भाषा

ENहिગુ
ग्रंथ पाठ

प्राणाभरण (टीका सहित) · श्लोक 1-20

1

पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणम् ।
तत्कृतयैव टिप्पण्या समेतम् ।
विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये घास्यति कस्य लास्यमधुना धन्यस्य कामालसस्वर्वामाधरमाधुरीमधरयन्वाचां विलासो मम

2

विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत् ।
तेन सहृदयैर्न मनागपि विमनायितव्यम् ।
भावध्वनिश्चायम् ।
उत्तरार्धप्रतिपाद्यार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतचिन्तायाः प्राधान्येनाभिव्यक्तेः ।
अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटो ऽलंकारः ।
कामालसत्वं वामाविशेषमधरमाधुरीप्रकर्षकम् ॥
विद्राणैव गुणज्ञता समुदितो भूयानसूयाभरः कालो ऽयं कलिराजगाम जगतीलावण्यकुक्षिंभरिः ।
एवं भावनया मदीयकविते मौनं किमालम्बसे जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः

3

कविगतराजविषयकरतिभावध्वनिश्चायम् ।
इत ऊर्ध्वमयमेव आ चरमपद्यमनुवर्तयिष्यते ।
अस्य चात्र मौनानुभावितो वर्णनीयालम्बनो निर्वेदो गुण इति प्रेयोलंकारास्पदम् ।
अत्र चाचेतनायां कवितायां चेतनत्वाध्यवसायमूलासंबन्धे संबन्धात्मिकातिशयोक्तिर्विवक्षिता ।
तेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपत्तिः ॥
पारीन्द्राणां घुरीणैरवनितलगुहागर्भतः संपतद्भिः स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो घृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः

4

अत्र राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहागर्भोत्पतनाभिव्यक्तेनामर्षेण संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषयकरतिभावाङ्गत्वाद्रसालंकारत्वम् ।
यदाहुः -
ऽप्रधाने ऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिःऽ; ॥
इति ।
तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयौ ।
घृष्टाशब्देन तादृशनादो वेलाचलप्रतिबद्धत्वादग्रे न गतः ।
अन्यथा लोकालोकाचलमपि स्पृशेदिति गम्यते ।
एव मृष्टेति नोक्तम् ।
तथा सति शैथिल्यप्रत्ययापत्तेः ॥
किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रु शोणनयनं दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करैर्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः

5

अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां गुहागृहाणामरण्यगतानामवनिरुहाणां वा भूषणेन कार्येणाप्रस्तुतेन त्वदरिनारीणां स्वनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत इत्यप्रस्तुतप्रशंसा ।
कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु पर्यायोक्तमलंकारः ॥
माहात्म्यस्य परो ऽवधिर्निजगृहं गम्भीरतायाः पिता रत्नानामहमेक एव भुवने को वापरो मादृशः ।
इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः

6

अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्षं परिहर्तुं वर्ण्यमानसादृश्यात्मकः प्रतीपालंकारभेदः ।
स चोपमाविशेष इत्येके ।
विच्छित्तिवैलक्षण्यादतिरिक्त एवेत्यपरे ॥
तत्त्वो जन्म सितांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् ।
संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतुतमां देव त्वदीयं यशः

7

अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति समस्य विषयः ।
अंशुकृतश्चन्द्रे तत्कृतश्च भगवति भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः प्रतीयत इति सारविषयः ॥
आबध्नास्यलकान्निरस्यसितमां चोलं रसाकाङ्क्षया लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् ।
प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमद्भुतम्

8

अत्र प्रकृतिधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव वा वृत्तान्तयोः श्लेषः ।
स च षट्सु स्थलेषु शब्दनानात्वनिबन्धनो द्वयोश्चार्थनानात्वनिबन्धनः ।
द्वावप्येतौ शब्दालंकाराविति प्राञ्चः ।
आद्यो जतुकाष्ठन्यायेन शब्दश्लेषणाच्छब्दालंकारः, द्वितीयस्त्वेकवृन्तगतफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति नव्याः ॥
देव त्वां परितः स्तवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापो ऽनिशम् ।
क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि

9

अत्र प्रतापगतः पृथिव्यादिसंबन्धो लिङ्गविशेषावच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्तकामुकवृत्तान्ताभिन्नतया स्थित इति समासोक्तिः कार्यरूपधर्मप्रयुक्तशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता ।
सा च निन्दोत्थापकत्वादद्व्याजस्तुतौ गुणः ॥
लोकानां विपदं धुनोषि कुरुषे संपत्तिमत्युत्कटामित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् ।
यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डभाण्डोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते

10

अत्रापि प्राग्वत् ।
परं त्वाधाराधेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पनात्साधिकालंकारो ऽपि तस्यां गुणः ॥
क्षोणीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् ।
प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः

11

इह त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः] ॥
आस्वादेन रसो रसेन कविता काव्येन वणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना ।
दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर क्षोणीनाथ तथा भवांश्च भवता भूमण्डलं भासते

12

मालादीपकमेतदिति प्राञ्चः ।
दीपकस्य सादृश्यमूलकतानियमान्न मालादीपकमपि त्वेकावलीभेद इति तु वयम् ॥
अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः ।
सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः

13

इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्वाचकमनुमितिपरम् ॥
उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् ।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरूहाः

14

अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा संकीर्णशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता समासोक्तिः ॥
दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारो ऽधरः सुन्दरः ।
क्रोधस्ते ऽशनिमूरुदारधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम्

15

अत्रोत्प्रेक्ष्यमानसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैः सह विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्लेषेणाभेदसंपादनद्वारा तादृशधर्मसाधारणतासंपत्तौ तन्निमित्तकोत्प्रेक्षासिद्धिः ॥
सृष्टिः सृष्टिभुवा पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातपनिर्दयं तपसि यज्ज्वालाजटालैः करैः ।
संरम्भारुणलोचनो रणभुवि प्रस्थातुकामो ऽधुना जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः

16

अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलभेदनं कार्यं गम्यते ॥
आयाता कमलासनस्य भवनाद्द्रष्टुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात् ।
भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते

17

अत्रैकस्याधेयस्यानेकाधारसंबन्धात्पर्यायः ।
तत्र प्रथमचरणगतमधिकरणमार्थविश्लेषावधिकपञ्चम्या विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् ।
सत्यधामनीति श्लेषभित्तिकाभेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवर्तनसिद्धिः ॥
विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवीदावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः ।
किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः

18

अत्र कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य तथात्वात् ।
कवाविव कविनिबद्धप्रमात्रन्तरे ऽप्याहार्यबुद्धेरविरोधात् ॥
नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः ।
इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः

19

अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपकारकस्य यदैव तव कोपोदयस्तदैव तव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपकारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा ॥
मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्रुधं मा कृथाः ।
चराचरमिदं जगज्जनयतो विधेर्मानसे पदं न विदधेतरां तव समो द्वितीयो नरः

20

अत्र त्वत्समो ऽन्यो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्ग्येति प्राञ्चः ।
सर्वथैव साम्यस्याप्रतिष्ठानान्नेयमुपमा ।
अन्यथा व्यतिरेकस्यापि तत्त्वापत्तेः ।
ऽढुंढोल्लन्तो मरिससि कंटककलिआइं केऐवणाइं ।
मालैकुसुमसरिच्छं भमर भमंतो ण पावेसि ॥
ऽ; इत्यत्र तु न प्राप्स्यसीत्युक्त्वा क्वचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः सादृश्यप्रतिष्ठानाल्लुप्तोपमास्तु ।
तस्मादसमालंकार एवायमिति तु नव्याः ॥
भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यतः संगरे ।
करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य हृदयं झटित्यधिरुरोह जम्भाहितः

मूल पाठ: Prāṇābharaṇa with autoentary · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 79-90. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc