ग्रंथ पाठ
Prasannapada · अध्याय 10
10.1
तत्र रूपं भौतिकम् । तस्य कारणं चत्वारि महाभूतानि । तद्वयतिरिक्तं पृथग्भूतं रूपं रूपशब्दगन्धरसस्प्रष्टव्याख्यं नोपलभ्यते घटादिव पटः । रूपेणापि न निर्मुक्तं रूपात्पृथग्भूतं रूपकारणमुपलभ्यते
10.2
तदेतत्प्रतिज्ञाद्वयं प्रसाधयितुकाम आह-
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित्
मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0