भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 27

27.1

तत्र इध्यते यत् तदिन्धनम्, दाह्यं काष्ठादिकसंभूतम् । तस्य दग्धा कर्ता अग्निः । तत्र यदि तावद् यदिन्धनं स एवाग्निरिति परिकल्प्यते, तदा कर्तृकर्मणोरेकत्वं स्यात् । न चैवं दृष्टम्, घटकुम्भकारयोश्छेत्तृच्छेत्तव्ययोश्चैकत्वप्रसङ्गात्, तस्य चानभ्युपगमात् । अथ अन्यत्वम्, एवमपि यदि इन्धनादन्यो ऽग्निः स्यात्, तदा इन्धननिरपेक्षस्याग्नेरुपलब्धिः स्यात् । न हि घटादन्यः पटस्तन्निरपेक्षो न दृष्टः । न चैवमिन्धननिरपेक्षो ऽग्निरिति न युक्तमेतत्

27.2

अपि च । यदि इन्धनादन्यो ऽग्निः स्यात्, तदानीम्-
नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc