Prasannapada · अध्याय 33
यस्मादिमान् मरणान्तिकान् स्कन्धान् प्रतीत्य इमे औपपत्त्यांशिकाः स्कन्धा उत्पद्यन्ते तस्मात्स्वयं कृतं दुःखमिति नोपपद्यते
इदानीं परकृतमपि दुःखं यथा न संभवति, तथा प्रतिपादयन्नाह-
यद्यमीभ्य इमे ऽन्ये स्युरेभ्यो वामी परे यदि ।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः
यदा अमीभ्यो मरणान्तिकेभ्यः स्कन्धेभ्यः इमे औपपत्त्यांशिकाः स्कन्धा अन्ये स्युः, एभ्यो वा औपपत्त्यांशिकेभ्यः अमी मरणान्तिका स्कन्धाः परे स्युः, स्यात्तदानीं परकृतं दुःखम् । न चैषामन्यत्वं दृष्टं हेतुफलसंबन्धावस्थानात् । वक्ष्यति हि-
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥ इति ।
अतः परकृतमपि दुःखं न संभवति । यदि हि अन्यत्वं स्यात्, तदा सति अन्यत्वे एतैः परभूतैः स्कन्धैरमी परभूताः कृता इति युक्तं वक्तुं स्यात् । न चैतदेवम्। इति परकृतमपि दुःखं न संभवति
अथ स्यात्- न ब्रूमो यस्माद्दुःखेनैव दुःखं कृतम्, अतः स्वयं कृतमिति । किं तर्हि स्वपुद्गलेन यस्मात्स्वयमेव कृतम्, नापरेण कृत्वा दत्तम्, इत्यतः स्वयं कृतं दुःखमिति ब्रूमः । उच्यते-
स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम्
यदेतन्मनुष्यदुःखं पञ्चोपादानस्कन्धलक्षणं स्वयं पुद्गलेन कृतमिति परिकल्प्यते, कल्प्यतामसौ पुद्गलो येन तद्दुःखं स्वयं कृतम् । यदि तावद्येन दुःखेन स्वपुद्गलः प्रज्ञप्यते, तदेव दुःखं तेन कृतमिति, स भेदेन कथ्यतामिदं तद्दुःखमयमस्य कर्तेति । अथापि मनुष्यदुःखोपादानेन पुद्गलेन तदेव दुःखं कृतं स्यात्, न तर्हि स्वपुद्गलकृतं तत्, परपुद्गलकृतमेव स्यात् । अथोपादानभेदे ऽपि पुद्गलाभेद इष्यते, एतच्च नास्ति, उपादानव्यतिरिक्तस्य भिन्नस्य पुद्गलस्य दर्शयितुमशक्यत्वात् । एवं तावत् स्वपुद्गलकृतं दुःखं न भवति
अत्राह- क एवमाह स्वपुद्गलकृतं दुःखमिति? किं तर्हि परपुद्गलजं दुःखम् । अन्य एव देवदुःखान्मनुष्यपुद्गलः, मनुष्यपुद्गलश्च देवदुःखं कृत्वा यस्माद्देवपुद्गलाय ददाति, तेन च देवदुःखेन देवपुद्गलः प्रज्ञप्यते, तस्मात्तस्य पुद्गलस्य तद्दुःखं परपुद्गलजमेव भवति । उच्यते-
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः
यदि देवदुःखं मनुष्यपुद्गलकृतम्, तेन च मनुष्यपुद्गलेन तद्दुःखं कृत्वा परस्मै देवपुद्गलाय प्रदीयत इति स देवपुद्गलो देवदुःखविनिर्मुक्तः कुतो यस्मै प्रदीयेतेति । एवं तावदपरपुद्गलजस्य दुःखस्य प्रतिग्राहक एव नास्ति
इदानीं यश्च ददाति, असावपि नास्तीत्याह-
परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत्
येनोपादानेन स मनुष्यपुद्गलः प्रज्ञप्यते, स मनुष्योपादानव्यतिरिक्तः कतमो यो देवपुद्गलाय देवदुःखं कृत्वा प्रहेष्यति? तस्मात्परपुद्गलजमपि दुःखं न संभवति
ततश्च-
स्वयंकृतस्याप्रसिद्धेर्दुःखं परकृतं कृतः ।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम्
यदि देवपुद्गलदुःखं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य स्वयंकृतमेव तद्भवति । एतच्च नास्तीत्युक्तम् । ततः स्वयंकृतस्याप्रसिद्धेर्यदा मनुष्यपुद्गलेन स्वयं तद्दुःखं न कृतम्, तदा कुतः परपुद्गलस्य देवाख्यस्य तद्दुःखं परकृतं भविष्यतीति । अतो ऽपि परकृतं दुःखं न संभवति
