Prasannapada · अध्याय 25
इह विद्यमान एव देवदत्तो धनोपादानं कुरुते नाविद्यमानो वन्ध्यातनयः । एवं यदि तावत्पुद्गलो दर्शनादिभ्यः पूर्वं व्यवस्थितो न स्यात्, नासौ दर्शनादिकस्योपादानमकरिष्यत् । तस्मादस्ति असौ धनात्प्रागेव स्थितदेवदत्तवत् दर्शनादिभ्यः पूर्वं पुद्गलो यो ऽस्य उपादानं करिष्यतीति
उच्यते-
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः
यौ ऽसौ पुद्गलो दर्शनादिभ्यः पूर्वमस्तीति व्यवस्थाप्यते, स केन प्रज्ञप्यताम्? पुद्गलप्रज्ञप्तेर्हि दर्शनादिकं कारणम् । स यदि तेभ्यः प्राग्व्यवस्थितो ऽस्तीति कल्प्यते, तदा दर्शननिरपेक्षः स्याद् घटादिव पटः । यश्च स्वकारणनिरपेक्षः स निर्हेतुको धनादिनिरपेक्षः धनिकवन्नास्तीत्यभिप्रायः
किं चान्यत्-
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः
यदि मन्यसे- दर्शनादिभ्यः पूर्वं पुद्गलो नामास्ति, स दर्शनादिकमुपादानमुपादत्ते इति । नन्वेवं सति निरस्तसंशयममून्यपि दर्शनादीनि विना पुद्गलेन भविष्यन्ति । तथाहि देवदत्तो धनसंबन्धात्पूर्वं धनव्यतिरिक्तो व्यवस्थितः सन् अर्थान्तरभूतमेव पृथक्सिद्धं धनमुपादत्ते । एवमुपादातुरपि स्वात्मव्यतिरेकेणार्थान्तरभूतं दर्शनादिकमुपादानं स्यात्
न तु संभवतीत्याह-
अज्यते केनचित्कश्चित् किंचित्केनचिदज्यते ।
कुतः किंचिद्विना कश्चित् किंचित्कंचिद्विना कुतः
इह बीजाख्येन कारणेन किंचित्कार्यमभिव्यज्यते ऽङ्कुराख्यम्, तेन च कार्येण किंचित् कारणमभिव्यज्यते बीजाख्यम्- अस्येदं कारणमिदमस्य कार्यमिति । एवं यदि केनचिद्दर्शनादिकेनोपादानेन कश्चिदात्मस्वभावो ऽभिव्यज्यते अस्यायमुपादातेति, केनचिच्चात्मना किंचिदुपादानं दर्शनादिकमभिव्यज्यते इदमस्योपादानमिति, तदानीं स्यात्परस्परापेक्षयोरुपादानोपादात्रोः सिद्धिः यदा तु उपादातारं विना पृथक् सिद्धं दर्शनादिकमभ्युपगम्यते, तदा तन्निराश्रयमसदेव तस्मान्नास्त्युभयोरपि सिद्धिः, इति न युक्तमेतत्- दर्शनादिभ्यः पृथगवस्थित उपादातेति
अत्राह- यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते । यदि सर्वेभ्यो दर्शनादिभ्य प्रागवस्थित इत्यभ्युपगतं स्यात्, स्यादेष दोषः । यदा तु-
सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते ।
किं तर्हि एकैकस्मात्पूर्वो विद्यते । यदा चैवम्, तदा-
अज्यते दर्शनादीनामन्येन पुनरन्यदा
यदा दर्शनेन द्रष्टेत्यभिव्यज्यते, न तदा श्रवणादीन्युपादाय प्रज्ञप्यते, ततश्च पूर्वोक्तदोषानवसर इति
उच्यते । एतदपि न युक्तं दर्शनादिरहितस्य निरुपादानस्य निर्हेतुकस्य निरञ्जनस्यास्तित्वासंभवात् ।
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।
इति परिकल्प्यते, एवमपि-
एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते
यो हि सर्वेभ्यः पूर्वो न भवति, स एकैकस्मादपि न भवति । तद्यथा सर्वेभ्यो वृक्षेभ्य प्राग् वनं नास्ति, तदा एकैकस्मादपि नास्ति । सर्वासां च सिकतानां तैलजननाभावे सति एकैकस्या अपि सिकतायास्तैलं नास्ति । अपि च । यो ह्येकैकस्मात्पूर्वो भवति, ननु स सर्वेभ्यो ऽपि पूर्वं एवेत्यभ्युपगतं भवति । एकैकव्यतिरेकेण सर्वस्याभावात् । तस्मान्न युक्तमेकैकस्मात्पूर्वो विद्यत इति
इतश्च न युक्तम्- यस्मात्-
द्रष्टा स एव स श्रोता स एव यदि वेदकः ।
तदा-
एकैकस्माद्भवेत्पूर्वं
न च युक्तं वक्तुं स एव द्रष्टा स एव श्रोतेति । यदि स्यात्, तदा दर्शनक्रियारहितस्यापि श्रोतुर्द्रष्ट्टत्वं स्यात्, श्रवणक्रियारहितस्यापि द्रष्टुः श्रोतृत्वं स्यात् । न चैवं दृष्टं यद्दर्शनक्रियारहितो ऽपि द्रष्टा स्यात्, श्रवणक्रियारहितश्च श्रोतेति । अत एवाह-
