भाषा

ENहिગુ
ग्रंथ पाठ

प्राणाभरण (टीका सहित) · श्लोक 21-40

21

अत्र स्मरणालंकारः परंतु लक्ष्यः ॥
यमः प्रतिमहीभृतां हुतवहो ऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् ।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः

22

अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामेतस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाद्भ्रान्तिमता तैरेवानेकैर्ग्रहीतृभिरनेकैर्धर्मैरुल्लेखनादुल्लेखविशेषेण च सह संकीर्णो ऽपि संबन्धिषष्ठ्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥
द्विनेत्र इव वासवो मितकरो विवस्वानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरैर्जयति कामरूपेश्वरः

23

अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणात्तन्निमित्तकोत्प्रेक्षा ।
सा चेह मालारूपा ।
न चात्रोपमा शक्यरूपणा ।
द्विनेत्रत्वाद्युक्तेर्निष्प्रयोजनकत्वापत्तेः ।
न चोपमानिष्पादकं तेषां साधारण्यं तदभावे ऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः ।
असुन्दरत्वेनोपमानिष्पादकतया कवेरनभिप्रेतत्वाच्च ।
एवं द्वितीयादीनां चन्द्रादिष्वारोपो ऽप्युपमायां सत्यामनर्थक एव स्यात् ॥
दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।
लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः

24

अत्र विषयानेकत्वप्रयुक्तचित्तवृत्तेरनेकविधत्वमित्युल्लेखः ।
तत्र च तदीयचित्तवृत्तित्वेनैकत्वाध्यवसानं तन्त्रम् ॥
देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्तादेव जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः ।
यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्तेर्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः

25

अत्र शुद्धपरम्परितरूपकम् ॥
प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्तिर्ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य ।
आशाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा सा भाति क्षोणिशोभाकरण तव दृशोः संगरे शोणिमश्रीः

26

अत्रापि तदेव परंतु मालात्मकम् ॥
त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्वनिर्वासनैकरसिकं समरे निरीक्ष्य ।
का वा रिपुक्षितिभृतां बत राजलक्ष्मीः स्वामिव्रतत्वमपरिस्खलितं बभार

27

अत्र शत्रूणां राज्यलक्ष्मीस्त्वां प्राप्तेति विवक्षितो ऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम् ।
तच्च राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः ॥
नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः ।
चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पान्डुपुत्राः

28

अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुनपुण्यपरमेश्वराणामभेदसंपादनद्वारा विषयसाधारणीकृतः ॥
मन्थाचलभ्रमणवेघवशंवदा ये दुग्धाम्बुधेरुदपतन्नणवः सुधायाः ।
तैरेकतामुपगतैर्विविधौषधीभिर्धाता ससर्ज तव देव दयादृगन्तान्

29

अत्र दृगन्तेषु न केवलं संजीवकत्वादयो ऽमृतमात्रगुण एव कवेर्बुबोधयिषिता अपि तु निखिलजनवशीकारत्वादयो ऽन्ये ऽपीति सुधाकणेष्वोषधीसंसर्गो ऽतिशयार्थमुपात्तः ॥
केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन गाढं चापस्य जीवा चकृषे जवेन

30

अत्र चापकर्षणकार्याणानां केशाकर्षणादीनां पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता सहोक्तिः ॥
महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः ।
भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन

31

अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपात्तोभयनिमित्तकः ॥
स तु वर्षतु वारि वारिदस्त्वमुदाराशय रत्नवर्षणः ।
स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः

32

अत्रापि स एव परं तु श्लेषो ऽत्रानुत्थापको निषिध्यमानं साम्यं च न शाब्दमिति विशेषः ॥
कतिपयैर्निरणायि जनाधिपस्तदपरैरुदटङ्कि धनाधिपः ।
अजनि केवलमेष गिरां पतिर्भुवि मदेकमते कमतेश्वरः

33

अत्र नायं राजा किं तु गिरां पतिरित्याकारापह्नुतिः ।
तत्र निषेधभागः परमतत्त्वोक्त्या पूर्वार्धेन गम्यते ।
आरोपांशस्तूत्तरार्धेन ॥
मकरप्रतिमैर्महाभटैः कविभी रत्ननिभैः समन्वितः ।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम्

34

अत्र राज्ञो जलध्युपमायाः शब्देनाभिधाने ऽप्यङ्गोपमाभिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध उपमितसमास एव ।
विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृते ऽनुपयोगात् ॥
पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भ्रुकुटीविटङ्कात्पतन्ति रोषानलविस्फुलिङ्गाः

35

अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः ।
कार्यकारणपौर्वापर्यविपर्ययरूपा चेयमतिशयोक्तिः ॥
भुवनत्रितये ऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलास्पदम्

36

अत्रोपमानलुप्तोपमेति प्राञ्चः ।
असमाख्यमलंकारान्तरमिति तु वयम् ॥
पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः

37

अत्र संबन्धे ऽप्यसंबन्ध इत्यतिशयोक्तिभेदः ।
उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रिक्तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा साम्यं कर्तुं यत्रानीशस्तत्र किं वाच्यं भूयस्येति वैलक्षण्यात्मा व्यतिरेकश्च ॥
भासयति व्योमस्था जगदखिलं कुमुदिनीर्विकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते

38

अत्र व्यजमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥
भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कृधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम्

39

ऽकेशैर्वधूनाम्ऽ; इत्यत्र कर्मणः सहोक्तिः ।
इह तु कर्तुरिति विशेषः ॥
त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि

40

अत्र वर्षवदाचरन्तीत्याचारक्विबन्तेन श्लेषाच्छ्लेषमूलिका तुल्ययोगिता ।
रिपुकामिनीवर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात् ॥
अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य ।
तस्य कुतो ऽहिभयं स्यादखिलामपि मेदिनीं चरतः

मूल पाठ: Prāṇābharaṇa with autoentary · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 79-90. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc