Prasannapada · अध्याय 26
प्राक् तावद्दर्शनादिभ्य आत्मा नास्ति, तत्र हि तस्यास्तित्वाभावात् । दर्शनादिसहभूतो ऽपि नास्ति, पृथक्पृथगसिद्धयोः सहभावादर्शनात् शशशृङ्गयोरिव । आत्मोपादानयोश्च परस्परनिरपेक्षयो पृथक्पृथगसिद्धत्वात् सांप्रतमपि नास्ति । उर्ध्वमपि । यदि हि पूर्वं दर्शनादीनि स्युः, उत्तरकालमात्मा स्यात्, तदानीमूर्ध्वं संभवेत् । न चैवम्, अकर्तृकस्य कर्मणो ऽसिद्धत्वात् । यश्चैवमात्मा दर्शनादिभ्यः प्राक् पश्चाद् युगपच्च परीक्ष्यमाणो नास्ति, तस्य इदानीमनुपलब्धस्वभावस्य अस्तित्वं नास्तित्वं वा कः परिकल्पयेत्प्राज्ञः? तस्मात्कर्मकारकवदेव उपादानोपादात्रोः परस्परापेक्षा सिद्धिर्न स्वाभाविकीति स्थितम् ॥
अत एवोक्तं भगवता आर्यसमाधिराजभट्टारके-
तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् ।
सुपिनोपमा भगवती सकला न हि कश्चि जायति न चो म्रियते ॥
न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः ।
मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमाः ॥
न च अस्मि लोकि मृतु कश्चि नरो परलोक संक्रमति गच्छति वा ।
न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥
न च शाश्वतं न च उच्छेद पुनो न च कर्मसंचयु न चापि स्थितिः ।
न च सो ऽपि कृत्व पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥
न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः ।
न च दृष्टिस्थानगतिशुद्धिरिह न च सत्त्वचारसुपशान्तगति ॥
अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा ।
बल धारणी दशबलान बलं बुद्धानियं वृषमिता परमा ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वपरीक्षा नाम नवमं प्रकरणम् ॥
10
अग्नीन्धनपरीक्षा दशमं प्रकरणम् ।
अत्राह- यदिदमुक्तं तस्मात्कर्मकारकवदेव उपादानोपादात्रोरपि न स्वाभाविकी सिद्धिरिति, तदयुक्तम्, सापेक्षाणामपि पदार्थानां सस्वाभाव्यदर्शनात् । तथा हि अग्निरिन्धनमपेक्ष्य भवति । न च निःस्वभावो ऽग्निः, तस्य औष्ण्यदाहकत्वादिस्वभावकार्योपलम्भात् । एवमग्निमपेक्ष्य इन्धनं भवति । न च तन्निःस्वभावम्, बाह्यमहाभूतचतुष्टयस्वभावत्वात् । एवमुपादानसापेक्षो ऽप्युपादाता स्वभावतो भविष्यति, उपादातृसापेक्षं चोपादानमित्यग्नीन्धनवदेतौ भविष्यत उपादानोपादाताराविति । उच्यते । स्यादेतदेवम्, यदि अग्नीन्धने एव स्याताम्, न तु स्तः । कथम्? इह यदि अग्नीन्धने स्याताम्, नियतं ते एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा तु न युज्यत इत्याह-
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत्
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0