एवं चैतन्न युज्यते
इति । प्रतिक्रियं च कारकभेदात्कुत एतदेवं भविष्यतीति प्रतिपादयन्नाह- एवं चैतन्न युज्यत इति ॥
आचार्यबुद्धपालितस्तु व्याचष्टे- एकत्वे हि आत्मनः इन्द्रियान्तरगमनप्रसङ्गः पुरुषस्य स्यात्, वातायनान्तरोपगमनवदिति । अस्य आचार्यभावविवेको दूषणमाह- सर्वगतस्यात्मनो नेन्द्रियान्तरगमनमस्तीत्ययुक्तः प्रसङ्गदोष इति । तदेतदयुक्तं स्वयूथ्यपरिकल्पितपुद्गलवादनिरासस्य प्रस्तुतत्वात्, तस्य च सर्वगतत्वाप्रतिज्ञानात् । तस्माद् युक्त एव प्रसङ्गदोष
अथापि यथोक्तदोषपरिजिहीर्षया-
द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर्यदि ।
परिकल्प्यते, तदपि न युक्तम् । एवं हीष्यमाणे-
सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत्
तद्यथा गोरन्यो ऽश्वः न हि गवि सति न भवति यौगपद्येन, एवं यदि द्रष्टुरन्यः श्रोता स्यात्, सद्रष्टर्यपि सति स्याद्यौगपद्येन । न चैवमिष्यते इति नास्त्यन्यत्वम् । अपि च । एवं सति बहव एवात्मानः प्राप्नुवन्ति द्रष्ट्टश्रोतृवेदकादीनां पृथक् पृथक् सिद्धयुपगमात् । तस्मादेकैकस्मादपि दर्शनादेः पूर्वं नास्ति पुद्गलो नाम कश्चित्
अत्राह- विद्यत एव पूर्वं स सर्वेभ्यो दर्शनादिभ्य आत्मा । अथ मतम्- यद्यस्ति, केन प्रज्ञप्यते स इति यदुच्यते, इह दर्शनादिभ्यः पूर्वं नामरूपावस्थायां चत्वारि महाभूतानि सन्ति यतः क्रमान्नामरूपप्रत्ययं षडायतनमिति दर्शनश्रवणादीन्युत्पद्यन्ते । तस्माद्दर्शनादिभ्यः पूर्वं चतुर्महाभूतोपादानमेवास्तीति । एवमपि-
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते
येभ्यो महाभूतेभ्यो दर्शनादिकमुत्पद्यते, तेष्वपि महाभूतोपादाननिमित्तको ऽप्येष न युज्यते पूर्वेणैव हेतुनेत्यभिप्रायः । तत्र यथा पूर्वमुक्तम्-
कुतः किंचिद्विना कश्चित्किंचित्कंचिद्विना कुतः ।
इति, इहापि तथैव वक्तव्यम् । महाभूतोपादानाद्यश्चात्मा पूर्वं सिद्धः स्यात्, स महाभूतान्युपादाय स्यात् । न चैवम्, निर्हेतुकत्वात् । यश्च नास्ति, स कथं महाभूतान्युपादास्यति? इति दर्शनोपादानवद्भूतोपादाने ऽपि दूषणमुक्तमेवेति न पुनरुच्यते
अत्राह- यद्यप्येवमात्मा प्रतिषिद्धः, तथापि दर्शनादिकमस्ति, अप्रतिषेधात् । न च अनात्मस्वभावानां घटादीनां दर्शनादिसंबन्धो ऽस्ति । तस्मात्संबन्धी विद्यत एवात्मेति । उच्यते । स्यादात्मा यदि दर्शनादीन्येव स्युः । न तु सन्ति । यस्य दर्शनादीन्युपादानं स यदा नास्तीति ( प्प्_84 ) प्रतिपादितम्, तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्वमित्याह-
दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि
यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि नास्तीति स्पष्टमादर्शितं भवति । ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति
अत्राह- किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति? केन एतदुक्तम्? ननु च अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति । उक्तमेतदेस्माभिः । न तु अस्यार्थो भवता सम्यग्निश्चितः । यतो भावरूप आत्मेति परिकल्पितः, स स्वभावतो न विद्यते, तस्य च मया स्वभावाभिनिवेशनिवर्तकमेव वचनमुक्तमसद्विपर्यासप्रतिपक्षेण, न तु अस्य अभावः परिकल्पितः । द्वयं ह्येतत् परित्याज्यं यश्च भावेष्वभिनिवेशः, यश्च अभावेषु अभिनिवेश इति । यथोक्तमार्यदेवेन-
यस्तवात्मा ममानात्मा तेनात्मानियमान्न सः ।
नन्वनित्येषु भावेषु कल्पना नाम जायते ॥
इति
एतदेव प्रतिपादयन्नाह-
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वमेव च ।
न विद्यते ऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0