भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 35

35.1

सूत्रे उक्तम्- तन्मृषा मोषधर्म यदिदं संस्कृतम् । एतद्धि खलु भिक्षवः परमं सत्यं यदिदममोषधर्म निर्वाणम् । सर्वसंस्काराश्च मृषा मोषधर्माणः इति । तथा- नास्त्यत्र तथता अवितथता वा । मोषधर्मकमप्येतत् । प्रलोपधर्मकमप्येतत् इति । तदनेन न्यायेन यन्मोषधर्म तन्मृषेत्येवं यस्मादुक्तवांस्तथागतो भगवान्, सर्वे च मोषधर्माणः संस्काराः, तस्मान्मोषधर्मकत्वेन ते संस्कारा मृषा भवन्ति चित्रकरयन्त्रदारिकावत्, लक्षणोपेतयन्त्रमयवारणवञ्चितोदयनवत्सराजवत् । तत्र विसंवादकं मोषधर्मकं वितथख्यात्यालातचक्रवत् । अतो निःस्वभावत्वेन मृषा सर्वसंस्काराः मोषधर्मकत्वात् मरीचिकादिजलवत् । यत्तु सत्यं न तन्मोषधर्मकम्, तद्यथा निर्वाणमेकम् । ततश्च विहितया उपपत्त्या अस्माच्चागमात् सिद्धं सर्वभावानां नैःस्वाभाव्यम् । शून्याः सर्वधर्मा निःस्वभावयोगेन इति च प्रज्ञापारमिता- अर्धशतिकापाठात्

35.2

अत्राह- यद्येवं मोषधर्मकत्वेन सर्वसंस्काराणां मृषात्वं प्रतिपादितं भवता, नन्वेवं सति न सन्ति सर्वे भावा इति सर्वपदार्थापवादिनी मिथ्यादृष्टिरेव स्यात् । उच्यते । सत्यं मोषधर्मकाः सर्वसंस्काराः, ये ऽद्यापि भवन्तं मुष्णन्ति । ननु च भोः,
तन्मृषा मोषधर्म यद्यदि किं तत्र मुष्यते ।
यदा अस्माभिः तन्मृषा मोषधर्मकम् इत्युक्तम्, तदा किं तत्र मुष्यते? किं तत्राभावो भवति? कश्चिद्यदि पदार्थो ऽभविष्यत्, स्यात्तस्यापवादादभावदर्शनान्मिथ्यादृष्टिः । यदा तु पदार्थमेव कंचिन्न पश्यामः, तदा किं तत्र मुष्यते? नैव किंचिदभावो भवतीत्ययुक्तो ऽयमुपालम्भो भवतः ।
अत्राह- यदि अभावदर्शनमपि न प्रतिपाद्यते, किं पुनरनेनागमेन प्रतिपाद्यत इति? उच्यते-
एतत्तूक्तं भगवता शून्यतापरिदीपकम्

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc