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति, तानहं नष्टप्रणष्टानिति वदामि ॥
इति प्रवचनात् ॥
तथा-
वरं खलु काश्यप सुमेरुमात्रा पुद्गलदृष्टिराश्रिता, न त्वेव अभावाभिनिवेशिकस्य शून्यतादृष्टिः । तत्कस्य हेतोः? सर्वदृष्टिकृतानां हि काश्यप शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि । तद्यथा काश्यप ग्लानः पुरुषः स्यात् । तस्मै ( प्प्_109 ) वैद्यो भैषज्यं दद्यात् । तस्य तद्भैषज्यं सर्वदोषानुच्चार्य स्वयं कोष्ठगतं न निःसरेत् । तत्किं मन्यसे काश्यप अपि तु स पुरुषस्ततो ग्लान्यान्मुक्तो भवेत्? नो हीदं भगवन् । गाढतरं तस्य पुरुषस्य ग्लान्यं भवेत्, यस्य तद्भैषज्यं सर्वदोषानुच्चार्य कोष्ठगतं न निःसरेत् । भगवानाह- एवमेव काश्यप सर्वदृष्टिकृतानां शून्यता निःसरणम् । यस्य खलु पुनः शून्यतैव दृष्टिः, तमहमचिकित्स्यमिति वदामि ॥ इति

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc