भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 16

16.2

तत्र यदि सति रागे रक्तः परिकल्प्येत, तत्रापि एष एव रागानुपपत्तिक्रमो ऽनन्तरोक्तो रक्ते ऽपि तुल्यः ।
रक्ताद्यदि भवेत्पूर्वं रागो रक्ततिरस्कृतः ।
इत्यादि । अथासति रागे रक्त इष्यते, एतदप्ययुक्तम् । यस्मात्-
रागे ऽसति पुना रक्तः कुत एव भविष्यति ।
इति । तस्माद्रक्तो ऽपि नास्ति । रागरक्ताभावाच्च स्कन्धादयो ऽपि न सन्तीति

16.3

अत्राह- नैव हि रागरक्तयोः पौर्वापर्येण संभवो यत इदं दूषणं स्यात्, किं तर्हि रागरक्तयोः सहैवोद्भवः । चित्तसहभूतेन रागेण हि चित्तं रज्यते, तच्च रक्तमिति । अतो विद्येते एव रागरक्ताविति । उच्यते । एवमपि-
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
सहोत्पादो ऽपि न युक्तो रागरक्तयोः । यस्मात्-
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम्

16.3

सहभावात् सव्येतरगोविषाणवदित्यभिप्रायः

16.4

अपि च । अनयो रागरक्तयोः सहभावः एकत्वे परिकल्प्येत पृथक्त्वे वा? तत्र यदि एकत्वे, तन्न युज्यते । यस्मात्
नैकत्वे सहभावो ऽस्ति
कस्मात्पुनर्नास्तीत्याह-
न तेनैव हि तत्सह ।
न हि रागस्वात्मा रागादव्यतिरिक्तो रागेण सहेति व्यपदिश्यते ॥
इदानीं पृथक्त्वे ऽपि सहभावाभावमाह-
पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति

16.4

न हि पृथग्भूतयोरालोकान्धकारयोः संसारनिर्वाणयोर्वा सहभावो दृष्ट इति

16.5

किं चान्यत्-
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः

16.5

यदि एकत्वे सहभावः स्यात्, तदा यत्र यत्रैकत्वं तत्र तत्र सहभाव इत्येकस्यापि सहभावः स्यात् । पृथक्त्वे ऽपि सहभावे इष्यमाणे यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इति अश्वादिव्यतिरिक्तस्य पृथगवस्थितस्य गोः असहायस्य सहभावः स्यात्

16.6

किं च-
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः

16.6

पृथक्त्वे सहभावश्च रागरक्तयोः परिकल्प्यते । किमनयोः सिद्धः पृथक्पृथग्भावः? किं रागनिरपेक्षो रक्तः सिद्धो यतस्तयोः सहभावः स्यात्? पृथक्पृथक्सिद्धयोरेव हि गवाश्वयोः सहभावो दृष्टः । न त्वेवं रागरक्तौ पृथक्पृथक्सिद्धाविति नास्त्यनयोः सहभावः

16.7

अथवा । पृथक्पृथगसिद्धयोर्न सहभाव इति कृत्वा-
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
परिकल्प्यते भवता, किमिदानीं सहभावेनाकिंचित्करेण परिकल्पितेनेत्याह-
सहभावं किमर्थं तु परिकल्पयसे तयोः

16.8

रागरक्तयोः सिद्धयर्थं सहभावः परिकल्प्यते । सच पृथक्पृथगसिद्धयोर्नास्तीति पृथक्पृथक् सिद्धिरभ्युपगम्यते त्वया । नन्वेवं सति सिद्धत्वात्किमनयोः सहभावेन कृत्यम्?
अथ-
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
पृथक्पृथग् रागरक्तयोः सिद्धिर्नास्तीति कृत्वा यद्यनयोः सहभावमिच्छसि, स च पृथक्पृथगसिद्धयोर्नास्तीति-
सहभावप्रसिद्धयर्थ पृथक्त्वं भूय इच्छसि

16.8

नन्वेवं सति इतरेतराश्रयायां सिद्धौ स्थितायां कस्येदानीं सिद्धौ सत्यां कस्य सिद्धिरस्तु?

16.9

यावता-
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि

16.9

नास्त्येव स पृथग्भावः सहभावानपेक्षो यस्मिन् पृथग्भावे सति सहभावसिद्धिः स्यादित्यसंभावयन्नाह-
कतमस्मिन्पृथग्भावे सहभावं सतीच्छसि

16.10

तदेवं यथोदितविचारपरामर्शेन रागरक्तयोरसिद्धिं निगमयन्नाह-
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
इति । यथा च रागरक्तयोर्न पौर्वापर्येण सिद्धिः नापि सहभावेन, एवं सर्वभावानामपीत्यतिदिशन्नाह-
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह

16.10

इति द्वेषद्विष्टमोहमूढादीनां रागरक्तवदसिद्धिर्योज्यते

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc