भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 31

31.1

तत्र यदि पूर्वं कारणं पश्चात्कार्यं स्यात्, अकार्यकं कारणं निर्हेतुकं स्यात् । अथ पूर्वं कार्यं पश्चात्कारणम्, एवमपि कारणात्पूर्वं कार्यं निर्हेतुकमेव स्यात् । अथ युगपत्कार्यकारणे स्याताम्, एवमुभयमप्यहेतुकं स्यात् । एवं लक्ष्यलक्षणे वेदनावेदकौ च योज्यौ । न च केवलं संसारस्य व्याख्यानेन कार्यकारणादिकं व्याख्यातं वेदितव्यम्, अपि च ये ऽप्यन्ते पदार्था ज्ञानज्ञेयप्रमाणप्रमेयसाधनसाध्यावयवावयविगुणगुण्यादयः, तेषामपि पूर्वा कोटिर्न विद्यत इति योज्यम् ॥ अत एव आर्यरत्नमेघसूत्रे आर्यसर्वनीवरणविष्कम्भिणा महाबोधिसत्त्वेन भगवान् स्तुतः-
आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव च निर्वृताः ।
धर्मास्ते विवृता नाथ धर्मचक्रप्रवर्तने ॥ इति
तथा-
आदित शून्य अनागत धर्मा नो गत अस्थित स्थानविविक्ताः ।
नित्यमसारक मायसभावाः शुद्ध विशुद्ध नभोपम सर्वि ॥
यं च पभाषति धर्म जिनस्य तं च न पश्यति सो ऽक्षयताय ।
आदिनिरात्म निसत्त्विमि धर्मास्तांश्च च पभाषति नो च क्षपेति ।
कल्पित बुच्चति कल्पितमात्रं अन्तु न लभ्यति संसरमाणे ।
कोटि अलक्षण या पुरि आसीदेति अनागति प्रत्ययताये ॥
कर्म क्रिया च प्रवर्तति एवं हीनौत्कृष्टतया समुदेन्ति ।
जड्डक धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान् ॥
इत्यादि ॥ ।
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वापरकोटिपरीक्षा नामैकादशमं प्रकरणम् ॥
12
दुःखपरीक्षा द्वादशमं प्रकरणम् ।
अत्राह- विद्यत एव आत्मा, तत्संबन्धिदुःखसद्भावात् । इह हि पञ्चोपादानस्कन्धा दुःखमित्युच्यते, तच्च अस्ति, तेन च दुःखेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत एव दुःखस्याश्रयः, स चात्मेति । उच्यते । स्यादात्मा यदि दुःखमेव स्यात् । तद्धि भवेत् स्वयं कृतं वा परकृतं वा उभयकृतं वा हेतुरहितं वा । सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति प्रतिपादयन्नाह-
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc