भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 15

15.1

तत्र रागः सक्तिरध्यवसानं सङ्गो ऽभिनिवेश इति पर्यायाः । रक्तो रागाश्रयः । स यदि रक्तो रागात्पूर्वं रागतिरस्कृतो रागरहितो भवेत्, तदा तं रागतिरस्कृतं रक्तं प्रतीत्य रागो भवेत् । एवं सक्ति रक्ते रागो भवेदिति युक्तम् । न त्वेवं संभवति, यद्रागरहितो रक्तः स्यात् । अर्हतामपि रागप्रसङ्गात्

15.2

यद्येवं सति रक्ते न रागः, असति तर्हि रक्ते रागो ऽस्तु । एतदप्ययुक्तमित्याह-
रक्ते ऽसति पुना रागः कुत एव भविष्यति ।
यदा सति रक्ते रागो नास्ति, तदा कथमसति रक्ते निराश्रयो रागः सेत्स्यति? न हि असति फले तत्पक्वता संभवतीति ॥
अत्राह- यद्यपि त्वया रागो निषिद्धः, तथापि रक्तो ऽस्ति, अप्रतिषेधात् । न च रागमन्तरेण रक्तो युक्तः, तस्मादयमप्यस्तीति । उच्यते । स्याद्रागो यदि रक्तः स्यात् । यस्मादयं रक्त इष्यमाणः सति वा रागे परिकल्प्येत, असति वा? उभयथा च नोपपद्यते इत्याह-
सति वासति वा रागे रक्ते ऽप्येष समः क्रमः

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc