प्राणाभरण (टीका सहित) · श्लोक 41-53
अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य राजनि भेषजतादात्म्यारोपस्याप्युपपादकतया स्थितं राजसंबन्धिनि द्विषदपकरणरूपे धर्मे श्लेषनिवेदितसर्पतापकरणतादात्म्यमिति प्रथमचरणे श्लिष्टपरम्परितरूपकं तृतीये तु श्लेष एव ।
कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम् ।
यस्मान्निदानमस्या लोकनमस्याङ्घ्रिपङ्कजो हि भवान्
अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकसंसर्गानुरूपः समालंकारविशेषः ।
श्लेषश्चास्मिन्गुणः ॥
दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः ।
अथ त्वं संगरे सौम्याः शेषकालानलासयः
अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्यापकर्षणात्, अथ त्वं संगर इत्यत्र च त्वमित्यस्यानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः पूर्वार्धे ।
उत्तरार्धे प्रकृतानेकधर्मसंबन्धात्तुल्ययोगिता ।
उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य तद्विरुद्धगुणकल्पनात्मकेनालंकारान्तरेण शबलिता ॥
अपारे खलु संसारे विधिनैको ऽर्जुनः कृतः ।
कीर्त्या निर्मलया भूप त्वया सर्वे ऽर्जुनाः कृताः
इह श्लेषमूलो व्यतिरेकः ॥
दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्यं च दृष्टे भवति भासते
अत्रापि सैव तथाविधा ।
यथासंख्यसंकरस्तु विशेषः ॥
शासति त्वयि हे राजन्नखण्डावनिमण्डलम् ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्त्रयोः
इहापि तुल्ययोगिता मित्त्रशब्दश्लेषोत्थापिता व्याजस्तुतिश्च ॥
भानुरग्निर्यमो वायं बलिः कर्णो ऽथवा शिबिः ।
प्रत्यर्थिनो ऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम्
इह तु संशय उल्लेखालिङ्गितः ॥
कमलावासकासारः क्षमाधृतिफणीश्वरः ।
भवान्कुवलयस्येन्दुरानन्दयति मानवान्
इह श्लिष्टपरम्परितं रूपकं मालारूपम् ॥
गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले ।
पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः
इह मालोपमालिङ्गित उल्लेखः ॥
मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् ।
नक्षत्रतां महीपानां त्वमिन्दवसि भूपते
इह शुद्धपरम्परिता मालारूपोपमा ।
आचारक्विबन्ताच्छतरि रूपाणि ।
तिङि चैकम् [इन्दवसि] ॥
मध्ये सुधासम्दुरस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः
अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि परां काष्ठामधिरूढे त्वदीयोक्तिपदसंबन्धो युक्तो न तु विशकलित इत्यतिशायकासद्विशेषणनिबन्धनः प्रौढोक्तिः ॥
अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजान्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः ।
उभयवदयं देव त्वत्तः कथं परमोल्बणः प्रलयदहनज्वालाजालाकुलो महसां गणः
अत्र कारणगुणविरुद्धस्वगुणस्य कार्यस्योत्पत्तेर्विषमालंकारः ।
अमृतलहर्यादीनां त्रयाणामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते ।
एवमेषु पद्येषु संभवन्तो ऽप्यन्ये ऽलंकाराः स्फुटत्वान्न विवेचिताः ।
सहृदयानां प्रीत्यावश्यकं किंचिद्व्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥
तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयाललितः श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटंतपः ।
संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम्
दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डाचण्डाशुगध्वस्तोद्दण्डविपक्षमण्डलमिह त्वां वीक्ष्य मध्येरणम् ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत्
मूल पाठ: Prāṇābharaṇa with autoentary · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 79-90. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0