Prasannapada · अध्याय 11
यथा घटादर्थान्तरभूतः पटो न घटहेतुकः, एवं रूपकारणचतुर्महाभूतव्यतिरिक्त भौतिकं रूपमिष्यमाणं न भूतहेतुकं स्यात् । न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् । तस्मादहेतुकत्वदोषप्रसङ्गान्न रूपकारणनिर्मुक्तं रूपमभ्युपेतव्यमिति
इदानीं रूपेणापि विनिर्मुक्तं यथा रूपकारणं नास्ति, तथा प्रतिपादयन्नाह-
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् ।
यदि कार्यरूपविनिर्मुक्तं रूपकारणं स्यात्, तदा, यथा घटात्कुण्डं पृथक्सिद्धं घटहेतुकं न भवति, एवं कार्यात्पृथग्भूतं कारणमिष्यमाणम्-
अकार्यकं कारणं स्यात्
निर्हेतुकं स्यात् । कारणस्य हि कारणत्वे कार्यप्रवृत्तिर्हेतुः, कार्यनिरपेक्षाच्च कारणात् पृथक्सिद्धा नास्ति कार्यप्रवृत्तिः । यच्चाकार्यकं कारणं तन्निर्हेतुकत्वान्नरोरगतुरगविषाणवन्नास्त्येवेत्याह-
नास्त्यकार्यं च कारणम्
इति
अथ चेदं रूपस्य कारणमिष्यमाणं सति वा रूपे कारणत्वेनेष्यते ऽसति वा? उभयथा च नोपपद्यत इत्याह-
रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपे ऽसत्येव रूपस्य कारणं नोपपद्यते
सति वा संविद्यमाने रूपे किं रूपकारणेन प्रयोजनम्? असति असंविद्यमाने रूपे किं किं रूपकारणेन प्रयोजनम्, कस्य वा तत्कारणं परिकल्प्यते? तस्मादसत्यपि रूपे रूपकारणं नोपपद्यते
अथ स्यात्- यद्यपि एवं रूपकारणं न संभवति, तथापि कार्यं रूपं संविद्यते, सद्भावात् कारणमपि भविष्यतीति । स्यादेवम्, यदि कार्यं रूपं स्यात् । न त्वस्ति । य्स्मात्-
निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
रूपकारणं यथा नास्ति तथोक्तम् । असति कारणे कुतो निर्हेतुकं कार्यं रूपं भवेत्? नैव नैवेत्यनेन सावधारणेन प्रतिषेधद्वयेन अहेतुकत्वादस्यात्यनिष्टतां दर्शयति । यतश्चैवं रूपं सर्वथा विचार्यमाणं न संभवति,
तस्मात्
तत्त्वदर्शी योगी
रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत्
सप्रतिघाप्रतिघसनिदर्शनानिदर्शनातीतानागतनीलपीतादिविकल्पान् रूपालम्बनान्न कांश्चित्परिकल्पयितुमर्हतीत्यर्थः
अपि च । इदं रूपकारणमिष्यमाणं सदृशं कार्यं निष्पादयेदसदृशं वा? उभयथा च नोपपद्यते इत्याह-
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते
तत्र रूपकारणं कठिनद्रवोष्णतरलस्वभावम् । भौतिकं तु चक्षुराध्यात्मिकं पञ्चचक्षुर्विज्ञानाद्याश्रयकरूपप्रसादात्मकम् । बाह्यं तु रूपाद्यायतनादिकं चक्षुर्विज्ञानादिग्राह्यलक्षणं न महाभूतस्वभावमिति । अतो भिन्नलक्षणत्वान्निर्वाणवत्कार्यकारणयोः सादृश्यमेव नास्तीति
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न चापि सदृशानां शालिबीजादीनां परस्परकार्यकारणभावो दृष्टः, इत्यतः
न कारणस्य सदृशं कार्यमित्युपपद्यते ।
तथापि
न कारणस्यासदृशं कार्यमित्युपपद्यते ।
भिन्नलक्षणत्वान्निर्वाणवदेवेत्यभिप्रायः
यथा चेदं रूपं विचार्यमाणं सर्वथा नोपपद्यते, एवं वेदनादयो ऽपि, इत्यतिदिशन्नाह-
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः
वेदनादिकमपि सर्वं रूपविचारेणैव समं योज्यम् । यथैव ह्येकस्य धर्मस्य शून्यता प्रतिपादयितुमिष्टा माध्यमिकेन, तथैव सर्वधर्माणामपीति
अतः-
विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते
तत्र परपक्षदूषणं विग्रहः । शून्यतया कारणभूतया रूपं निःस्वभावमित्येवं सस्वभाववादे प्रतिषिद्धे, यदि परः परिहारं ब्रूयात्- वेदनादयस्तावत्सन्ति, तद्वद्रूपमप्यस्तीति, तदेतत्सर्वं तस्यापरिहृतं भवति । यस्माद्वेदनादीनामपि सद्भावः साध्येन रूपसद्भावेन समो वेदितव्यः । यथा रूपं स्वकारणात्तत्त्वान्यत्वेन विचार्यमाणमसत्, एवं स्पर्शप्रत्यया वेदना, विज्ञानसहजा संज्ञा, अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं च विज्ञानं स्वकारणात्स्पर्शादेः तत्त्वान्यत्वादिना विचार्यमाणं नास्तीति सर्वमेतत्साध्यसमं भवति । यथा वेदनादयः साध्यसमाः, एवं लक्ष्यलक्षणकार्यकारणावयव्यवयवादयो ऽपि सर्व एव पदार्थाः रूपेण साध्येन समा इति कुतः परस्य परीहार संभवेत्? सर्वं वचनमस्य साध्यसमं भवतीति सर्वत्र शास्त्रे परीहारेण साध्यसमत्वं माध्यमिकेना ग्राहणीयमित्याचार्यः शिक्षयति
यथा च परपक्षदूषणे विहि ऽतोयं विधिः, एवं व्याख्यानकाले ऽपीत्याह-
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0