भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 14

14.1

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ धातुपरीक्षा नाम पञ्चमं प्रकरणम् ॥
6
रागरक्तपरीक्षा षष्ठं प्रकरणम् ।
अत्राह- विद्यन्त एव स्कन्धायतनधातवः । कुतः? तदाश्रयसंक्लेशोपलब्धेः । इह यन्नास्ति, न तदाश्रयसंक्लेशोपलब्धिरस्ति बन्ध्यादुहितुरिव वन्ध्यासूनोः । सन्ति च रागादयः क्लेशाः संक्लेशनिबन्धनम् । यथोक्तं भगवता- बालो भिक्षवे अश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते । सो ऽभिनिविष्टः सन् रागमुत्पादयति । रक्तः सन् रागजं द्वेषजं मोहजं कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तरः । उच्यते । स्युः स्कन्धायतनधातवो यदि रागादय एव क्लेशाः स्युः । इहायं रागः परिकल्प्यमानो बालपृथग्जनैः सति रक्ते नरे परिकल्प्येत असति वा? उभयथा च न युज्यत इत्याह-
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc