ग्रंथ पाठ
Prasannapada · अध्याय 32
32.1
तत्रैके वादिनः स्वयं कृतं दुःखमिति प्रतिपन्नाः । अपरे पुनः परकृतम्, अन्ये च उभयकृतम्। केचिदहेतुसमुत्पन्नमेव दुःखमिति प्रतिपन्नाः । सर्वथा च तद्दुःखमिष्यमाणं कार्यं कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति
32.2
तत्प्रतिपादयन्नाह-
स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् ।
स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0