इदानीं प्रकरणान्तरेणापि पक्षद्वयासंभवं प्रतिपादयन्नाह-
न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम्
इतश्च स्वपराभ्यां दुःखस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दुःखम् । किं कारणम्? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अतः स्वकृतं नास्ति । न परकृतमपि, यस्माद्यो ऽसौ परः करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्नः तस्यापि हेत्वन्तरापेक्षणात् । यश्च स्वात्मना न निष्पन्नः, स कथमविद्यमानस्वभावः सन् परं करिष्यतीति न युक्तमेतत्
इदानीमुभयकृतमपि दुःखमसदित्याह-
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।
यदि हि एकैकेन दुःखस्य करणं स्यात् स्यात्तदानीमुभाभ्यां कृतं दुःखम् । न चैकैककृतं तत्, उक्तदोषात् । न चैकैकेन प्राणातिपाते कृते द्वाभ्यां कृत इति व्यपदेशो दृष्टः ॥
इदानीं निर्हेतुकमपि दुःखं यथा नास्ति, तथा प्रतिपदयन्नाह-
पराकारास्वयंकारं दुःखमहेतुकं कुतः
परेण अकारो अकरणं यस्येति पराकारम् । न स्वयंकारो ऽस्येत्यस्वयंकारम् । यदि दुःखं स्वयंकृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं भविष्यति खपुष्पसौगन्ध्यवत्? दुःखाभावात्कुतस्तस्याश्रयभूत आत्मा
यथा च चतुर्धा विचार्यमाणं दुःखमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा वेदितव्याः, इति प्रतिपादयन्नाह-
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
सर्वेषां
बाह्यानामपि भावानां चातुर्विध्यं न विद्यते
पूर्ववत्सर्व समं योज्यम् । यदि खल्वेषां दुःखादीनां चातुर्विध्यासंभवः, तत्कतमेन तर्हि इदानीं प्रकारेण एषां सिद्धिरिति । उच्यते । स्वभावतो यदि एतानि दुःखादीनि स्युः, नियतमेषां चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धिः स्यात् । न त्वस्ति । तस्मात्स्वभावतो न सन्ति दुःखादीनीत्यवसीयते । अथ विपर्यासमात्रलब्धात्मसत्ताकाया दुःखादिसंवृतेः प्रतीत्यसमुत्पादव्यवस्था ( प्प्_103 ) मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहितविधिना यथोदितपक्षचतुष्टयतिरस्कारेण इदंप्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्धया सिद्धिरभ्युपेया । यथोक्तम्-
स्वयंकृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ इति ॥
उक्तं च भगवता आर्योपालिपृच्छायाम्-
तथा
संवृति भाषितु धर्म जिनेन संस्कृत ऽसंस्कृत पश्यथ एव ।
नास्तिह भूततु आत्म नरो वा एत्तकु लक्षण सर्वजगस्य ॥
कृष्णशुभं च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् ।
नो ऽपि तु संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोति ॥
सर्वि भवा अलिका वसिकाश्च रिक्तक तुच्छक फेनसमाश्च ।
मायमरीचिसमा सद शून्या देशितुः संवृतु ते च विविक्ताः ॥
शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुक जायि प्रतीत्य ।
एविमु संस्कृत सर्वि विजान मायमरीचिसमं जगु सर्वम् ॥
इत्यादि
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0